________________
( १९८ )
सादर्श:
[ प्रथमाकारके -
तदेकतरबोधेऽन्यतरपरत्वेनागृह्यमाणाख्यातधर्मिकप्रकृतान्वयबोध परत्वज्ञानस्य हेतुत्वात् | 'चैत्रेण पक्ष्यते तण्डुलः' इत्यादौ कर्तृत्वादावाख्यातस्य तात्पर्यग्रहे कर्मत्वाद्यन्वयबोधोपि न भवत्येव ।
अथ 'पक्कानि भुङ्क्ते चैत्रः' 'ओदनः पक्त्वा भुज्यते' इत्यादी कृता क्रमेण कर्तृत्व कर्मत्वानभिधानात् चैत्रपदौदनपदाद्युत्तरं तृतीयाद्वितीये कथं न स्याताम् । न च कृताऽनभिधानेप्याऽऽख्यातेन तदभिधानान्नाऽनभिहितत्वम् - समभिव्याहतपदाभिहितत्वसामान्याभावस्यैवाऽनभिहितपदेन विवक्षणात् समभिव्याहृतेति
ह्यन्यपरत्वेन = कर्तृकर्मणोर्मध्ये ह्यन्यपरत्वेनाऽगृह्यमाणं यदाख्यातधर्मिकमाख्यातविषयकं प्रकृतान्वयबोधपरत्वज्ञानं प्रकृतशाब्दबोधपस्त्वज्ञानं तस्य हेतुत्वाद् यथात्र कर्तृविशेष्यकाख्यातार्थप्रकारकशाब्दबोधे कर्मविशेष्य कशाब्दबोधपरत्वेनागृह्यमाणं यदाख्यातं पक्ष्यते इत्याख्यातं तादृशाख्यातधर्मिकं तादृशाख्यातविषयकं यत्प्रकृतान्वयबोधपरत्वज्ञानं इदमाख्यातं कर्तु विशेष्यकबोधजनकमितिज्ञानं तस्य हेतुत्वादेक ( कर्तृ ) विशेष्यक एव बोधो जायते एवं कर्मविशेष्यक बोधपक्षेपि ज्ञेयम् - तथा च कर्तृविशेष्यकबोधविवक्षायाम् ' मैत्रः पक्ष्यते तण्डुलम् ' इत्येव भवति-भख्यातस्य कर्तृत्वाभिधायकत्वेन मैत्रपदात् प्रथमायाः कर्मत्वानभिधायकत्वेन तण्डुलपदाच द्वितीयायाः प्राप्तेः कर्मविशेष्यकबोधविवक्षायां च ' मैत्रेण पक्ष्यते तण्डुलः ' इत्येव भवति - आख्यातस्य कर्मत्वाभिधायकत्वेन तण्डुलपदातु प्रथमायाः कर्तृत्वानभिधायकत्वेन मैत्रपदाच्च तृतीयायाः प्राप्तेरित्यर्थः । फलमाह – चैत्रेणेति, 'पक्ष्यते ' इत्याख्यातस्य कर्तृत्वे तात्पर्यग्रहे कर्मत्यविशेष्यको न भवति कर्मत्वे तात्पर्यग्रहे कर्तृत्वविशेष्यकबोधो न भवति - एक विशेष्यकबोधपरत्वस्याऽपरविश्लेष्यकबोधे प्रतिबन्धकत्वादित्यर्थः । यद्यपि 'चैत्रेण पयते तण्डुलः ' इत्यत्र कर्मविशेष्यक बोध इष्ट एव तथाप्यत्राख्यातस्य कर्तृत्वे तात्पर्यग्रहे 'जाते कर्मत्वाद्यन्वयबोधः कर्मत्वप्रकारक - कर्मव्यक्तिविशेष्यकोपि बोधो न जायते - तत्प्रतिबन्धकस्य कर्तृत्वपरत्वतात्पर्यग्रहस्य सत्त्वादित्यमिप्रायेणोक्तम्-कर्तृत्वादाविति । इदं च पूर्वमपि ( १८९५. ) व्याकृतम् ।
,
ननु यदि कर्तृत्वानभिधाने तृतीया भवति तदा ' पक्कानि फलानि भुङ्क्ते चैत्रः' इत्यत्र पक्कपदघटकक्तप्रत्ययस्य कर्मत्वाभिधायकत्वेन कर्तृत्वानभिधायकत्वादत्र चैत्रपदातृतीया कथं न स्यात् ? तथा यदि कर्मत्वानभिधाने द्वितीया भवति तदा 'ओदनः पक्त्वा भुज्यते' इत्यत्र स्वाप्रत्ययस्य कर्तृत्वाभिधायकत्वेन कर्मत्वानभिधायकत्वादत्रौदनपदाद् द्वितीया कथं न स्यादित्याशङ्कते - अथेति । ननु ' कर्तृत्वानभिधाने तृतीया कर्मश्वानभिधाने च द्वितीया' इत्यत्रानमिहितपदेन कर्तृकर्मवाचकपदसमभिव्याहृतपदाभिहितत्वसामान्याभावो विवक्षितः - अर्थात् कर्तृकर्मवाचकपदेन सह समभिव्याहृतेन केनापि पदेन यदि कर्तृत्वकर्मत्वयोरभिधानं न भवति तदा कर्तृपदात्तृतीया कर्मपदाद्वितीया भवति तथा च ' पकानि भुङ्क्ते चैत्रः ' इत्यत्र कुता=क्तप्र
" Aho Shrutgyanam"