________________
( ६४२ )
सादर्श:
[ आख्यातप्रकरणे -
गघटिता उपायगोचरोत्कटरागसामग्री तत्रेव तज्जन्यतया ज्ञाते फलान्तरेप्युत्कटद्वेषविरोधिनी तथापि नरकवैरिवघयोरेकतरं प्रति श्येनस्य हेतुत्वाग्रहदशायां तयोर्बलवद्वेषरागयोर्युगपत् संभव एव ।
EC
यत्तु दीक्षाङ्गपघातस्य नरकाऽसाधनतया मा हिंस्यात् " इत्यत्राऽवैधहिसैव विवक्षितेति श्येनस्य नरका सावनत्वोपपादनम्, तदपि न तावताप्यभिचारविधया तथात्वस्य दुर्वारत्वात् ।
अथ खण्डशक्तिमवलम्ब्याऽनिष्टाऽसाधनत्व विनिर्मोकेण कचिद् विधिवाक्यजन्यबोधोपगमे श्वेतं छागमालभेत " इत्यादावपि तत्परित्यागसंभवात् अविरोधेन मा हिंस्यात् " इत्यत्र श्रुत्यर्थसंकोचो न स्यादिति सांख्यमतमेव
65
6
66
श्येन विषयको कटरागसामग्री सा तत्रैव = वैरिवधे इव तज्जन्यतया = श्येनजन्यतया ज्ञाते फलान्तरे= नरकादिरूपफलेप्युत्कटद्वेषविरोधिनी भवतु तथा च यद्यपि चैरिवधे उत्कटरागदशायां स्वदुक्तरीत्या श्येनजन्यनरके उत्कटद्वेषो न संभवति तथापि यदा नरकवैरिवघयोर्मध्ये चैरिवधमात्रं प्रति श्येनस्य हेतुत्वं गृहीतं तदा मा हिंस्यात् " इतिश्रुतिबलात्तु श्येनजन्यचैरिववस्य नरकहेतुत्वं स्यादेवेति तादृशनरके द्वेषो वैरिवधे च रागोपि युगपदेव संभवति न होकतरं प्रति हेतुत्वग्रहदशायामपरं श्येनजन्यत्वेन गृहीतं भवति येन तत्र रागो वा द्वेषो वा न स्यात्. एवं श्येनुस्य यदा नरकमा नहेतुत्वं गृहीतं तदा चैरिवधस्य कारणान्तरफलत्वमेव गृहीतं स्यात् तथा च श्येनफले नरके द्वेषे सति कारणान्तरजन्यवैरिवधरूपफले रागेपि न किंचिद्वाधक
मिति नरकपैरिवधयोर्युगपदपि द्वेषरागौ संभवत एवेत्यर्थः ।
te
यत्त्विति - दीक्षाङ्गपशौर्घातस्य यन्न नरकसाधनत्वं तद्धि वैधत्वात् = वेदविहितत्वादेव वक्तव्यं तथा च मा हिंस्यात् " इत्यनेनाऽवैध हिंसाया एव नरकसाधनत्वं प्रतिपाद्यते श्येनजन्य हिंसापि वेदविहितैवेति श्येनस्यापि न नरकसाधनत्वं तथा च श्येने बलवदनिष्टाननुबन्धिस्बेष्टसाधनत्वयोरुभयोरपि सत्त्वात्तादृश विशिष्टे एव विधिप्रत्ययस्य शक्तिरित्यर्थः । परिहरति-सदपि नेति, श्येनेतिकर्तव्यताप्रविष्टहिंसाया नरकाऽसाधनत्वेपि श्येनफलीभूतशत्रु हिंसाया नरकसाधनत्वमस्त्येवेति श्येनस्याभिचारकर्मत्वात् तथात्वम् - नरकसाधनत्वं दुर्वारमेव तथा च न श्येने बलवदनिष्टाननुबन्धित्वं संभवति येनोक्तविशिष्टशक्तिपक्षो युक्तः स्यादित्यर्थः ।
ननु बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोः खण्डशक्तिस्वीकारेण यदि कचित्स्येनादावुक्तरीत्याऽनिष्टसाधनत्वांशं परित्यज्य केवलेष्टसाधनत्वमात्रस्य विधिवाक्येन बोधो भवतीति स्वीक्रियते तदा वायव्यं श्वेतमालमेत भूतिकामः " इत्यादावप्यऽनिष्टसाधनत्वांशपरित्यागः
<<
संभषेत् तथा च वापव्यादिपश्वालम्भनस्य स्वर्गजनकत्वेनेष्टसाधनत्वेपि हिंसारूपत्वेन नरकसाधनवमपि स्यादेव - अनिष्टाऽसाधनत्वस्य विधिवाक्येनाऽबोधनात् तथा च 46 ' मा हिंस्यात् " इत्यनेन विरोधो न स्यात् - अनेनापि हिंसाया अनिष्टसाधनत्वस्यैव प्रतिपादनात् तथा च " मा
"Aho Shrutgyanam"