________________
सादर्श:
( १९४ )
[ प्रथमाकारके -
नियमाऽव्यवच्छेद्यत्वात् तस्मान्मुख्यभाक्तसाधारणकर्तृत्वकर्मत्वयोः कर्तृकर्मबाचकपदसमभिव्याहतलकृत्तद्धितसमासैरनभिधानमेव तृतीयाद्वितीयानियामकम्, शिरोमणिभिरप्यत्रैव निर्भरो विहितः ।
लादीनां तदनभिधायकत्वं च न तदवाचकत्वं तन्निष्ठवृत्त्यनिरूपकत्वं वाआत्मनेपदस्याप्याख्यातत्वेन लत्वादिना वा कर्तृत्वादिनिष्ठशक्तिलक्षणानिरूपकत्वात्, कर्तृत्वानभिधाय काख्यातस्यैवाप्रसिद्धेः ।
८
खण्डूकः
तच्छाब्दबोधौपयिकाकाङ्क्षाशून्यत्वमेव तत् 'चैत्रेण पच्यते तण्डुलः' इत्यादाइति । उपसंहरति- तस्मादिति, कर्तृकर्मगतसंख्यामभिधानस्य तृतीयाद्वितीयानियामकत्वासंभबात् कर्तृकर्मवाचकपदसमभिव्याहृत कृत्तद्धितसमासैर्मुख्यभाक्तसाधारणकर्तृत्व कर्मत्वयोरेवाऽनभिधानं तृतीयद्वितीययोर्नियामकमित्येव युक्तं तथा च ' पचति' इत्यन्न लकारेण कर्तृत्वाभिधानात् कर्तृपदात् तृतीया न भवति किं तु प्रथमैव यथा-- चैत्रः पचति" इति ' पच्यते ' इत्यत्र लकारेण कर्तृत्वानभिधानात् तृतीया भवति यथा - ' चैत्रेण पच्यते ' इति, तथा ' पच्यते ' इत्यत्र ककारेण कर्मत्वाभिधानात् कर्मवाचकपदाद् द्वितीया न भवति किं तु प्रथमेव यथाबच्यते ' इति, ' पचति ' इत्यत्र लकारेण कर्मत्वानभिधानात् कर्मवाचकपदाद् द्वितीया भवति यथा - ' तण्डुलं पचति ' इति, एवं च ' चैत्रेण पचति ' इतिप्रयोगस्य प्राप्तिर्नास्त्येवतृतीयाप्रयोजकस्यात्राख्याते कर्तृत्वानभिधानस्याभावात्, तथा ' तण्डुलं पच्यते ' इतिप्रयोगस्यापि प्राप्तिर्नास्त्येव - द्वितीयाप्रयोजकस्यात्राख्याते कर्मत्वानभिधानस्याभावादिति सर्वं समञ्जसम् । भत्र शिरोमणि प्रमाणयति- शिरोमणिभिरिति । ' चैत्रः पचति ' इत्यत्र मुख्यं कर्तृत्वम्, “ जानाति ' इत्यत्र भाक्त गौणं कर्तृत्वम्, ' तण्डुलः पच्यते ' इत्यत्र मुख्यं कर्मत्वम्, " ज्ञायते घटः ' इत्यादौ गौणं कर्मत्वमितिबोध्यम् । कर्तरि तिङ् - ' पचति इति कर्मणितिङ् ' पच्यते ' इति, कर्तरिकृत ' कर्ता कटान् ' इति तृच् कर्मणि कृत् ' लक्ष्म्या सेवित: ' इति क्तः, कर्तरि तद्धितम् - 'पक्षिणो हन्ति पाक्षिकः ' इति ष्ठक्, कर्मणि तद्धितम् - * शतेन क्रीतः शत्यः' इति यत् कर्तरि समासः - ' कृतं विश्वमनेनेति कृतविश्वो हरिः' इति, कर्मणि समासः -' प्राप्त आनन्दो यं स प्राप्तानन्दः' इति, कर्तरिप्रत्ययस्थले कर्मत्वानभिधानं कर्मणि प्रत्ययस्थले कर्तृत्वानभिधानं बोध्यम् ।
लादीनां तदनभिधायकत्वम् = कर्तृत्वकर्मत्वानभिधायकत्वं च न तदवाचकत्वम् - कर्तृत्वाद्यनभिधाय काख्यातस्यैवाप्रसिद्धेः न वा तन्निष्ठवृत्त्यनिरूपकत्वम् = कर्तृत्वादिनिष्ठवृत्त्यनिरूपकत्वम्-आत्मनेपदस्याप्याख्यातत्वेन रूपेण लत्वादिरूपेण वा कर्तृत्वादिनिष्ठशक्तिलक्षणारूपवृत्तिनिरूपकत्वादेव, अर्थविशेष्यकवृत्तिस्वीकारपक्षे वृत्तेराश्रयतासंबन्धेनार्थनिष्ठाया अर्थवाचकपदनिरूपितत्वादेवेत्यर्थः ।
तदनभिधायकत्वमाह - तच्छाब्दबोधेति, अस्य " इत्यपि न" इत्यनेनान्वयः । तच्छाब्दबोधौपयि
" Aho Shrutgyanam"