________________
-आख्यातस्य संख्यार्थता विवाद: ] व्युत्पत्तिवादः ।
( १९१
. दितिवाच्यम्, कर्त्रादिपरयत्पदाख्यातपदयोः समभिव्याहारः संख्यान्वयबुद्धित्वावच्छिन्नप्रयोजकविषयित्वा निरूपकस्तत्पदोत्तरं तृतीयाविभक्तिरित्येवं नियमोपगमेन प्रथमस्थले चैत्रपरस्वपदाख्यातपदयोर्द्वितीये च तत्परचैत्राख्यातपदयोः समभिव्याहारस्यैव तद्विशेष्य कसंख्यान्वयबोधप्रयोजकतया क्रमेण चैत्रपदस्वपदाभ्यां तृतीयाद्वितीययोरनुपपत्त्यनवकाशादिति चेत् ,
- तत्प्रयोजकाभावात्- अर्थात् ' चैत्रेण स्वं दृश्यते ' इत्यत्राख्यातार्थसंख्याया: स्वपदार्थेनान्वयो न चैत्रेति चैत्रपदात्तृतीया प्राप्तेत्युच्यते तत्र स्वपदार्थोपि चैत्र एवेत्याख्यातार्थसंख्यायाः स्वपदार्थेनान्वये चैत्रेणैवान्वयो जात इति तृतीया न स्यात् । तथा 'चैत्रः स्वं पश्यति' इत्यत्राख्यातार्थसंख्यायाश्चैत्रेणान्वयोस्तीति चैत्रविशेष्यकसंख्याप्रकारकबोधो जायते चैत्र एव चात्र स्वपदार्थ इति संख्यायायाश्चैत्रेऽन्वयेन स्त्रपदार्थे एवान्वयो जातः--अत्र चैत्रपदार्थस्वपदार्थयोरभेदात् तथा चात्र खपदार्थविशेष्यकसंख्या प्रकारक एवं बोधो जायते इति प्राप्तं तत्र स्वपदार्थविशेष्य कसंख्याप्रकारकबोधौपयिकं यदाकाङ्क्षाज्ञानं तन्निष्ठा या उक्तबोधीयजनकताया अवच्छेदकीभूता विषपिता तादृशविषयिताया अन्त्राख्याते निरूपकत्वमेवास्ति न तु द्वितीयाप्रयोजकमनिरूपकत्वमिति स्वपदाद् द्वितीयानुपपत्तिः- द्वितीयाप्रयोजकाभावात्, अर्थात् ' चैत्रः स्वं पश्यति' इत्यत्रा - ख्यातार्थसंख्यायाश्चेत्रेणैवान्वयो न स्वपदार्थेनेति स्वपदाद् द्वितीया जातेत्युच्यते तत्र चैत्रपदास्वपदार्थयोरभेदाच्चैत्रेणान्वये स्वपदार्थेनान्वयो जात एवेति स्वपदाद् द्वितीया न स्यादित्याशते - न चेति । परिहरति- कर्त्रादीति, कर्तृबोधकस्य यस्य पदस्याख्यातपदस्य च समभिव्याहारः संख्याप्रकारकशाब्दबोधप्रयोजकं यज्ज्ञानं तन्निष्ठविषयिताया अनिरूपकस्तस्मात् पदात् तृतीया मवतीति नियमस्तथा च प्रथमस्थले = ' चैत्रेण स्वं दृश्यते ' इत्यत्र चैत्रपरं यत्स्वपदं तादृशस्त्रपदाख्यातपदयोः समभिव्याहारे स्वपदार्थविशेष्यक संख्याप्रकारक शाब्दबोधस्यैव प्रयोजकतया स्वपदार्थविशेष्यकसंख्या प्रकार कशाब्दबोधप्रयोजकै तादृशसमभिव्याहारविषयकज्ञाननिष्ठविषयिताया एव निरूपकत्वमस्ति चैत्रविशेष्यक संख्याप्रकार कशाब्दबोधजनकज्ञाननिष्ठविषयितायास्त्वनिरूपकत्वमेवास्तीति चैत्रपदात्तृतीयाया अनुपपत्तिर्नास्ति, तथा - कर्मबोधकस्य यस्य पदस्याख्यातपदस्य च समभिव्याहारः संख्याप्रकार कशाब्दबोच प्रयोजकज्ञाननिष्ठविषयिताया अनिरूपकस्तस्मात् पदाद् द्वितीया भवतीति नियमस्तथा च द्वितीये = ' चैत्रः स्वं पश्यति इतिस्थले कर्तृभ्रं यचैत्रपदं तादृशचैत्रपदाख्यातपदयोः समभिव्याहारस्य चैत्रविशेष्यकसंख्याप्रकारकशाब्दबोधस्यैव प्रयोजकतया चैत्रविशेष्यक संख्याप्रकार कशाब्दबोधप्रयोजकै तादृश समभिव्याहारविषयकज्ञाननिष्ठविषयितया एव चैत्रपदाख्यातपदसमभिव्याहारे निरूपकत्वमस्ति स्वपदार्थविशेष्यक संख्याप्रकार कशाखादाद् द्वितीया
नुपपत्तिर्नास्तीत्यर्थः ।
ब्दबोधजनकसमभिव्याहारज्ञाननिष्ठविषयितायास्त्वनिरूपकत्वमेवास्तीति
" Aho Shrutgyanam"