________________
सादर्श:
( ६१८ )
[ आख्यातप्रकरणे
वस्तुतः स्वर्गनिष्ठधर्मावच्छिन्ननिरूपित नियतपूर्ववर्तितावच्छेदकधर्मवत्त्वमेव स्वर्गकारणत्वम् । नियत पूर्ववर्तितावच्छेदकत्वं चाऽव्यवहितपूर्व कालावच्छिन्नवृत्ति - काभावघाटेत दैशिकव्यापकतायाः स्वाश्रयत्वस्वाश्रयनिष्ठ व्यापारवत्वाऽन्यतरसंबन्धेनावच्छेदकत्वमेव । व्यापकत्वनिरूपकतावच्छेदक वैजात्यस्य विशिष्यानुपस्थितावपि स्वर्गधर्मत्वेन ज्ञान संभवत्येव । व्यापकतावदकाभावप्रतियोगिभावाधिकरणता तदवच्छेदको यः क्षण:- घटोत्पत्तिपूर्वक्षणस्तदव्यवहितोत्तरक्षण : = घटोत्पत्तिक्षणस्तदवच्छिन्नं यत् स्वं घटस्तदाश्रयीभूतो यो घटोत्पत्तिक्षणस्तन्निष्ठत्वं घटोत्पतिक्षणावच्छिनाधिकरणतायां प्राप्तमित्यत्र तेन संबन्धेन यागतद्व्यापारान्यतराभावाधिकरणता विशिष्टा घटाद्युत्पत्तिक्षणावच्छिन्नाधिकरणता विज्ञेया, उक्तं स्वावच्छेदकंक्षणाव्यवहितोत्तरक्षणावच्छिन्नस्याश्रयनिष्ठत्वं च संबन्धभूतं घटोत्पत्तिक्षणावच्छिन्नाधिकरणतायामस्त्येव । यागव्यापारश्च यागजन्याऽपूर्वरूपो विज्ञेय इत्यन्वयः
-
स्वमतमाह - वस्तुत इति, स्वर्गनिष्टो यो वैजात्यविशेषो धर्मस्तदवच्छिन्नो यः स्वर्गविशेषस्तनिरूपिता या नियतपूर्ववर्तिता तदवच्छेदको यो धर्मो यागत्वं तद्वत्त्वमेव स्वर्गकारणत्वमि - त्यन्वयः, यागे यागत्वमप्यस्ति स्वर्गापेक्षया नियतपूर्ववर्तिताप्यस्तीति यागत्वे नियतपूर्ववर्तितावच्छेदकत्वं विज्ञेयम् । नियतपूर्ववर्तितावच्छेदकत्वस्य स्वरूपमाह - नियतपूर्ववर्तितेति । अव्यवहितेति - व्यापकतायास्तव निष्ठात्यन्ताभावाप्रतियोगित्वरूपत्वादभावघटितत्वमस्तीति स्वर्गापेक्षयाऽव्यवहितपूर्व कालेनावच्छिन्ना वृत्तिर्यस्यैवंभूतो योऽव्यवहितपूर्वकालावच्छिन्नवृत्तिकोऽभावस्तदूधटिता या दैशिकव्यापकता तस्याः स्वाश्रयत्व संबन्धेन वा स्वाश्रयनिष्ठव्यापारवत्त्वसंबन्धेन वा यदवच्छेदकत्वं तदेव नियतपूर्ववर्तितावच्छेदकत्वमित्यन्वयः । नियतपूर्ववर्तितावच्छेदकत्वं ह्युक्तव्यापकताया उक्तसंबन्धेनावच्छेदकत्वरूपमेव विज्ञेयमिति यावत् । स्वाश्रयत्व संबन्धेनेत्यस्य स्वसामानाधिकरण्यसंबन्धेनेत्यर्थः स्वं यागत्वं तथा च यागत्वमुक्तव्यापकता च यागे एवास्तीति स्वसामानाधिकरण्यसंबन्धेन यागत्वं व्यापकताया अवच्छेदकं जातम् । किं वा स्वाश्रयनिष्ठव्यापारवत्त्वसंबन्धेनावच्छेदकत्वं ग्राह्यं तत्रापि स्वं यागखं तदाश्रयो यागो जनकत्वसंबन्धेन यागनिष्ठो योऽपूर्वादिरूपो व्यापारस्तद्वत्त्वं व्यापकतायां सामानाधिकरण्येनास्ति - यागे एक व्यापारस्य व्यापकतायाश्च सत्त्वादिति तादृशेन स्वाश्रयनिष्टव्यापारवत्त्वसंबन्धेन यागस्खं व्यापकताया अवच्छेदकं जातमित्येतादृशं यद् व्यापकतावच्छेदकत्वं तदेव नियतपूर्ववर्तितावच्छेदकत्वमित्यर्थः प्रतिभाति । अत्र "स्वाश्रयनिरूपितव्यापारत्ववत्त्व" इतिपाठस्तु प्रामादिक एव प्रतीयते ।
व्यापकत्वेति- कारणनिष्ठज्यापकत्वनिरूपकता कार्ये एव भवतीति यागनिष्ठव्यापकत्वनिरूपकता स्वर्गे प्राप्ता तत्रैव स्वर्गे वैजात्यमध्यस्तीति व्यापकत्वनिरूपकतावच्छेदकत्वं वैजाप्ये प्राप्तं तस्य च व्यापकतानिरूपकतावच्छेदकवै जात्यस्य विशेषरूपेणोपस्थित्यऽसंभवेपि स्वर्गधर्मत्वेन रूपेण ज्ञानम्=मानं संभवत्येव शाब्दबोधे । ननु स्वर्गधर्मस्य वैजात्यस्यात्र स्वरूपत एव प्रवेशो
" Aho Shrutgyanam"