________________
आख्यातप्रत्ययार्थोपसंहारः] व्युत्पत्तिवादः ।
(६४७) * एवश्वेदप्राप्स्यत् ओदनमप्यऽपक्ष्यत् । इत्यादाक्तीतकालावच्छेद्यमिन्धनप्राप्त्यभाववत्तम् ( चैत्रेऽनुभावयन्ति स्यतिप्रभृतयः) तथा च भाव्यऽतीतकालाविव क्रियाप्रतियोगिकोऽभावोपि तयोः (लट्लङोः) अर्थः ( एतेन पाकाद्यभावबोधकत्वं लट्लडोः प्राप्तमिति विज्ञेयम् ) । वस्तुतो भाव्यादिकालावच्छेदेन तण्डुलप्राप्त्यभावप्रयुक्त ओदनपाकाद्यभाव एवोक्तस्थले लडादिना चैत्रादावनुभाव्यः क्रियाविरहप्रयुक्तस्य (तण्डुलप्राप्त्यभावप्रयुक्तस्य ) क्रियान्तरविरहस्य (पाकाद्यमावस्य ) एव क्रियातिपातत्वात् ( क्रियातिपातपदार्थत्वात् ) ।" इति । अत्रत्यविषमपदानि तु ( ) एतचिह्नान्तर्गतशब्देर्व्याख्यातानीति विज्ञेयम् ।। ___ सन्प्रत्ययार्थस्तु पूर्वमेव ( ३१०) “सनो धात्वर्थविषयकेच्छावाचित्वात् " इत्यादिना निरूपितः । णिप्रत्ययार्थश्च ( २५६ ) ( २५९) “णिजों हेतुकर्तृत्वम् " " अनुकूलव्यापार एव णिजर्थः " इत्यादिना निरूपितः । शष्प्रत्ययार्थश्च (२६३)" लकारसामान्यवृत्त्या यत्र कर्तृत्वं प्रतीयते तत्रैव "कर्तरि शप्" इत्यस्य शब्विधायकता " इत्यादिना निरूपित इति तत्र तत्रैव द्रष्टयम् । अवशिष्टप्रत्ययानामर्थास्तु शब्दशक्तिप्रकाशिकायां द्रष्टव्याः ॥
॥ इति धातुप्रत्ययाः ।। श्रीमद्गुरुमुखाज्ज्ञातपदार्थानां हि संग्रहः । स्वकीयज्ञानरक्षायै कृतोयं युक्तयुन्नतः ॥ श्रीशास्त्रदीपिकाटीका प्रकाशाख्या प्रकाश्य च । बालानामुपकाराय द्वावाऽऽदी प्रकाशितौ ॥ एष व्युत्पत्तिवादस्य शक्तिवादस्य चापरः । प्रकाशं संमुखीकृत्य दर्शनीयौ कदाचन ॥ अनेकग्रन्थनिर्माणश्रमसंदोहर्षितम् । शरीरं शीर्णतां प्राप्तमेतद् व्यसनदुष्फलम् ।। वन्दे श्रीमद्धयग्रीवं मन्देभ्यः करुणानिधिम् । विद्यागुरुं तथा वन्दे श्रीगङ्गाधरशास्त्रिणम् ।। यः साङ्ख्ये कपिलः पतञ्जलिरलं शाब्दे कवित्वे परं
श्रीहर्षोऽद्वयदर्शने शिवतनुस्तर्केषु यो गौतमः । मीमांसामतजैमिनिध्रुवमुपाध्यायो महद्भ्यो महान्
स्याऽऽई ई पदभृद् गुरुर्विजयते शास्त्री स गङ्गाधरः ।। ॥ इति पश्चनदीय (पंजाबी) पण्डितसुदर्शनाचार्यशास्त्रिप्रणीता व्युत्पत्तिवादस्याऽदख्यिा व्याख्या
समाप्ता ॥ ॥ श्रीः ॥
"Aho Shrutgyanam"