________________
(६४४
सादर्श:
[ भाख्यातप्रकरणेअथ यागपाकादिजन्यश्रमादावपि कदाचित् कस्यचिद् बलवद्वेषोदयाद 'यजेत ' ' पचेत' इत्यादावऽप्रामाण्यप्रसङ्गो दुर्वारः।
यत्तु बलवदनिष्टाऽसाधनत्वं न लौकिकविध्यर्थः किं तु “ न कलञ्जम् " इत्यादिश्रुतेः प्रामाण्योपपत्तये वैदिकलिङ एव तदर्थकता, तत्रापि बलवदनिष्टं नरकमेव तादूप्येणार्थः, अत इष्टोत्पत्तिनान्तरीयकश्रमादः कदाचिद् द्वेषविषय. तया न यागादी विध्यर्थबाध इति, तदपि न-- "शाकं न भुञ्जीत" इत्यादिवैद्यकवाक्यस्य बलवदनिष्टाजनकत्वनिषेधपरत्वं विना प्रामाण्यानुपपत्तेः।
तत्रापि रोगाऽजनकत्वं विध्यर्थस्तदभावो नत्रा बोध्यते इतिचेत् ?, " रिक्तायां न गच्छेत् " " पुष्ये नोदहेत" इत्यादिज्योतिःशास्त्रवचनस्य "नैका
शङ्कते- अथेति । अप्रामाण्यप्रसङ्ग इति- श्रमादिरूपबलवदनिष्टजनकत्वे प्राप्ते विधिप्रत्ययेन बाधितस्य बलवदनिष्टाजनकत्वस्य प्रतिपादनादप्रामाण्यं स्यादेवेत्यर्थः । __ यत्त्विति- ' पचेत ' इत्यादौ विधिप्रत्ययेन बलवदनिष्टासाधनत्वं न प्रतिपाद्यते येन पाकस्य श्रमादिबलवदनिष्टजनकत्वेन बाधितार्थप्रतिपादकत्वादप्रामाण्यं प्रसज्येत, किं तु वैदिकविधिप्रत्ययस्यैव बलवदनिष्टाजनकत्वमर्थोस्ति तत्रापि बलवदनिष्टपदस्य नरकमेव ताद्रूप्येण वलवदनिष्टत्वेन रूपेणार्थोस्ति,अत:-अनिष्टपदेन नरकस्यैव विवक्षितत्वाच्छूमादिजनकस्यापियागादेनरकसाधनत्वं तु नास्त्येवेति न यागादौ विध्यर्थस्य नरकाजनकत्वस्य बाधः, श्रमादिरूपानिष्टाजनकरवं तु विध्यर्थ एव नास्ति येन द्वेषविषयीभूतश्रमादिजनकत्वेन विध्यर्थबाधः स्यात्, एवं च " न कलझं भक्षयेत् " इतिश्रुतेरपि प्रामाण्यमुपपद्यते-नरकासाधनत्वस्य विध्यर्थस्य नाऽभावबोधनसंभवात्- कलञ्जभक्षणे नरकसाधनत्वप्रतिपादनात्, यदि च वैदिकटिङोपि बलवदनिष्टा ( नरका ) साधनत्वमर्थो न स्यात् किं विष्टसाधनत्वमात्रमर्थः स्यात्तदा कलञ्जभक्षणेपि तृप्तिरूपेष्टसाधनत्वस्यैव सत्त्वेन तदभावस्य बाधितस्थ ना प्रतिपादनात् “न कलञ्जम् " इत्यादिनिषेधवाक्यानां प्रामाण्यं नोपपद्यतेति पूर्वपक्षार्थः । परिहरति- तदपि नेति, यदि बलव. दनिष्टासाधनत्वं लौकिकविध्यर्थो न स्यात्तदा “ शाकं न भुञ्जीत " इतिलौकिकवाक्यस्य प्रामाण्यं नोपपद्येत- शाकभोजनेपि तृप्तिरूपेष्टसाधनत्वस्य सत्वात् तदभावस्य बाधितस्य नत्रा प्रतिपादने स्पष्टमेवाऽप्रामाण्यमापद्येत, यदा च लौकिकविधेरपि बलवदनिष्टासाधनत्वमर्थस्तदा -शाकभोजनस्य रोगादिरूपबलवदनिष्टजनकत्वेन विध्यर्थभूतस्य बलवदनिष्टाजनकत्वस्याऽभावो नत्रा प्रतिपादनीयः स चाऽबाधित एवं शाकभोजने इत्यबाधितार्थप्रतिपादकत्वात् प्रामाण्यमुपपद्यते इत्यर्थः ।
ननु " शाकं न भुञ्जीत " इत्यत्र न बलवदनिष्टाजनकत्वं विध्यर्थः किं तु रोगाजनकत्व. मेव तस्य च रोगाजनकत्वस्याभावो नआ बोध्यते स चाबाधित एव शाकमोजने इति न प्रामाण्यानुपपत्तिरित्याशङ्कते-तत्रापीति । उत्तरमाह- रिक्तायामिति । न गच्छेत् यात्रा न
"Aho Shrutgyanam"