________________
विधिप्रत्ययार्यविचार: ]
व्युत्पत्तिवादः। साधीय इतिवेत् ?, स्यादेव अविरोधेपि ." ब्राह्मणेभ्यो दधि दीयतां तकं कौण्डि न्याय' इत्यत्रेव सामान्यविधर्विशेषेतरपरत्वं व्युत्पत्तिसिद्धमिति “मा हिंस्यात् ' इत्यत्र संकोचः ।
अथ वा कथंचिद् बाधकापनयसंभवे नौगिकार्यपरित्याग इति हिंसानिषेधसंकोचेनैवोपपत्तौ न " श्वेतं छागमालभेत " इत्यादौ विधिप्रत्ययस्य बलवदनिष्टाऽसाधनत्वार्थपरित्याग इत्यप्याहुः ।
हिंस्यात् " इत्यत्र ' यागाङ्गहि पाते रिक्तहिंसाया अनिष्ट साधनत्वमस्ति । इत्येवं श्रुत्यर्थसंकोचो न स्यादिति सांरूपमतमेव श्रेष्ट स्यात्- सांस्पैर्यागाङ्गहिंसाया स्वर्गादिसाधनत्वेपि यागपूरकत्वेपि वा नरकसाधनत्वस्य प्रतिपादनादित्याशङ्कते- अथेति । सिद्धान्ते हि यागस्येष्टसाधनत्वमे. वास्तीति यागाङ्गहिंसाया अपोष्टसाधनत्वमनिष्टासाधनत्वं च प्राप्तम् “ मा हिंस्यात् '' इत्यनेन भ हिंसाया भनिष्टसाधनत्वं प्रतिपादितमिति विरोधे प्राप्ते " मा हिंस्यात् " इत्यत्र ' यागाङ्गहिंसातिरिक्तहिंसाया एवानिष्टसाधनत्वम् । इत्येवं श्रुत्यर्थसंकोचो भवतीति विज्ञेयम् । उत्तरमाह- स्यादेवेति, अविरोधेपि " मा हिंस्यात् " इत्यत्र संकोचः स्यादेवेत्यन्वयः, न खलु विरोधे एवोक्तश्रुत्यर्थसंकोचो भवति किं त्वविरोधेपि श्रुत्यर्थसंकोचो भवत्येवेतिभावस्तथा हियथा- " ब्राह्मणेभ्यः " इत्यत्र " ब्राह्मणेभ्यो दधि दीयताम् " इतिसामान्यविधेर्विशेषो यः कौण्डिन्यस्तदितरब्राह्मणपरत्वमस्तीति कौण्डिन्येतरत्राह्मणेभ्यो दधि दातव्यमिति लभ्यते तथैव प्रकृतेपि " मा हिंस्यात्" इतिसामान्यविधेर्विशेषभूतयागाङ्गहिंसातिरिक्तहिंसापरत्वेन यागानहिंसातिरिक्तहिंसाया एवानिष्टसाधनत्वं लभ्यते इति " वायव्यं श्वेतम् " " मा हिस्यात् ।" इत्यनयोरविरोधेप्युक्तश्रुत्यर्थसंकोचः संभवत्येवेति नाऽविरोधे श्रुत्यर्थसंकोचनिवृत्तियेन सांख्यमतं श्रेष्ठं स्यादित्यर्थः, तथा च श्रुत्यर्थसंकोचे जाते यागाङ्गहिंसायामऽनिष्टाऽसाधनत्वं प्राप्तमेव तथा चोक्तखण्डशक्तिपक्षेपि “छागमालभेत" इत्यत्रानिष्टासाधनवांशपरित्यागस्य नाऽपेक्षा श्येने तु गत्यऽभावाहिवशमनिष्टासाधनत्वांशपरित्यागः क्रियते इत्यर्थः ।
पक्षान्तरमाह- अथ वेति, कथंचित् केनापि प्रकारेण बाधकापनयसंभवे बाधककृतविरोधपरिहारसंभवे सत्यौत्सर्गिकार्थस्य परित्यागो न भवतीतिनियमोस्ति तथा च " मा हिंस्यात्" इत्याकारकहिंसाबाधककृतविरोधस्य कथंचित-यागाङ्गहिंसातिरिक्तहिंसाऽनिष्टसाधनमित्येवंश्रत्यर्थसंकोचन परिहारः संभवत्येवेत्यौत्सर्गिकस्य सामान्यतः प्राप्तस्य विधिप्रत्ययार्थभूतस्य चलवदनिष्टासाधनत्वस्य वायव्यादिपश्वालम्भने परित्यागो न भवतीत्यर्थः । श्येनस्थलेपि श्येनाङ्गहिंसाया अमिष्टासाधनत्वमस्त्येव किं तु श्येनफलीभूतहिंसाया नरकजनकत्वेन तदुपायभूतश्येनस्य नरकजनकत्वं प्राप्तमिति तत्राऽनिष्टाऽसाधनत्वस्य बाधात् परित्याग पाश्रीयते । विधिप्रत्ययस्येति- विधिप्रत्ययस्य यो बलवदनिष्टासाधनत्वरूपोर्थस्तत्परित्यागो नेत्यन्वयः ।
"Aho Shrutgyanam"