________________
द्वितीयातृतीयाप्रयोजकस्वरूपम् ] व्युत्पत्तिवादः ।
(१९३) परतयापि न ततस्तल्लाभः। प्रथमान्तचैत्रतण्डुलादिपदतत्तदाख्यातपदयोः समभिव्याहारस्यैव चैत्रतण्डुलादिविशेष्यकतत्तदाख्यातार्थसंख्यान्वयबोधप्रयोजकतया 'चैत्रेण पचति ' ' तण्डुलं पच्यते ' इत्यादिवाक्यघटकचैत्रतण्डुलादिपदतिबा. दिपदयोः समभिव्याहारस्याऽतथात्वेन तद्बटकतृतीयाद्वितीययों: साधुत्वस्योक्तसंख्यान्वयबुद्धित्वावच्छिन्नप्रयोजकविषयित्वानिरूपकस्तत्वदोत्तरं तृतीया तथा कर्मपरयत्पदाख्यातपदयोः सममिव्याहारः संख्यान्वयबुद्धित्वावच्छिन्नप्रयोजकविषयित्वानिरूपकस्तत्पदोत्तरं द्वितीया भवतीति नियमपरतयापि न तत:=" कर्तृकरणयोः" इत्यनुशासनात् तल्लाभः= पति , इतिक्रियायोगे कर्तृवाचकपदात्तृतीयाया असाधुत्वलाभस्तथा “कर्मणि द्वितीया " इत्यनुशासनात् ' पच्यते । इतिक्रियायोगे कर्मवाचकपदाद् द्वितीयाया असाधुत्वलाभ इत्यन्वयः । उक्ताऽसाधुत्वालाममुपपादयति- प्रथमान्तेति, प्रथमान्तचैत्रपदपचतीत्याख्यातपदयोरेव समभिव्याहा. रस्य चैत्रविशेष्यकतत्तदाख्यातार्थसंख्याप्रकारकशाब्दबोधप्रयोजकत्वमस्ति तथा प्रथमान्ततण्डुलप. दपच्यतेइत्याख्यातपदयोरेव समभिव्याहारस्य. तण्डुलविशेष्यकतत्तदाख्यातार्थसंख्याप्रकारकशाब्दबोधप्रयोजकत्वमस्तीति — चैत्रः पचति , ' तण्डुलः पच्यते ' इत्यत्र चैत्रतण्डुलपदाभ्यां प्रथमैव भवति न तृतीया द्वितीये, बोधस्य यद्विशेष्यकत्वमिष्टं भवति तद्वाचकपदात् प्रथमैवेति नियमात्, 'चैत्रेण पचति ।' तण्डुलं पच्यते ' इत्यादिवाक्यघटकचैत्रतण्डुलादिपदतत्तदाख्यातपदयोः समभिव्याहारस्य अतथात्वेन चैत्रतण्डुलविशेष्यकतत्तदाख्यातार्थसंख्याप्रकारका वयबोधाऽप्रयोजकत्वेन च ' चैत्रेण पचति ' ' तण्डुलं पच्यते । इत्येतद्वाक्यघटकतृतीयाद्वितीययोः साधुत्वस्योक्तनियमाऽन्यवच्छेद्यत्वादित्यन्वयः, अयं भाव:- उक्ततात्पर्येण हि यादृशचैत्रपदारुपातपदयोः समभिव्याहारश्चैत्रविशेष्यकसंख्याप्रकारकशाब्दबोधाऽप्रयोजको भवति तादृशचैत्रपदात्तुतीया भवति तथा यादृशतण्डुलपदाख्यातपदयोः समभिव्याहारस्तण्डुलविशेश्यकसंख्याप्रकारकशाब्दबोधाऽप्रयोजको भवति तादृशतण्डुलपदाद् द्वितीया भवति यथा- 'चैत्रेण पच्यते । 'तण्डुलं पचति ' इति लभ्यते, तथा च 'चैत्रेण पचति । इत्येतत्समभिव्याहारस्यापि चैत्रविशेष्यकसंख्याप्रकारकशाब्दबोधाप्रयोजकत्वादत्र चैत्रपदात्तृतीया स्यादेव एतादृशतृतीयायाः साधुत्वं च नोक्ततात्पर्यनियमव्यवच्छेद्यं भविष्यति-उक्ततात्पर्यनियमेनैवात्र तृतीयायाः प्राप्तत्वात् , तथा ' तण्डुलं पच्यते' इत्येतत्समभिव्याहारस्यापि तण्डुलविशेष्यकसंख्याप्रकारकशाब्दबोधायोजकत्वादत्र तण्डुलपदाद् द्वितीया स्यादेव एतद्वितीयायाः साधुत्वं च नोक्ततात्पर्य'नयमव्यवच्छेचं भविष्यति- उक्ततात्पर्यनियमेनैवात्र द्वितीयायाः प्राप्तत्वादिति । उक्तं च कृष्णभट्टैरपि- " कीदिपरयत्पदाख्यातपदयोः समभिव्याहारः संख्यान्वयबुद्धित्वावच्छिन्नप्रयोजकविषयित्वानिरूपकस्तत्पदोत्तरं तृतीयादि विभक्तिरितिनियमवाक्यात् 'चैत्रेण पचति ' इत्यत्र कर्तरि तृतीया न साध्वी ' तण्डुलं पच्यते । इत्यत्र कर्मणि द्वितीया न साध्वीत्यर्थो न प्रतीयते इति मावः"
"Aho Shrutgyanam"