________________
तर्कमतेन विध्यर्थ निष्कर्षः
व्युत्पत्तिवादः ।
( ६४५ )
पर्वतमादेित्" इत्यादिवाक्यस्य च का गतिः ? । तत्रापि विशिष्य तत्तदनिष्टसाधनत्वस्य विधिप्रत्ययार्थत्वे शक्त्यानन्त्यप्रसङ्गो व्युत्पत्त्यनुपपत्तिश्च ।
अत्र वइन्ति-द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्याश्रयसाधनतात्वावच्छि नपतियोगिताकाभावकूटे तादृशाभाववेनानुगते एकैव विधिप्रत्ययस्य शक्तिः । उपलक्षगीभूत द्वेष विनयतावच्छेदकत्वं परित्यज्य नरकाद्यसाधनत्वं प्रतीयते । कुत्र चिन्नरका साधनत्वं कुत्रचिद्रोगासाधनत्वं प्रतीयते इत्यत्र तात्पर्यमेव नियामकम् । प्रतियोगितायाः प्रकारतया भानात् प्रतियोगितावच्छेदकघ टकनरकवादी द्वेषविषयतावच्छेदकत्वस्योपलक्षगतया शक्तिग्रहे भानमविरुद्धम् ।
कुर्यात् ।
66
रिक्तायाम् " इत्यादिलौकिक विधिवाक्यानां का गतिरित्याक्षेपः । तत्रापीति - यदि रिक्कायाम् " इत्यादिस्थलेपि विशेषरूपेणैव तत्तदनिष्टासाधनत्वं विध्यर्थो न तु सामान्यरूपेणाऽनिष्टसाधनत्वं तदाऽनन्तेषु तत्तदनिष्टाऽसाधनत्वेषु विधिप्रत्ययस्य शक्त्यानन्त्यं स्यात् तेन च व्युत्पत्तेः = शाब्दबोधस्यानुपपत्तिः स्यात् - अगृहीतशक्तिकपदार्थमानासंभवादित्यर्थः ।
सिद्धान्तमाह- अत्रेति, द्वेषविषयतावच्छेदकत्वेनोप उक्षितं यनरकत्वादि तदाश्रयो यो नरकादिस्तत्साधनतात्वावच्छिन्नप्रतियोगिता काऽभावकूटे ( अनिष्टसाधनत्वाभावकूटे ) तादृशाभाचत्वेनानुगमविषये विधिप्रत्ययस्यैकैव शक्तिरित्यन्वयः, द्वेषविषयतावच्छेदकत्वो पलक्षितधर्मावच्छि ननिरूपितसाधनतात्वावच्छिन्नाभावे विधिप्रत्ययस्य शक्तिरिति यावत् । उपलक्षणीभूतेतियथा तत्पदस्थले तत्पदेनोपलक्षणीभूतबुद्धिविषयतावच्छेदकत्वं परित्यज्य घटादिकं प्रतीयते तथात्राप्युपलक्षणीभूनं यद् द्वेषविषयतावच्छेदकत्वं तत् परित्यज्य नरकायसाधनत्वं विधिप्रत्ययेन प्रतीयते इत्यर्थः । कुत्रेति- विशेषरूपस्य नरकाद्यसाधनत्वस्य या प्रतीतिर्भवति सा तात्पर्यज्ञानाधीनैव भवतीत्यर्थः । यथा शाकभोजनेन नरकासंभवात् तत्र रोगाजनकत्वं विध्यतदभावो नत्रा बोध्यते, कलञ्जभक्षणे रोगाद्यसंभवात् तत्र नरका साधनत्वं विध्यर्थस्तदभावो नत्रा बोध्यते इत्येवं विज्ञेयम् । प्रतियोगिताया इति- द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्याश्रयसाधनतात्वावच्छिन्नप्रतियोगिताकामावे शक्तिः । इत्युक्ते प्रतियोगिता ह्यभावे प्रकारतया भासते इति तादृशप्रतियोगिताया भवच्छेदकं यद् द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्याश्रयसाधनतात्वं तद्धटकं यद् नरकत्वादि तत्रोपलक्षणीभूतं यद् द्वेषविषयतावच्छेदकत्वं तस्य शक्तिप्रहे उपलक्षगतया भानं संभवत्येवेति तादृशोपलक्षणेनोपलक्षितं यन्नरकत्वादि तदाश्रमसाधनतात्वावच्छिन्नाभावे शक्तिप्रदेपि न काचिदनुपपत्तिरित्यर्थः । प्रतियोगिताया अभावे स्त्रनिरूपकत्व संवन्वेन प्रकारता ज्ञेया । यत्र प्रतियोगितायाः संसर्गतया भानं भवति तत्र प्रतियोगिकोटिप्रविष्टोपलक्षणीभूतधर्मस्य शक्तिप्रहादौ भानं न भवतीति नियमोस्ति, न चात्र प्रतियोगितायाः संसर्गतया भानं भत्रति किं तु प्रकारतयेवेति नोपलक्षणीभूतस्य द्वेषविषयतावच्छेदकस्य भानं विरुद्वम्, अयं च विषयः पूर्वमपि " प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञाने एव प्रतियोगिकोटावुपलक्षणप्रकाराऽमाननियमात् ६१९ " इत्यादिना प्रतिपादितः ।
८
"Aho Shrutgyanam"
L