________________
द्वितीयातृतीयाप्रयोजकस्व ० ] व्युत्पत्तिवादः।
किं तु तत्तात्पर्यशून्यत्वमेव तथा च 'चैत्रेण पक्ष्यते ' इत्यादावाख्यातस्य कर्तृत्वादितात्पर्यकत्वे तृतीयाऽसाधुरेव, तथा च चैत्रेण पचति' इत्यादावाख्यातस्याऽर्थाविवक्षायां तृतीयायाः साधुत्वपि परस्मैपदस्याऽसाधुत्वान्न प्रयोगः । परस्मैपदस्यासाधुत्वं च धात्वर्थविशेष्यस्य प्रत्ययेनाऽविवक्षणे "भावकर्मणो" इतिसूत्रेणात्मनेपदनियमात् । आख्यातार्थविवक्षायां न 'चैत्रेण पचते' इत्यादिप्रयोगः- शबादिविकरणस्याऽसाधुत्वातू, कर्तृत्वतात्पर्यकसार्वधातुकयोगे एव तत्साधुत्वात् ।
कर्तृत्वकर्मत्वोभयतात्पयेण 'मैत्रः पक्ष्यते तण्डुलः' इत्यादयस्तु न प्रयोगाःतृतीयाप्रयोजकम्, कर्मविशेष्यकशाब्दबोधविषयकतात्पर्यशून्यत्वमेव कर्मत्वानभिधायकत्वं तदेव द्वितीयाप्रयोजकमित्याह-किं त्विति, तथा च 'पक्ष्यते' इतिप्रयोगः कर्तर्यपि लुटा भवति कर्मण्यपि लुटा भवति तत्र ' चैत्रेण पक्ष्यते ' इत्यत्राख्यातस्य कर्तविशेष्यकशाब्दबोधविषयकतात्पर्यविशिष्टत्वे तृतीयाप्रयोजकस्य कर्तृविशेष्यकशाब्दबोधविषयकतात्पर्यशून्यत्वस्याभाववत्त्वादसाधुरेव ( असाध्वेव ) तृतीया, यदा चाख्यातस्याऽत्र कर्मविशेष्यकशाब्दबोधविषयकतात्पर्यविशिष्टत्वं तदा कर्तृविशेष्यकशाब्दबोधविषयकतापर्यशून्यत्वात्तृतीया साधुरेवेत्यर्थः । * चैत्रेण पचति' इत्यत्राख्यातार्थस्य कर्तृत्वस्याविवक्षायाम् कर्तृविशेष्यकशाब्दबोधविषयकतात्पर्यस्यासत्त्वे तृतीयायाः साधुत्वसंभवेपि परस्मैपदस्य साधुत्वं न संभवतीति परस्मैपदप्रयोगो न संभवतीत्याह-तथाचेति । अत्र परस्मैपदस्य कथमसाधुत्वमित्याह-परस्मैपदस्यासाधुत्वं चेति, चैत्रेण पचति ' इत्यत्र धात्वर्थस्य पाकस्य विशेष्यभूतायाः कृतेराख्यातप्रत्ययेनाविवक्षायां भावस्य वा कर्मत्वस्य वा विवक्षा स्यादेव-आख्यातस्य निरर्थकत्वासंभवात् तत्र च "भावकर्मणोः" इतिसूत्रेगात्मनेपदं प्राप्नोतीति परस्मैपदस्याऽसाधुत्वं स्यादेवेति न ' चैत्रेण पचति ' इतिप्रयोगापत्तिस्त्र तृतीयापत्तिवेत्यर्थः । ननु यदि 'चैत्रेण पचति' इत्यत्र परस्मैपदस्यासाधुत्वमात्मनेपदप्राप्तेस्तदास्मनेपदेन 'चैत्रेग पचते' इतिप्रयोगः स्यादेव न चैतदिष्टमित्याशङ्कयाह-आख्यातार्थविवक्षायामिति, आत्मनेपदाख्याते कर्तृविशेष्यकबोधस्य कर्मविशेष्यकबोधस्य भावविशेष्यकबोधस्य च सामर्थ्यमस्त्येवेति 'चैत्रेण पचते' इत्यत्राख्यातार्थविवक्षायाम्-आख्यातार्थस्य कर्मत्वस्य भावस्य वा विशेष्यतया विवक्षायामात्मनेपदस्य साधुत्वेपि विकरणस्य शप्प्रत्ययस्य साधुत्वं न संभवति- कर्तृत्वतात्पर्यकसार्वधातुकाख्यातयोगे एव तत्साधुत्वात् शपः साधुत्वात् "कतार शपू " इत्यनुशासनात्, आख्यातार्थस्य कर्तृत्वस्य विशेष्यतया विवक्षायां चात्मनेपदस्य शपश्च साधुत्वेपि तृतीयायाः साधुत्वं न संभवति- कर्तृविशेष्यकत्वाविवक्षायामेव कर्तृविशेष्यकशान्दबोधविषयकतात्पर्यशून्यत्वस्य तृतीयाप्रयोजकत्वस्य संभवेन तृतीयायाः साधुत्वात् कर्तृविशेष्यकत्वविवक्षायां चाऽसाधुत्वादिति न 'चैत्रेण पचते ' इत्यपि प्रयोगो भवतीत्यर्थः ।।
कर्तृत्वेति-कर्तृत्वकर्मत्योभयविशेष्यकशाब्दबोधतात्पर्येण — मैत्रः पश्यते तण्डुलः ' इत्यादिप्रयोगो न भवति-तदेकतरबोधे कर्तृकर्मणोर्मध्ये एकतर विशेष्यकाख्यातार्थप्रकारकशाब्दबोधे
"Aho Shrutgyanam"