________________
द्वितीया तृतीयाप्रयोजकस्व ० ] व्युत्पत्तिवादः ।
( १९६ )
वाख्यातस्य कर्तृत्वादिवाचकत्वेपि तच्छाब्दबोधौपयिकाकाङ्क्षाराहित्यं तत्राक्षतमेव- चैत्रादिपदोत्तर तृतीययैव कर्तृत्वबोधनसंभवात् तत्र तादृशाकाङ्क्षाया अकल्पनात, इत्यपिन- 'चैत्रेण पक्ष्यते' इत्यादौ तृतीयानुपपत्तेः, ' पक्ष्यते चैत्रः" इत्यादितश्चैत्रादौ पाककृतेः केवलात् ' पक्ष्यते ' इत्यादितश्च मुख्यविशेष्यतया तस्य बोधात् तादृशाख्यातधात्वोरानुपूर्वीविशेषाकाङ्क्षायाः कृतिबोधौपयिकत्वात् । काकाङ्क्षाशून्यत्वमेव=कर्तृविशेष्यकाख्यातार्थसंख्याप्रकारकशब्दबोधजनका काङ्क्षाशून्यत्वमेव कर्तृत्वानभिधायकत्वं तथा च 'चैत्रेण पच्यते तण्डुलः' इत्यत्राख्यातस्य कर्मविशेष्यक संख्याप्रकारकशाब्दबोधजनकाकाङ्क्षावत्त्वेन तच्छाब्दबोधौपयिकाकाङ्क्षाराहित्यम् = कर्तृविशेष्यकाख्यातार्थसंख्याप्रकारकशाब्दबोधजनकाकाङ्क्षाशून्यत्वं तत्र = 'पध्यते' इत्याख्यातेऽक्षतमेवेति न तृतीयाया अनुपपत्तिः । ननु यद्येतादृशाकाङ्क्षाशून्यत्वेनाख्यातस्थात्र कर्तृविशेष्यकबोधजनकत्वं न स्यात्तदा चैत्रस्य कर्तृत्वमपि न ज्ञातं स्यान्न चैवमस्तीत्याशङ्क्याह- 'चैत्रादीति, 'चैत्रेण पच्यते ' इत्यत्र न चैत्रस्य कर्तृत्वमाख्यातेन प्रतिपाद्यते किं तु चैत्रपदोत्तरतृतीययैवेति तृतीयया कर्तृत्वबोधनसंभवात्तत्र=' पच्यते ' इत्याख्याते तादृशाकाङ्क्षायाः कर्तृविशेष्यक संख्याप्रकारकबोधजनकाकाङ्क्षाया अकल्पनात् = कल्पनापेक्षाभावादित्यर्थः । यदा ह्याख्यातस्याख्यातत्वेन रूपेण वा लत्यादिना रूपेण वा कर्तृत्वादिवाचकत्वमस्ति तदा ' पच्यते ' इत्याख्यातस्यापि कर्तृत्वादिवाचकत्वमक्षतमेव शक्ततावच्छेदकरूपेणाख्यातत्वेन लत्वादिना वा समाक्रान्तत्वादित्युक्तम्- कर्तृत्वादिवाचकत्वेपीति । एवं कर्मविशेष्यक संख्याप्रकार कशाब्दबोध जनकाकाङ्क्षाशून्यत्वमेव कर्मत्वानभिधायकत्वं तदेव द्विसी. याप्रयोजकम्. यथा 'तण्डुलं पचति' इत्यत्राख्यातेस्ति । तच्छाब्दबोधेत्याद्युक्तं परिहरति-इत्य नति, एवं हि 'चैत्रेण पक्ष्यते' इत्यत्र तृतीया न स्यात्- 'पक्ष्यते' इति यथा कर्मणि लुटा भवति तथा कर्तर्यपि लुटा भवतीति पक्ष्यते ' इत्याख्याते कर्तृविशेष्यक संख्याप्रकारकशाब्दबोधजनकाकाङ्क्षायाः सत्त्वेन तृतीयाप्रयोजकं कर्तृविशेष्य कसंख्याप्रकारकशाब्दबोधजनकाकाङ्क्षाशून्यत्वं नास्तीति तृतीयानुपपत्तिरित्यर्थः । ' पक्ष्यते ' इत्याख्यातस्य कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधजनकाकाङ्क्षावत्त्वमुपपादयति- पक्ष्यते चैत्र इत्यादिना, ' पक्ष्यते चैत्रः' इत्यत्र कृतिश्चैत्रे प्रकारीभूय भासते इति चैत्रविशेष्यक कृतिप्रकारको बोधो जायते, केवलात् चैत्रपदर हितात् ' पक्ष्यते ' इतिपदाच्च मुख्यविशेष्यतया तस्याः = पाककृतेर्बोधो जायते कृतिश्च कर्तृत्वमेवेति कर्तृत्वविशेष्यकबोधस्य जायमानत्वात् तादृशाख्यातधात्वोः = ' पक्ष्यते ' इत्याख्यातुधाखोरानुपूर्वीविशेषाकाङ्क्षायाः = पक्ष्यते इत्यत्र वर्तमानाकाङ्क्षायाः कृतिबोधौपयिकत्वात्= कृतिविशेष्यकबोधजनकत्वात्. ' पक्ष्यते ' इत्याख्याते कर्तृविशेष्यक संख्याप्रकारकशाब्दबोधौपयिकाकाङ्क्षायाः सत्त्वेनैतादृशाकाङ्क्षाशून्यत्वरूपं कर्तृत्वानभिधायकत्वं तृतीयाप्रयोजकं नास्तीति
'चैत्रेण पक्ष्यते ' इत्यादौ तृतीयानुपपत्तिरित्यर्थः । पाककृतेः " इत्यस्य " बोधस्त्"
CL
1.1
इत्यनेनान्वयः ।
"
" Aho Shrutgyanam"