________________
निषेधवाक्यार्थ विचार: ]
व्युत्पत्तिवादः ।
(६३७)
विशेष्य केष्टसाधनताज्ञानासंभवात् क्रियागोचरचिकीर्षाद्यर्थं विधिवाक्यजशाब्दबोधोत्तरमिष्टसाधनत्वप्रकारकक्रियाविशेष्यकज्ञानान्तरं कल्पनीयमिति तदकल्पनमयुक्तलाघवमेव बलवदनिष्टाननुवन्धित्वस्य विशेषणत्वे विनिगमकमिति वा - च्यम्, क्रियायां बलवदनिष्टाऽसाधनत्वज्ञानस्यापि तद्गोचरेच्छाहेतुतया बलवदनिष्टाऽसाधनत्वस्येष्टसाधनत्वाविशेषणत्वमते क्रियाविशेष्यकतत्प्रकारकज्ञानान्तरस्य कल्पनीयतया मतद्वये कल्पनासाम्यात् ।
यदि च बलवदनिष्टसाधनत्वज्ञानमेव द्वेषसामग्रीत्वे नेच्छाप्रतिबन्धकं न तु तदत्वेनेष्टसाधनत्वस्य क्रियायां विशेषणत्वेन विधिवाक्यजबोधे भानं न स्यात् - विधिवाक्यजबोधे इष्टसाधनत्वस्य बलवदनिष्टाननुबन्धित्वविशेषणत्वेन मानस्य प्राप्तत्वात् प्रवृत्तिश्च तत् क्रियाविशेष्यकेष्टसाधनत्वप्रकारकज्ञानादेव संभवतीति क्रियाविषयकचिकीर्षाद्यर्थं विधिवाक्यजशाब्दबोधोंतरमिष्टसाधनत्वप्रकारकक्रियाविशेष्यकं ज्ञानं कल्पनीयम् = प्रमाणान्तरेणोत्पादनीयमित्येतादृशकल्पनाप्रयुक्तं गौरवमस्ति यदा च बलवदनिष्टाननुबन्धित्वस्येष्टसाधनत्वे विशेषणत्वमिष्टसाधनत्वस्य च बलवदनिष्टाननुबन्धित्वे विशेषपत्वं तदैकत्र विशेष्यस्यान्यत्र विशेषणत्वे व्युत्पत्ति विरोधामावाद् विधिवाक्यजबोधे बलवदनिष्टाननुबन्धित्वे विशेष्यस्यापीष्टसाधनत्वस्य विधिवाक्यजबोधे क्रियायां विशेषणत्वेन भानं संभवतीति विधिवाक्यादेव क्रियाविशेष्यकेष्टसाधनत्वप्रकारकज्ञानसंमवातादृशज्ञान विधिवाक्यजशाब्दबोधानन्तरं न कल्पनीयमिति तदकल्पनप्रयुक्तं लाघवमस्तीति तदेव लाघवं बलवदनिष्टाननुबन्धित्वस्येष्टसाधनत्व विशेषणत्वे विनिगमकुस्तीत्यर्थ: । मह क्रियायामिति, तदुमोचरेच्छा निवारिपच्छा ज मयकेच्छायामिष्टसाधनत्वमात्रज्ञानस्य कारणत्वमस्ति. अन्यथा विषयुक्तान्न भोजनेच्छापि स्यात् किं तु बलवदनिष्टासाधनत्वज्ञानस्यापि कारणत्वमस्त्येव बलवदनिष्टाऽसाधनत्वस्य बलवदनिष्टाननुबन्धित्वरूपस्य चेष्टसाधनत्वे विशेषणत्वेन विधिवाक्यजबोधे भानस्वीकारात् क्रियायां विशेषणत्वेन भानं न संभवतीति क्रियाविशे-ष्यकस्य तत्प्रकारकस्य - बलवदनिष्टा साघनत्वप्रकारकस्य ज्ञानान्तरस्य क्रियागोचर चिकीर्षाद्यर्थ विधिवाक्यजशाब्दबोधानन्तरं कल्पनापत्तिरस्त्येवेति मतद्वये = इष्टसाधनत्वस्य बलवदनिष्टाननुबविश्वविशेषणत्वमते यथेष्टसाधनत्वप्रकारक क्रियाविशेष्यकज्ञानान्तरं दर्शितदिशा कल्पनीयं तथेष्टसाधनत्वस्य बलवदनिष्टाननुबन्धित्वविशेष्यत्वमते बलवदनिष्टाननुबन्धिवप्रकारक क्रियाविशेष्य-कज्ञानान्तरं चिकीर्षाद्यर्थं कल्पनीयमिति मतद्वयेपि कल्पनासाम्येन बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोर्विशेष्यविशेषणभावे विनिगमनाविरहात्तयोर्विधिप्रत्ययस्य पृथक् पृथगेव शक्तिरित्यर्थः ।
यदीति - यदि च बलवदनिष्टसाधनत्वज्ञानं द्वेषसामग्री स्वरूपत्वेच्छाप्रतिबन्धकमस्ति न तु बलवदनिष्टाननुबन्धित्वज्ञानमिच्छा हेतु रित्युच्यते तदेष्टसाधनत्वप्रकारकक्रियाविशेष्यकज्ञानस्यैव चिकीर्षा - कारणत्वं प्राप्तमितीष्टसाधनत्वस्य बलवदनिष्टाननुबन्धित्व विशेषणत्वे इष्टसाधनत्वप्रकारकक्रियाविशे sयकज्ञानान्तरं दर्शितदिशा कल्पनीयं स्यात् इष्टसाधनत्वस्य बलवदनिष्टाननुबन्धित्वविशेष्यत्वे
"Aho Shrutgyanam"