________________
द्वितीयातृतीयाप्रयोजकस्व०] व्युत्पत्तिवादः । करणाच चैत्रेण गम्यते ग्रामस्तं मैत्री गच्छति' इत्यादौ न तृतीयाद्वितीययोरनुपपत्तिः- 'गच्छति' 'गम्यते' इत्याख्यातस्य तत्तत्पदासमाभिव्याहृतत्वादिति वाच्यम्, तथा सात 'भुनानेन चैत्रेण पच्यते' 'भोक्तव्यमोदनं पचति । इत्यादौ तृतीयाद्वितीययोरनुपपत्तिः कृता कर्तृत्वकर्मत्वयोरभिधानात् । - कृता तत्र भोजनकर्तृत्वतत्कर्मत्वयोरभिधानेपि पाककर्तृत्वं तत्कर्मत्वं चानभिहितमेवेति चेत् ?, तर्हि प्रकृतपि तदनभिहितमेव । त्येन कर्तत्वस्थानभिधानेप्याऽऽख्यातेनाभिधानमस्त्येवेत्यभिहितत्वसामान्याभावस्य तृतीयाप्रयोजकस्यामावाल चैत्रपदात्तृतीयापत्तिः, एवम् ' ओदनः पक्त्वा भुज्यते' इत्यत्र क्त्वाप्रत्ययेन कर्मस्वस्थानभिधानेप्याख्यातेनाभिधानमस्त्येवेत्यमिहितत्वसामान्याभावस्य द्वितीयाप्रयोजकस्याभावान मोदनपदाद्वितीयापत्तिरित्याशङ्ते-नचेति । अत्र यदि 'पदाभिहितत्वसामान्यामावस्यैवाऽनभिहि. तपदेन विवक्षणात्' इत्येवोच्येत तदा 'चैत्रेण गम्यते ग्रामः, तम् (ग्रामम् ) मैत्रो गच्छति' इत्यत्र गच्छतिपदेम कर्तृत्वस्यामिधानादनभिधानं तृतीयाप्रयोजकं नास्तीति चैत्रपदात्तृतीया न स्यात्त. था गम्यतेपदेन कर्मत्वस्याभिधानादनभिधानं द्वितीयाप्रयोजकं नास्तीति तमितितत्पदाद् द्वितीया न स्यादितिदोषपरिजिहीर्षया समभित्र्याइतेतिकृतम्-" सममिव्याहतपदाभिहितत्वसामान्यामा. बस्य " इत्येवमुक्तं तथा चात्र 'चैत्रेण गम्यते ग्रामः । इति पृथक् वाक्यम् ' तं मैत्रो गच्छति' इति च पृथक् वाक्यं तथा च गच्छतीतिपदेन कर्तृत्वस्याभिधानेपि 'गच्छति ! इत्याख्यातस्य तत्पदाऽसमभिव्याहृतत्वात्-चैत्रपदेन सह समभिव्याहाराभावात्-वाक्यान्तरघट, कत्वाद् न गच्छतीत्याख्यातकृतकर्तृत्वाभिधानमाश्रित्य चैत्रपदात्तृतीयानुपपत्तिः, तथा गम्यते इतिपदेन कर्मत्वस्याभिधानपि ' गम्यते ' इत्याख्यातस्य वाक्यान्तरघटकत्वेन तत्पदासमभिव्याहतत्वात् तत्पदेन सह सबभिव्याहाराभावाद् न गम्यतेइत्याख्यातक्त्तकर्मत्वामिधानसाश्रित्य वाक्यान्तरस्थतत्पदाद् द्वितीयानुपपत्तिरित्याह-समभिव्यातेतिकरणाचेति । परिहरति-तथा सतीति, यदि समभिव्याहतपदैः कर्तृत्वाभिधानसामान्याभावस्य तृतीयाप्रयोजकत्वमुच्यते तदा 'भुञ्जानेन चैत्रेण पच्यते ' इत्यत्रापि चैत्रपदात्ततीया न स्यादेव-अत्र पच्यतेपदेन कर्तृत्वस्यानमिधानेपि भुजानपदेन कर्तृत्वाभिधानस्य तृतीयाप्रतिबन्धकस्य सत्त्वादेव-शानचप्रत्ययस्य कर्तरि वर्तमानत्वात् । तथा यदि समभिव्याहृतपदैः कर्मत्वाभिधानसामान्याभावस्य द्वितीयाप्रयोजकत्वमुच्यते तदा ' भोक्तव्यमोदनं पचति ' इत्यत्राप्योदनपदाद् द्वितीया न स्यादेव-अत्र पचतीतिपदेन कर्मत्वस्यानभिधानेपि भोक्तव्यपदेन कर्मत्वाभिधानस्य द्वितीयाप्रतिबन्धकस्य सत्त्वादेवतव्यप्रत्ययस्य कर्मणि वर्तमानत्वादिति " सममिव्याहतपदाभिहितत्वसामान्याभावस्य ११ इत्यादि ब्युत्पादनमपि न युक्तमित्यर्थः । -- ननु — भुञ्जानेन चत्रेण पच्यते । इत्यत्र भुजानपदेन भोजनकर्तृत्वस्याभिधानपि पच्यते इति पदेन पाककर्तृत्वं त्वभिहितं नास्तीति ताशपाककर्तृत्वानभिधानमाश्रित्यैवात्र चैत्रपदात्तृतीया प्राप्ता साध्वी च. तथा ' भोक्तव्यमोदनं पचति । इत्यत्र भोक्तव्यपदेन भोजनकर्मवस्यामि
"Aho Shrutgyanam"