________________
सादर्श:
[ आख्यातप्रकरणेनुबन्धित्वाभावः । प्रवर्तकमिव निवर्तकमपि ज्ञानं श्रुतिवाक्यात् परम्परयैव न तु साक्षात् । .. एतन्मते च न ताशाभावस्य शाब्दबोधे भानम्- पदार्थकदेशतयेतरविशेपणतयोपस्थितत्वेन नार्थविशेषणतयाऽनिष्टाननुवन्धित्वाऽन्वयासंभवात् । वस्तुतो विशिष्टशक्ती विशेष्यविशेषणभावे विनिगमनाविरहात् पृथगेव बलवदनिष्टाननुबधिताया वाच्यत्वम् ।।
न च बलवदनिष्टाननुबन्धित्वस्यष्टसाधनत्वविशेष्यत्वे विधिवाक्यतः क्रियावेत्युक्तविशिष्टाभावो न विशेष्याभावप्रयुक्तः किं तु विशेषणाभावायत्तः विशेषणाभावप्रयुक्तोऽबाधित एव- कलञ्जभक्षणादौ नरकादिरूपबलवदनिष्टाननुबन्धित्वाभावस्य सत्त्वादेवेति विशिष्टाभाव. बोधानन्तरम् 'यत्र विशिष्टाभावो भवति तत्र विशेषणाभावो भवत्येव ' इतिरीत्या तल्लिङ्गकानुमानगभ्यः विशिष्टोभावलिङ्गकानुमानगम्यस्तदननुबन्धित्वाभावः= बलवदनिष्टाननुबन्धित्वाभावोस्ति स च बलवदनिष्टानुबन्धित्वरूपः बलवदनिष्टजनकत्वरूप इत्यन्त्रयः । कलञ्जभक्षणे विशेष्यस्य तृप्त्यादिरूपेष्टसाधनत्वस्य सत्त्राद्विशिष्टाभावस्य सत्त्वं विशेषणाभावाधीनमेवास्ति न तु विशेष्याभावाधीनं वोभयाभावाधीनं वा. विशिष्टस्य च विध्यर्थत्वेन ना विशिष्टाभावस्यैव प्रतीतिर्भवतीति विशेषणाभावस्य बलवदनिष्टाननुबन्धित्वाभावस्य प्रतीतिस्तु विशिष्टाभायाधीनास्तीति विवेकः । प्रवर्तकमिति- यथा “यजेत " इत्यादौ श्रुतिवाक्यादिष्टसाधनamtamanानं जायते न तु साक्षाच्छतिवाक्यात् तथा “न भक्षयेत्" इत्यादावपि श्रुतिवाक्यात्तु बलवदनिष्टाननुबन्धिस्वविशिष्टेष्टसाधनत्वामावज्ञानं जायते तेन च द्विष्टसाधनत्वादिज्ञानरूपं निवर्तकं ज्ञानं जायते न तु साक्षाच्छृतिवाक्यादित्यर्थः । = प्रदार्शतमतं विविनक्ति- एतदिति, एतन्मते बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वस्य विध्यर्थत्वमते तादृशाभावस्य बलवदनिष्टाननुबन्धित्वाभावस्य शाब्दबोधे भानं न भवतीत्यर्थः । .भानाभावे हेतुमाह- पदार्थैकेति, विशिष्टस्य विध्यर्थत्वेन बलवदनिष्टाननुबन्धित्वं हीष्टसाधनत्वविशेषणतयोपस्थितं भवत्यत एव पदार्थेकदेशोपि भवति तथा चेष्टसाधनत्वे विशेषणतां प्राप्तस्य बलवदनिष्टाननुबन्धित्वस्य स्वप्रतियोगिकत्वसंबन्धेन नअर्थाभावे विशेषणत्वं न संभवति नापि नअर्थाभावस्थ बलवदनिष्टाननुबन्धित्वविशेषणत्वं संभवति बलवदनिष्टाननुबन्धित्वस्य पदार्थैकदेशत्वात् " पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन " इतिव्युत्पत्तिविरोधादिति नोक्तमते बलबदनिष्टाननुबन्धित्वाभावस्य शाब्दबोधे भानं संभवति किं तु बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभावस्यैव भानं संभवतीत्यर्थः । स्वाभिप्रायमाह-वस्तुत इति ।
ननु बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोर्विशेषणविशेष्यभावेऽस्ति विनिगमकमित्यभिप्रायेणाशङ्कते- न चति, यदि बलवदनिष्टाननुबन्धित्वस्येष्टसाधनत्वविशेष्यत्वं स्यादिष्टसाधनत्वस्य च बलबदनिष्टाननुबन्धित्वे विशेषणत्वं स्यात्तदैकत्र विशेषणस्यान्यत्र विशेषणत्वस्य व्युत्पतिविरुद्ध
"Aho Shrutgyanam"