________________
( १९६ )
सादर्श:
[ प्रथमाकार के
न च समभिव्याहाररूपाका क्षैव विवक्षणीया प्रकृते च प्रकृतिप्रत्यययोरानुपूर्वीरूपाकाङक्षा न तु समभिव्याहार इति नोक्तानुपपत्तिरिति वाच्यम्, तथा सति 'चैत्रेण पचति' इत्यादावपि तृतीयायाः साधुतापत्तेः- तादृशचैत्रपदाख्यातपदयोः समभिव्याहारस्य कृतिबोधानौपयिकत्वात् । 'चैत्रेण विजेष्यते मैत्रः ' treet तृतीषानुपपत्तेश्व - 'विजेष्यते मैत्रः' इत्यादितो मैत्रकृतिबोधात् तादृशाख्यातपदमैत्रपदयोः समभिव्याहारस्य कृतिबोधौपयिकत्वात् ।
66
ननु तच्छाब्दबोधौपयिकाकाङ्क्षाशून्यत्वं तदनभिधायकत्वम् " इत्यत्राकाङ्क्षापदेन सममिव्याहाररूपैवाऽऽकाङ्क्षा गृह्यते न तु प्रकृतिप्रत्यययोरानुपूर्वीरूपा, तत्र प्रकृतिप्रत्यययोस्तु पूर्वापरीभावे वैपरीत्यं नैव संभवति - प्रकृत्यव्यवहितोत्तरमेव प्रत्ययसंभवाद् यथा ' पचति पचते पक्ष्यते ' इत्यादी इत्येषा पूर्वापरीभावरूपाकाङ्क्षास्ति, समभिव्याहारे तु पूर्वापरीभावस्य वैपरीत्यमपि भवति यथा--' पचति चैत्र:' इत्यपि वक्तुं शक्यते ' चैत्रः पचति ' इत्यपि वक्तुं शक्यते इति, तथा च कर्तृविशेष्यकसंख्या प्रकार कशाब्दबोधजनकसमभिव्याहाररूपाकाङ्क्षाशून्यश्वं तृतीया प्रयोजकमस्ति कर्तृविशेष्यक संख्याप्रकारक शाब्दबोधजनकसमभिव्याहारश्च प्रथमान्त चैत्रपदसमभिव्याहृताख्यातसमभिव्याहार एव. प्रकृते ' चैत्रेण पक्ष्यते ' इत्यत्र च प्रकृतिप्रत्यययोरानुपूर्वी रूपा ' पक्ष्यते ' इत्याकाङ्क्षवास्ति न तु समभिव्याहारः = प्रथमान्त चैत्रपदसमभिव्याहृताख्यातसमभिव्याहार इत्येतादृशसमभिव्याहारशून्यत्वं तृतीयाप्रयोजकम् ' चैत्रेण पक्ष्यते ' इत्यत्रास्त्येवेति नोक्तानुपपत्तिः = तृतीयानुपपत्तिरित्याशङ्कते - न चेति । परिहरति-तथा सतीति, तथा सति= यदि कर्तृविशेष्यक संख्याप्रकारकशाब्दबोध जनकसमभिव्याहारशून्यत्वमेव तृतीयाप्रयोजकं तदेतादृशसमभिव्याहारशून्यत्वं तु 'चैत्रेण पचति ' इत्यत्राप्यस्त्येव तादृश' चैत्रेण पचति ' इत्याकारकतृतीयान्तचैत्रपदाख्यातपदयोः समभिव्याहारस्य कृतिबोधानौपयिकत्वात् = कर्तृत्वबोधाजनकत्वादत्र कर्तृविशेष्यकशाब्दबोधजनकसमभिव्याहारशून्यत्वं तृतीयाप्रयोजकमस्त्येवेति तृतीयायाः साधुत्वं स्यादेव न चैतदिष्टमित्यर्थः । किं च कर्तृविशेष्यक संख्याप्रकारकशाब्दबोधजनकसमभिव्याहारशून्यत्वं यदि तृतीयाप्रयोजकं स्यात्तदा ' चैत्रेण विजेष्यते मैत्र: ' इत्यत्र तृतीयाप्रयोजकस्य तादृशसमभिव्याहारशून्यश्वस्याभावात् तृतीया न स्यात्, ' विजेष्यते मैत्र: ' इतिसमभिव्याहारात् मैत्रकृतिबोधात् = कर्तृविशेष्यकबोधस्य जायमानत्वात् तादृश= 'विजेष्यते मैत्र: ' इत्याकारकाख्यातमैत्रपदयोः समभिव्याहारस्य कृतिबोधौपयिकत्वात् कर्तृविशेष्यकबोधजनकत्वात् एतादृश ( विजेष्यते मैत्र इत्याकारक ) कर्तृविशेष्य कशाब्दबोधजनकसमभिव्याहारशून्यत्वं चैत्रेण विजेष्यते मैत्र: ' इत्यत्र नास्ति तादृशसमभिव्याहारघटितत्वादेवेति चैत्रपदात्तृतीया न स्यादित्यर्थः ।
८
'तस्मात् तच्छाब्दबोधौपयिकाकाङ्क्षाशून्यत्वं कर्तृत्वकर्मत्वानभिधायकत्वं न संभवति किं तु तत्तात्पर्यशून्यत्वम् = कर्तविशेष्य कशाब्दबोधविषयक तात्पर्यशून्यत्वमेव कर्तृत्वानभिधायकत्वं तदेव
"Aho Shrutgyanam"