________________
सार्दश:
( ६३८ )
[ आख्यातप्रकरणे -
साधनत्वज्ञानमिच्छाहेतुः ? तदोक्तस्य विशेष्यविशेषणभावे विनिगमकस्य संभवेपि विशिष्टस्य वाच्यत्वे इयेने विध्यर्थबाधेन तद्विधायक श्रुतेरप्रामाण्यप्रसङ्ग इति शक्तिभेदस्य श्येने केवलेष्टसाधनताबोधस्य चोपगम आवश्यकः ।
मणिकृतापि तत्र बलवदनिष्टाऽसाधनत्वस्याभानं लिखितम् । तदभानं विशिशक्तिपक्षे न संभवति - विशिष्टशक्तेर्विशेषणविनिर्मोकेण विशेष्यांशाऽभासकस्वात्, तत्तद्धर्मप्रकारेण पदार्थविषयकशाब्दबोधे तत्तद्धर्मांशे शक्यतावच्छेदकत्व - - तादृशज्ञान कल्पना पत्तिर्दर्शितदिशा नास्त्येव बलवदनिष्टाननुबन्धित्वप्रकारक क्रियाविशेष्यकज्ञानस्य तु चिकीर्षाकारणत्वमेव नास्ति येनात्र बलवदनिष्टाननुबन्धित्वस्येष्टसाधनत्वे विशेषणत्वेन क्रियायां विशेषणत्वासंभवात् बलवदनिष्टाननुबन्धिवप्रकारकक्रियाविशेष्यकज्ञानान्तरं चिकीर्षार्थं कल्पनीयं स्यादिति बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोर्विशेषणविशेष्यभावे उक्तं ज्ञानान्तरकल्पनाभावप्रयुक्तलाघवरूपं विनिगमकं यद्यपि संभवति तथापि विशिष्टस्य = बलवदनिष्टाननुबन्धित्व विशिष्टष्टसाधनत्वस्य वाच्यत्वे - विध्यर्थत्वे श्येने बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वं नास्ति - श्येनस्थ हिंसाफलकत्वान्नरकजनकत्वेन श्येने बलवदनिष्टाननुबन्धित्वस्याभावादिति बाधितार्थबोधकत्वेन " श्येनेनाभिचरन् मजेत " इतिश्येनविधायकश्रुतेरप्रामाण्यं स्याद् न चैतदिष्टमिति शक्तिभेदः = बलवदनिष्टाननुबन्धित्वे इष्टसाधनत्वे च विधिप्रत्ययस्य पृथक् पृथगेव शक्तिः स्वीकार्या. श्येने च विधिवाक्येन केवल मिष्टसाधनत्वं बोध्यते इति स्वीकर्तव्यम् पृथक्शक्तिस्वीकारेण केमलेष्टाघनत्वबोधस्य बलवदनिष्टाननुबन्धित्व परित्यागस्य ( अबोधनस्य ) च संभवात् अस्ति च श्येनेपि शत्रुमृत्युरूपेष्टसाधनत्वमिति सोचनानोक्तस्पेनश्रुतेरप्राणायाचित्वार्थः ।
1
स्वोक्ते मणिकारसंमतिमाह- मणिकृतेति । तत्र श्येने । तदभानम् = बलवदनिष्टासाधनत्वामानम् । न संभवतीत्यत्र हेतुमाह - विशिष्टशक्तेरिति, विशिष्ट शक्तिप्रहे विशेषणविशिष्टस्यैव मानं भवति न तु विशेषणरहितस्येति यदि विधिप्रत्ययस्य बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वे शक्तिः स्यात्तदा श्येने बलवदनिष्टाननुबन्धित्वस्यापि मानं स्यादेव न च तद्भानमिष्टमिति न विशिष्टे शक्तिरित्यर्थः । हेत्वन्तरमाह-- तद्धर्मेति यथा घटत्वप्रकारकघटविषयकशाब्दबोधे घटत्वे या शक्यतावच्छेदकत्वपर्याप्तिरस्ति तदवगाहिज्ञानस्य हेतुत्वमस्ति तथा प्रकृते विशिष्टशक्तिपक्षे बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वस्य शक्यत्वे शक्यतावच्छेदकत्वपर्याप्तिर्हि बलवदनिष्टाननुबन्धित्वत्वष्टसाधनत्वत्वयोरुभयोरेव स्यान्न तु केवलेष्टसाधनत्वत्वेइति केवलेष्टसाधनस्वत्वप्रकारकेष्टसाधनत्वाविषयक बोधो न संभवति खण्डशक्तिस्वीकारपक्षे तु केवलेष्टसाधनत्ववेपि शक्यतावच्छेदकत्वपर्याप्तिरस्त्येवेति केवलेष्टसाधनत्वत्वप्रकार केष्टसाधनत्व विशेष्यकबोधः संभवति, किं वोक्तविशिष्टशक्तिपक्षे श्येनपदशक्यतावच्छेदकत्वपर्याप्तिरुभयोरेव बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोः स्यादित्युभयप्रकारकश्येन विशेष्यकबोधः संभवति न तु केवलेष्टसाधनत्वप्रकारकोपि तत्र शक्यतावच्छेदकत्वपर्याप्तेरभावाद् भवति च केवलेष्टसाधनत्वप्रकारकोपि बोध इति खण्ड
·
" Aho Shrutgyanam"