________________
श्येनवाक्यार्थविचारः] व्युत्पत्तिवादः।
(६४१) नरके बलवद्वेषानुत्पत्त्या तादृशनरकस्य वैरिवधोत्कटकामनाविशिष्टवृत्तिद्वेषाऽविषयत्वात्, न ह्येकदैकत्राऽवर्तमानयोरेकतरमऽपरविशिष्टवृत्तीति मिश्राणां मूलाभिप्रायवर्णनम्, तदपि न- बलवद्वेषविषयदुःखजनकत्वप्रतियोगिकाभा. वस्याऽतिप्रसक्ततया बलवद्वेषविषयदुःखजनकत्वत्वावच्छिन्नाभावस्य वाच्यतास्वीकारेणान्यपुरुषस्य पुरुषविशेषीयबलवद्वेषविषयदुःखजनकत्वाभावस्य प्रत्य. याऽसंभवात् तादृशदुःखजनकत्वेऽभावे च खण्डशक्तिस्वीकारे विशिष्टशक्तिस्वीकारपरित्यागात् ।।
एवं यत्रोत्कटरागो यदा तत्रैव नोत्कटद्वेषस्तदा. तज्जन्ये फले उत्कटरागदशायां च तज्जन्यदुःखरूपफलान्तरे उत्करदेषेन किं चिद्भाधकमिति वैरिवधे उत्कटरागद. शायां श्येनजन्यनरके बलवद्वेषो दुरपवाद एव । अस्तु वा फलविषयोत्कटरावैरिबंधविषयकोत्कटकामनाविशिष्टपुरुषवृत्तिद्वेषविषयत्वं नैव भवतीत्यर्थः । न हीति- घटत्वपटत्वे एकदैकत्र न भवत इति यथा तयोर्मध्ये एकतरं घटत्वं पटत्वविशिष्टपटवृत्ति न भवति पटत्वं च घटत्वविशिष्टघटवृत्ति न भवति तथा प्रकृतेपि प्रकृतौ रागद्वेषावेकदैकत्र न संभवत इति वैरिवध. विषयकोकटरागवति वैविधजन्यनरकादिद्वेषो न संभवतीति श्येने बलवद्वेषविषयाजकनत्वं प्राप्त. मेवेत्यर्थः । मूलाभिप्रापवर्णनम् श्रुतिवाक्याभिप्रायवर्णनम् । पराचष्टे- तदपि नेति, बलद्वेषवि. षपदुःखाजनकत्वं हि बलवद्वेषविषयदुःखजनकत्वाभाव एवं स चातिप्रसक्त एव- बलवद्वेषविषयकिंचिदुःखजनकेपि बलबद्वेषविषयर्किचिदपरदुःखाजनकत्वस्य सत्त्वादिस्यतिप्रसततया तस्य वाच्यत्वं न संभवति तस्माद् बलबद्वेषनिस्तान्तराषिकन्नासावस्यबलवद्वेषविषयया. वदुःखाजनकत्वस्य विधिप्रत्ययवाच्यत्वं स्वीकार्य तस्यातिप्रसक्तस्त्राभावात् तत्र चाभ्यपुरुषस्था. न्यपुरुषीयबलवद्वेषविषयदुःखजनकल्पामावज्ञावं न संभवतीति नान्यपुरुषीपक्लवद्वेषविषवदुःखाजनकत्येप्येका विधिप्रत्ययशकिः संभवति तस्मात् तादृशदुःखजनकत्वेऽभावे च खण्डशक्तिरेव स्वीकार्या तथाच विशिष्टशक्तिपक्षपरित्यागो गले पतित एवेति बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोरपि खण्डशक्तिरेव स्वीकार्य न विशिष्टशक्तिरित्यर्थः । परकीयदुःखजनकत्वं तु कण्टकवेधादावनुमानग्राह्यमस्तीति तज्ज्ञानसंभवात्तत्र शक्तिरपि संभवत्येव. एवममावेपि, वस्तुतस्त्वेवमुक्तदुःखज. नकत्वाभावज्ञानमपि संभवत्येवेति तदसंभववचनं विवेचनीयम् ।
यदुक्तं वैरिवधोरकटरागे सति वैविधजन्यनरके द्वेषो न भवतीति तन्निराचष्टे- एवमिति । एवम्= किं च । यत्र यदोत्कटरागो भवति तत्रैव तदोत्कटद्वेषो न भवतीति नियमोस्ति तथा च श्येने उस्कटरागदशायामुत्कठद्वेषो यद्यपि न संमवति तथापि तजन्येन्स्येनजन्ये वीरवधारूपले उत्कटरागदशायामपि श्येनजन्यनरकादिदुःखरूपफले उत्पाटद्वेषे बाधकं नास्त्येवेति श्येनजन्यनरके बलवद्वेषापवादो नैव संभवति तथा च श्येनस्य बलवद्वेषविषयदुःखजनकत्वं प्राप्तमेवेति विशिष्टशक्तिपक्षे विध्यर्थत्वं न स्यादित्यर्थः । पक्षान्तरमाह- अस्तु वेति, फले उत्कटरागे सति तदुपायेपि उत्कटरागो भवतीति वैरिवधरूपफलविषयकोकटरागघटिता या.
"Aho Shrutgyanam"