________________
( ६४६ )
सादर्श:
[ आख्यातप्रकरणे -
न च प्रमेयत्वादेरप्युपलक्षणतया भानमविरुद्धमिति प्रमेयत्वादेरुपलक्षणतया नरकत्वाद्यनुगमकत्वं कथं न स्वीक्रियते विनिगमकाभावादिति वाच्यम्, सुखाद्यसाधनत्वस्य विध्यर्थताविरहेण प्रमेयत्वादेः सुखत्वादिसाधारण्यं नोक्तरूपस्येत्यस्यैव विनिगमकत्वात् । न च तात्पर्याभावात् सुखाद्यसाधनत्वाबोधकत्वोपपत्तौ विध्यर्थत्वेपि क्षतिविरह इति वाच्यम्, तस्य विध्यर्थत्वे तचात्पर्येणाधुनिकानाम् 'न भुञ्जीत' इत्यादिप्रयोगापत्तेः ॥
इति, तर्कशास्त्रधुरन्धर महामहोपाध्याय श्रीमद्गदाधर भट्टाचार्यविरचितः व्युत्पत्तिवादः समाप्तः ।
ननु यत्रोपलक्षणीभूतं द्वेषविषयतावच्छेदकत्वं तत्र प्रमेयत्वमपि भवत्येवेति प्रमेयत्वस्यैव किं न नरकत्वाद्युपलक्षणत्वं स्यादित्याशङ्क्याह- न चेति । परिहारमाह- सुखादीति, प्रमेयत्वं हि सुखत्वादिसाधारणमस्ति प्रमेयत्वस्योपलक्षणस्खे च प्रमेयत्वोपलक्षितधर्मावच्छिन्नासाधनत्वं विध्यर्थः स्यात् प्रमेयत्वोपलक्षितधर्मस्तु सुखत्वादिरपि भवतीति सुखाद्यसाधनत्वस्यापि विध्यर्थत्वं स्यात् न च सुखाद्यसाधनत्वस्व विध्यर्थत्वमिष्टम् उक्तरूपस्य द्वेषविषयतावच्छेदकत्वरूपोपलक्षणस्य तु न सुखत्वादिसाधारण्यम्- सुखे द्वेषविषयताया असंभवादिति न सुखासाधनत्वस्य विध्यर्थत्वप्रसक्तिरित्यस्यैव द्वेषविषयतावच्छेदकत्वनिष्ठोपलक्षणये विनिगमकत्वं विज्ञेयमित्यर्थः । ननु शाब्दबोधे तात्पर्यज्ञानमपि कारणमस्तीति तात्पर्याभावादेव सुखासाधनत्वाऽबोधकत्वं विधेः संभवतीति सुखासाधनत्वस्य विध्यर्थत्वेपि क्षतिर्नास्तीत्याशङ्कवयाह- न चेति । परिहारमाहतस्येति, तस्य= सुखासाधनत्वस्य विध्यर्थत्वे तत्तात्पर्येण = सुखासाधनत्वस्य विध्यर्थत्वतात्पर्येण किंवा सुखसाधनत्वतात्पर्येण ' न भुञ्जीत इतिप्रयोगः स्यादत्र च सुखासाधनत्वं विध्यर्थस्तदभाव एव नञा प्रतिपादनीयः सुखसाधनत्वाभावश्च सुखसाधनत्वरूप एव तथा च • भोजनं सुखसाधनम्' इतितात्पर्येण न भुञ्जीत ' इति प्रयोग आपद्येत न चैतदिष्टं न वा न भुञ्जीत ' इत्यनेन ' भोजनं सुखसाधनम् ' इत्यर्थः प्रत्येतुं शक्यते इति न सुखासाधनत्वं विध्यर्थस्तथा वन प्रमेयत्वमुपलक्षणं किं तु द्वेषविषयतावच्छेदकत्वमेवेत्यर्थः ॥
7
८
८
लुङश्च भूतभविष्यत्कालयोः शक्तिज्ञेया यथा - ' सुवृष्टिश्चेदभविष्यत् तदा सुभिक्षमभविष्यत् ' एथश्वेदप्राप्स्यत् ओदनमप्यऽपश्यत् ' इत्यादि । तदुक्तम्- लिनिमिते लृङ् क्रियातिपत्तौ " भूते च " इति, लिङ् निमित्तम् हेतुहेतुमद्भावः । अतिपत्तिः = अनिष्पत्तिः । शब्दशक्तिप्रकाशिकायामप्युक्तम्
66
5
८८
" क्रियातिपाते कालस्य भादिनः प्राक्तनस्य च ।
वैशिष्ट्यबोधिका या तिङ् लृट् च लङ् च क्रमादिमे ||
या तिङ् क्रियायाः = धात्वर्थस्यातिपाते = विगमे ( अनिष्पत्तौ ) भाविकाला वच्छेद्यत्वस्य वोधि • का तादृशी लट्, या त्वsतीतकालावच्छेद्यश्वस्य बोधिका ) तादृशी ऌङ्, ' तण्डुलं चेत् प्राप्स्यस्योदनमपि पक्ष्यतिं चैत्रः ' इत्यादी स्यतिप्रभृतयश्चैत्रादेर्भाविकालावच्छेदेन तण्डुलप्रापत्याद्यभाववत्त्वमनुभावयन्ति ( चैत्रो न तण्डुलं प्राप्स्यति न चौदनं पक्ष्यतीत्यर्थः ) तथ:
"Aho Shrutgyanam"