________________
( ६४० )
सादर्श:
[ आख्यातप्रकरणे
मिति मतान्तरम्, तदसत् - तथा हि श्येने सात्त्विक प्रवृत्तिवारणाय बलवद्दुःखाप्रयोजकत्वज्ञानस्यैव प्रवृत्तिहेतुताया उपगन्तव्यतया तस्यैव विध्यर्थताया आवश्यत्वेन श्येने तद्बाधाच्छ्रुतेरप्रामाण्यप्रसङ्गतादवस्थ्यात् इयेनस्य हिंसात्वविरहेण्यऽभिचारतया नरकजनकत्वस्य दुर्वारत्वाच्च ।
यत्तु अभिचरन् इत्यस्य वैविधगोचरप्रबल कामनाविशिष्टार्थतया तादृशकामनाविशिष्टस्यैव पुरुषस्य बलवद्वेषविषयाजनकत्वरूपबलवदनिष्टाननुबन्धित्वघटकद्वेषानुदयात् तादृशकामनाविशिष्टवृत्तिबलवद्वेषविषयाजनकत्वं श्रुतिवाक्यात् प्रत्येतव्यं तच्च श्येनेऽबाधितमेव- वैरिवधे उत्कटरागवतस्तज्जन्य
£2
""
ति बलवदनिष्टाननुबन्धित्वविशिष्टष्टसाधनत्वस्य विध्यर्थस्य सत्त्वान्न श्येने विध्यर्थत्वबाध इति न विशिष्टशक्तिस्वीकारे कोपि दोष इति बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वे विधिप्रत्ययस्य शक्तिर्युक्तेत्यर्थः । परिहरति- तदसदिति, श्येने सात्त्विक प्रवृत्तिवारणाय बलवदुः खाजनकत्व - ज्ञानस्यैव प्रवृत्तिहेतुत्वं स्वीकार्य बलवद्दुः खाजनकत्वज्ञानस्य प्रवृत्तिहेतुत्वे च तस्यैव = बलवद्दुःखाजनकत्वस्यैव विध्यर्थस्वं वक्तव्यं श्येने च बलबददुः खजनकत्वस्य सत्त्वेन तद्वाघात्= बलवद्दुःखाजनकत्वं नास्तीति बाधितार्थप्रतिपादकत्वेन श्येनश्रुतेरप्रामाण्यापत्तिः स्यादेवेत्यर्थः । अत्र घ तदसत् " इत्यस्यानन्तरम् तथा सति " इत्यपि पाठ उपलभ्यते स च लेखकप्रमादज एव प्रतिभाति । ननु श्येने बलवद्दुः खाजनकत्वं मयोक्तमेवेति कथं तत्र विध्यर्थ - भूतस्य बलबनंद खाजनकत्वस्य बाधः स्पादित्याशङ्कयाह -- श्येनस्येति, श्येनस्य स्वरूपेण हिंसारूपत्वाभावेप्यभि चारतया हिंसा साघनत्वेन नरकजनानत्वेवेति श्वेने बलषदुःखाजनकत्वस्य विध्यर्थत्वेन स्वीकृतस्य बाधोस्त्येवेति तद्वाक्यस्याप्रामाण्यं स्यादेवेत्यर्थः ।
<6
66
L
मतान्तरमुपस्थापयति- यत्त्विति, एवं हि वैरिवधविषयकप्रबलकामनाविशिष्टः श्पेन कुर्यात् ' इतिवाक्यार्थः संपन्नस्तत्र तादृशकामना विशिष्टस्य = वैरिवधगोचरप्रबलाकामना विशिष्टस्यैव पुरुषस्य बलवद्द्द्वेषविषयो यो नरकादिस्तदजनकत्वरूपं यद्बलवदनिष्टाननुबन्धित्वं तत्र बलवदनिष्टं बलवद्वेषविषय एव भवतीति तद्घटको यो द्वेषः स नोदेति = न जायते - तस्य पुरुस्य वैरिवधे उत्कटरागवत्त्वेन वैविधजन्यनरकादावुपेक्षा संभवेन द्वेषासंभवात् तथाच वैरिवधगोचरप्रबल कामना विशिष्टपुरुषवृत्तिर्यो बलवद्वेषस्तद्विषयो यो नरकादिस्तदजनकत्वं श्येनस्य श्येनवाक्यात् प्रत्येतव्यमन्यथा = श्येनस्य तादृशकामनाविशिष्टपुरुषवृत्तिद्वेषविष यजनकत्वे वैरिवधगोचरप्रबलकामनावतोपि श्येने प्रवृत्तिर्न स्यादेव तच्च = तादृशकामनाविशिष्टवृत्तिबलवद्वेषविष- " याजनकत्वं श्येने बाधितं नास्तीति श्येनेपीष्टसाधनत्ववद् बलवद्वेषविषयाजनकत्वरूपं बलवद निष्टाननुबन्धित्वमपि प्राप्तमेवेति नोक्तविशिष्टशक्तिस्वीकारे कोपि दोष इत्यर्थः । उक्तं बलवद् - द्वेषविषयाजनकत्वाऽबाधितत्वमुपपादयति- वैरिवधे इति, यस्य वैरिवधे उत्कटरागो भवति तस्य तज्जन्यनरके वैरिवधजन्यनरके बलवद्वेषोपि न जायते इति तादृशनरकस्य = वैरिवधजन्यनरकस्य
" Aho Shrutgyanam"