________________
सादर्श:
[ प्रथमाकार के --
र्मिकप्रकृतान्वयबोधपरत्वज्ञानस्य हेतुतया ' चैत्रः पक्ष्यते तण्डुलः इत्येकवाक्यात् तादृशद्विविधान्वयबोधवारणस्य दर्शितवाक्यद्वयात् तदुपपादनस्य च शक्यत्वात् ।
न च निरुक्तसंख्यानभिधानस्य तृतीयाद्वितीयानियामकत्वे 'चैत्रेण स्वं दृश्यते' 'चैत्रः स्वं पश्यति' इत्यादौ तृतीयाद्वितीययोरनुपपत्तिः - कर्त्रादिविशेष्यक संख्याप्रकारकान्वयबोधौपयिकाऽऽकाङ्क्षाज्ञानीयविषयित्व निरूपकत्वस्य तत्राख्याते सत्त्वाशाभ्यविधान्वयबोधपरत्वेनाऽगृह्यमाणतथाविधाख्यातधर्मिकप्रकृतान्ययबोधपरत्वज्ञानस्य हेतुत्वमस्ति पक्ष्यते ' इतिपदघटितवाक्यात् कर्तृविशेष्यकाख्यातार्थप्रकारकशाब्दबोधं प्रति यस्तादशान्यविधान्वयबोधः = आख्यातार्थप्रकारककर्मविशेष्य कशाब्दबोधस्तत्परत्वेना गृह्यमाणं यत्तथाविधाख्यातम् = ' पक्ष्यते ' इतिपदघटकाऽऽख्यातं तादृशाख्पातधर्मिकम् = तादृशाख्यातविशेष्यकम् ( आख्यातविषयकम् ) यत् प्रकृतान्वयबोध ( कर्तृविशेष्यकाख्यातार्थप्रकारकबोध ) परत्वज्ञानम्=कर्तृविशेष्यकाख्यातार्थप्रकार कशाब्दबोधपरमिदमाख्यातमिति ज्ञानं तादृशज्ञानस्य हेतुत्वमस्ति तथा च ' चैत्रः पक्ष्यते तण्डुलः इत्यत्रैकविशेष्यकबोधकाले आख्यातस्यापरविशेष्यकबोधपरत्वेनाऽगृह्यमाणत्वमस्त्येवेति एकविशेष्यक एवैकवाक्याद्वोघो जायते न तूमयविशेष्यक इति तादृशविधान्वयबोधवारणस्य = आख्यातार्थप्रकारकोभयविशेष्यकबोधवारणस्य शक्यस्वात् । दर्शितवाक्यद्वयात् = ' चैत्रेण तण्डुलः पक्ष्यते ' ' चैत्रस्तण्डुलं पक्ष्यते ' इतिवाक्यद्वयात् तदुपपादनस्य=आख्यातार्थप्रकारकचैत्रतण्डुलोमयविशेष्यकबोधोपपादनस्य च शक्यत्वात् एतद्वाक्यद्वयविषयक समूहालम्बनात्मक बोधदशायां चैत्रविशेष्य काऽऽख्यातार्थाऽन्वय बोवपरत्वेन वा तण्डुलविशेयाख्यातार्थान्वयबोधपरत्वेन वा ' पक्ष्यते ' इत्याख्यातस्यागृह्यमाणत्वमेकमात्रविशेष्यकबोधप्रयोजकं नास्ति किं तूभयविशेष्यकाख्यातार्थान्वयबोधपरत्वेन गृह्यमाणत्वमेवास्तीति दोमयविशे*यकाख्यातार्थप्रकार कशाब्दबोधस्यानुपपत्तिरित्यर्थः ।
नतु निरुक्तसंख्यानभिधानस्य = यदि कर्तृविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकीभूतविषयिताया अनिरूपकत्वं कर्तृपदात्तृतीयाप्रयोजकम् तथा कर्मविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेद की भूतविषयिताया अनिरूपकत्वं
च
( उक्तैतादृशसंख्यानभिधानं ) कर्मवाचकपदाद् द्वितीयाप्रयोजकम् ( १८५ पृ० उक्तम् ) तदा ' चैत्रेग स्वं दृश्यते ' इत्यत्राऽऽख्यातार्थसंख्यायाः स्वपदार्थेऽन्ययोस्तीति स्वपदार्थविदोष्यकसंख्याप्रकारकबोधो जायते स्वपदार्थश्चात्र चैत्र एव न त्वन्य इति संख्यायाः स्वपदार्थेऽन्वयेन चैत्रे एवान्वयो जातस्तथा च चैत्रविशेष्यकसंख्याप्रकारक एव बोधो जायते इति प्राप्तं तत्र चैत्र विशेष्यकसंख्याप्रकारकबोधौपयिकम् = बोधजनकं यदाकाङ्क्षाज्ञानं तन्निष्ठा या जनकतावच्छेदकी भूतविषयिता तादृशविषयिताया निरूपकत्वमेवात्राऽऽख्यातेस्ति (आख्यातस्यैव विषयत्वेनोक्तविषयितानिरूपकस्त्रात् ) न खनिरूपकत्वं तृतीयाप्रयोजकमिति चैत्रपदात्तृतीयानुपपत्ति:
यथा
१९० )
6
"
" Aho Shrutgyanam"
?
J