________________
( १९२ )
·
सादर्श:
[ प्रथमाकारक
AS
77 इत्याद्यनुशा
1
न-- . अनभिहिते " इत्यधिकारे कर्तृकरणयोस्तृतीया सनस्य किं प्रयोजनमितिवक्तव्यम् । ' चैत्रः पचति तण्डुलः पच्यते ' इत्यादौ चैत्रतण्डुलपदाभ्यां तृतीयाद्वितीययोरप्रयोग इति चेत् ? तत् किं मणिमन्त्रादिन्यायेन तादृशानुशासनस्य तथाविधप्रयोगविरोधिता येन तदभावस्तत्प्रयुक्तः स्यात् न चैवं संभवति । ' पचति ' ' पच्यते ' इत्यादिक्रियायोगे कर्तृकर्मवाचकपदानन्तर तृतीयाद्वितीययोरसाधुत्वस्य तत्कर्तृत्व तत्कर्मत्वादिबोधौपयिकाकाङ्क्षादिरहितत्वादिरूपस्य प्रतिपत्तिः प्रयोजनं तस्येति चेत् ?, तर्हि - उक्तनियम
64
66
अथेत्यादिना प्रतिपादितं परिहरति- नेति । " अनभिहिते " इत्यधिकारे " कर्तृकरणयोस्तृतीया " " कर्मणि द्वितीया " इत्यनुशासनयो: पाठस्य प्रयोजनं पृच्छति - अनभिहितेति । " अवमिहिते 1.7 इत्यधिकारे उक्तसूत्रयोः पाठेन कर्त्तुरनभिधाने तृतीया भवति यथा - 'चैत्रेण “पयते ' इत्यत्र - आख्यातस्य कर्माभिधायकत्वात् ' चैत्रः पचति ' इत्यत्र तृतीया न भवतिआख्यातस्य कर्त्रेऽभिधायकत्वात्, तथा 'तण्डुलं पचति ' इत्यत्र द्वितीया भवति -- आख्यातस्य कर्मानभिधायकत्वात् ' तण्डुलः पच्यते " इत्यत्र द्वितीया न भवति- आख्यातस्य कर्माभिधायकत्वादित्येव प्रयोजनमित्युत्तरमाशङ्कते - चैत्र इति । उत्तरमाह तदिति, यदि मणिमन्त्रादिरीत्या तादृशानुशासनस्य = " कर्तृकरणयोस्तृतीया "" कर्मणि द्वितीया " इत्यनुशासनद्वयस्य ताथाविधप्रयोगविरोधिता = ' चैत्रेण पचति ।
33
८
C
तण्डुलं पच्यते ' इतिप्रयोगविरोधिता स्यात्तदा चैत्रेण पचति ? " तण्डुलं पच्यते ' इत्यादिप्रयोगाणामुच्चारणमेवाशक्यं स्यात् न चैवमस्तीस्यर्थः । तदभाव:-' चैत्रेण पचति ' तण्डुलं पच्यते इतिप्रयोगाभावः । तत्प्रयुक्तः = "कर्तृक'रणयोस्तृतीया " कर्मणि द्वितीया " त्यनुशासनप्रयुक्तः । ननु पचति ' इतिक्रियायोगे कर्तृवाचक चैत्रादिपदानन्तरं तृतीयाया असाधुत्वज्ञानमेव " अनभिहिते " इत्यधिकारे तस्य = कर्तृकरणयोः इत्यनुशासनस्य प्रयोजनं तथा चासाधुत्वात् ' चैत्रेण पचति' इति प्रयोगो
33
न भवति किं तु ' चैत्रः पचति ' इति प्रयोगो भवति, तथा यो चकतण्डुलादिपदानन्तरं द्वितीयाया असाधुत्वज्ञानमेव
S
पच्यते ' इतिक्रियायोगे कर्मअनभिहिते- " इत्यधिकारे तस्य कर्मणि द्वितीया " इत्यनुशासनस्य प्रयोजनं तथा चाऽसाधुत्वात् ' तण्डुलं पच्यते ' इति प्रयोगो न भवति किं तु ' तण्डुलः पच्यते ' इत्येत्र प्रयोगो भवतीत्याह - पचतीति । असाधुत्वस्वरूपमाह-तत्कर्तृत्वेति, अत्र च " तत्कर्तृत्वकर्मत्वादीति - पचतीत्यत्र पाककर्तृत्वबोधौपयिकाकाङ्क्षा प्रथमायामेवास्ति तृतीयायां तु पाककर्तृत्वादिबोधौपयिकाकाङ्क्षारहितत्वमस्ति तदेवाऽसाधुत्वम् ' चैत्रः पचति' इति प्रयोगादिति भावः, एवम्- 'पच्यते ' इत्यत्र पाककर्मत्वबोधौपयिकाकाङ्क्षा प्रथमायामेवास्ति 'चैत्रेण तण्डुलः पच्यते' इतिप्रयोगात् द्वितीयायां तु पाककर्मत्वबोधौपयिकाकाङ्क्षाराहित्यरूपमसाधुत्वमस्ति ' तण्डुलं पच्यते ' इत्यप्रयोगात् " इति कृष्णभट्टाः । उत्तरमाह - सर्होति, उक्तानुशासनद्वयस्य उक्तनियमपरतयापि कर्तृपरयत्पदाख्यातपदयोः समभिव्याहारः
" Aho Shrutgyanam"
L
: