________________
स्वर्गकारणत्वनिर्वचनम् ] व्युत्पत्तिवादः । तायां स्वरूपतोऽवच्छेदककोटिप्रविष्टाया अपि जातेापकताभाने स्वर्गधर्मत्वादिना भाने न बाधकम्- स्वर्गधर्मत्वादेरुपलक्षणतया भानात् । प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञान एवं प्रतियोगिकोटावुपलक्षणप्रकाराऽभाननियमात, प्रकृते च कारणताशरीरघटकाभावस्य प्रतियोगिताप्रकारेण भाननियमात् । अत एव स्वरूपतो पहित्वाद्यवच्छिन्नप्रतियोगिताकाभावस्य वह्नित्वाद्यवच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नाभावत्वेन लक्षणप्रवेशस्य संभवदुक्तिकता। ऽस्तीति कथं स्वर्गधर्मत्वेन रूपेण भानं स्यादित्याशक्य वैजात्यस्यात्र स्वर्गधर्मत्वेन रूपेण भानमुपपादयति- व्यापकताघटकेति, व्यापकताघटकाभावः स्वर्गनिष्ठधर्मावच्छिन्नाव्यवहितपूर्ववृत्तिर्योऽभावस्तत्प्रतियोगिता स्वर्गकारणीभूतयागादौ नास्तीत्याकारकप्रीतिसाक्षिका या प्रतियोगितानिष्ठा प्रतियोगिता स्वरूपतस्तादृशप्रतियोगितावच्छेदकको टिप्रविष्टाया अपि जाते: वैजात्यस्य स्वर्गधर्मत्वादिना भाने न किंचिद्बाधकम्, उक्त हेतुमाह- स्वर्गधर्मत्वादेरिति, स्वर्गधर्मत्वादेरुपलक्षणतया उक्तवैजात्योपलक्षणतया हि भानं स्वीक्रियते एतादृशस्थले चोपलक्षणीभूतधर्मस्यापि प्रकारतया भानं संभवत्येवेति स्वर्गधर्मत्वादिना रूपेण वैजात्यस्य भाने न किंचिद्बाः धकमित्यर्थः । उपलक्षणीभूतस्वर्गधर्मत्वस्य कथमत्र वैजात्यप्रकारतयोक्तं भानं स्यादित्याशङ्क्याह- प्रतियोगितासंबन्धेनेति, अभावज्ञान प्रतियोगितासंबन्धेन प्रतियोगिताप्रकारकश्चापिभवति तत्र 'प्रतियोगितासंबन्धेन घटवान् घटाभावः । इतिप्रतियोगितासंबन्धेनाभावज्ञानमस्ति * निरूपकत्वसंबन्धेन प्रतियोगितावानऽभावः । इति च प्रतियोगिताप्रकारकाभावज्ञानमस्ति तत्र प्रतियोगितासंबन्धेन घटादिप्रतियोगिप्रकारकामावविशेष्यकज्ञान एवं प्रतियोमिकोटौ यदुपलक्षणतया प्रविष्टं भवति तस्य प्रकाराभाननियमात्-प्रकारतया भानं न भवतीति नियमोस्ति, यथात्र द्रव्यत्वस्य, प्रतियोगिताप्रकारकाभावाने तु प्रतियोगिकोटावुपलक्षणतयापि प्रविष्टस्य प्रकारतया भानं संभवत्येव तथा च प्रकृतेपि कारणताशरीरघटकाभावस्य प्रतियोगिताप्रकारेणैव माननियमात्मानं भवतीति तादृशामावज्ञाने प्रतियोगिकोटावुपलक्षणतयापि प्रविष्टस्य स्वर्गधन मत्वस्य वैजात्यप्रकारतया भाने न किंचिद्बाधकमित्यर्थः । - मत एवेति, अत एव प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञाने एव प्रतियोगिकोटावुपलक्षणप्रकारामाननियमादेवप्रतियोगिताप्रकारकाभावज्ञाने उपलक्षणीभूतधर्मस्यापि प्रकारतया मानस्वीकारादेवेति यावत् तथा च स्वरूपतः प्रविष्टं यद् वह्नित्वं तादृशवहित्वावच्छिन्नप्रतियोगिताकाभावस्य वह्नित्वावच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नाभावत्वेन लक्षणप्रवेशस्य संभवदुक्तिकता लक्षणे प्रवेशः संभवतीत्यन्वयः, अयमर्थ:- यदा हि प्रतियोगिताप्रकारकाभावज्ञाने उपलक्षणीभूतधर्मस्यापि प्रकारतया भानं स्वीक्रियते तदा वह्नित्वावच्छिन्नप्रतियोगिताकाभावो हि प्रतियोगिताप्रकारकामाव एवेति तत्र वह्नित्वे वर्तमानं यदुपलक्षणीभूतं
"Aho Shrutgyanam"