________________
श्येनवाक्यार्थ विचार: 1
व्युत्पत्तिवादः ।
पर्याप्त्यवगाहिज्ञानस्य हेतुत्वात्, अन्यथा विशिष्टस्वर्गादिवाचकस्वर्गादिपदाद विना लक्षणां केवल सुखत्वादिप्रकारकशाब्दबोधापत्तेः ।
यादे च केवलसुखत्वादिना स्वर्गादिरूपसुखबोधो लक्षणामन्तरेण स्वर्गादिपदादिष्यते एव. नेष्यते परं सुखान्तरबोधः- तत्र शक्तिविरहादिति शक्यतावच्छेदकता पर्याप्त्यवगाहित्वमनुपयोगीत्युच्यते १ तदापि बलवदनिष्टाननुबन्धित्वविशि ष्टेष्टसाधनत्वस्य शक्यतायां श्येननिष्ठवैरिवध साधनत्वस्य बलवदनिष्टसाधनत्वनियतत्वेन तदसाधनत्वविशिष्टत्वेन विधिप्रत्ययाऽवाच्यतया सुतरां तत्र विध्यर्थत्वनिर्वाह एव ।
यत्तु श्येनस्याsदृष्टाद्वारकत्व घटितहिंसालक्षणानाक्रान्ततया बलवद्दुःखाऽजनकत्वशक्तिः स्वीकार्या तथा च केवलेष्टसाधनत्वेपि शक्यतावच्छेदकत्वपर्याप्तेः सत्त्वात् केवलेष्टसाध नवप्रकारकोप बोधः संभवतीत्यर्थः । विपक्षे बाधकमाह- अन्यथेति, यदि तद्धर्मप्रकारेण तत्पदार्थबोधं प्रति तद्धर्माशे शक्यतावच्छेदकत्वपर्याप्त्यऽनवगाहिज्ञानस्यापि कारणत्वं स्याचदा दुःखासं भिन्नसुखस्त्वविशिष्टस्वर्गवाचकस्वर्गपदालक्षणां विनापि शक्त्यैव दुःखाभिन्नत्वांशं परित्यजय केवलसुखत्वप्रकारकबोधः स्यात् न चैवं भवति तत्कस्य हेतोः ? प्रकारीभूतधर्मांशे शक्यतावच्छेदकत्वपर्याप्त्यवगाहिज्ञानस्य तद्धर्मप्रकार कशाब्दबोधं प्रति कारणत्वादिति तथा च प्रकृते विशिष्टशक्तिपक्षे बलवदनिष्टाननुबन्धित्वांशाऽभानं न संभवतीति तदुपपत्त्यर्थं खण्डशक्तिरेव स्वीकार्या न तु विशिष्टशक्तिरित्यर्थः ।
ननु स्वर्गपदान् केव सुखलपकारकस्यगोभिमुखविशेष्यकबोधः शक्तया स्वीक्रियते एव न तु सुखान्तरस्य=भदिव्यभौमसुखस्य बोधः, तत्र = भदिव्ये दुःखमिश्रसुखे स्वर्गपदस्य शक्त्यभावादिति शक्तिज्ञानस्य शक्यतावच्छेदकधर्मे शक्यतावच्छेदकत्वपर्याप्त्यवगाहित्वापेक्षा नास्येव तदपेक्षा हि स्वर्गपदेन केवलसुखत्वप्रकारकबोधापत्तिपरिहारायैव स्वीकृता संप्रति च स्वर्गपदात् केवलसुखत्वप्रकारक बोधोपि स्वीकृत एवेति न शक्यतावच्छेदकत्वपर्याप्त्यवगाहित्वापेक्षेव्याशक्याह- यदीति । उत्तरमाह- तदापीति, बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वस्य विधिप्रत्ययवाच्यत्वे यत्र यत्र वधसाधनत्वं तत्र तत्र बलवदनिष्टसाधनत्वमस्त्येवेति श्येननिष्ठवैरिवधसाधनवस्यापि बलवदनिष्टसाधनत्वरूपत्वं प्राप्तमिति 'इथेनेनाभिचरन् यजेत " इत्यत्रत्यविधिप्रत्ययस्य बलवदनिष्टसाधनत्व विशिष्टेष्टसाधनत्वमेव वाच्वं स्यान्न तु तदसाधनत्वविशिष्टत्वेन = बलवदनिष्टसाधनत्वविशिष्टेष्टसाधनत्वम्. विधिप्रत्ययस्य च त्वया बलवदनिष्टाऽसाधनत्वविशिष्टेष्टसाधनत्वे एव शक्तिः स्वीकृतेति तत्र श्येने विध्यर्थत्वं न स्यादेवेति न विशिष्टशक्तिपक्षः साधीयानित्यर्थः । मतान्तरमुपस्थापयति- यत्त्विति, खड्गाभिघातादिरूपहिंसाया एव बलवन्नरकरूपदुःखजनकत्वमस्ति - अदृष्टाऽद्वारक हिंसारूपत्वात् न तु श्येनस्यापि तस्याऽदृष्टद्वारकहिंसारूपत्वेना - दृष्टाऽद्वारकहिंसात्वानाक्रान्तत्वात् तथा च श्येने इष्टसाधनत्ववद् बलवदनिष्टाननुबन्धित्वमपि प्राप्तमि
"L
" Aho Shrutgyanam"
(६३९)