________________
(२००)
सादर्श:
[ प्रथमाकारकेन च प्रधानक्रियानिरूपितकर्तृत्वाद्यनभिधाने नृतीयादेः साधुतति तदुक्तम्"प्रधानशक्त्याभिधाने गुणशक्तिरभिहितवत् प्रकाशते" इति शक्तिः कर्तृत्वादिकमिति वाच्यम्, तथापि 'चैत्रेण दृश्यमानं घट मैत्रः पश्यति' इत्यादौ ज्ञानभे. धानेपि पचतीतिपदेन पाककर्मत्वं त्वमिहितं नास्तीति तादृशपाककर्मत्वानमिधानमाश्रित्यैवात्रौदनपदाद् द्वितीया प्राप्ता साध्वी चेत्याह- कृतेति । अथेतिपूर्वपक्षी समाधत्ते- तीति । प्रकृ. तेपि' पक्कानि भुङ्क्ते चैत्रः । इत्यत्रापि भुङ्क्तेइतिपदेन भोजनकर्तृत्वाभिधानपि पक्कानीतिपदेन पाककर्तृत्वं त्वभिहितं नास्ति क्तप्रत्ययस्य कर्मणि सत्त्वादिति तादृशपाककर्तृत्वानभिधानमाश्रित्य चैत्रपदात्ततीया स्यादेव तथा 'ओदनः पक्त्वा भुज्यते ' इत्यत्रापि भुज्यते इतिपदेन भोजनकर्मत्वाभिधानेपि पक्त्वेतिपदेन पाककर्मत्वं त्वभिहितं नास्ति क्वाप्रत्ययस्य कर्मण्यऽसत्त्वादिति तादृशपाककर्मत्वानभिधानमाश्रित्यौदनपदाद् द्वितीया स्यादेवत्यथेत्यायुक्तशका तदवस्थैवे. त्यर्थः । तत्=पाककर्तृत्वं पाककर्मत्वं च । - ननु प्रधानक्रियानिरूपितस्य कर्तृत्वस्यानभिधाने तृतीया कर्मत्वस्यानमिधाने च द्वितीया भवति साची च प्रधानक्रियानिरूपितस्य कर्तृत्वस्य कर्मत्वस्य चाऽभिधाने गौणक्रियानिरूपितमपि कर्तृत्वं कर्मत्वं चाऽमिहितवदेव भवति तथा प्रधानक्रियानिरूपितस्य कर्तृत्वस्य कर्मवस्य चाऽनमिधाने गौणक्रियानिरूपितमपि कर्तृत्वं कर्मत्वमऽनभिहितवदेव भवति, उक्तं च
प्रधानशक्त्यभिधाने" इत्यादिना, प्रधानशक्तेः प्रधानक्रियानिरूपितस्य कर्तृत्वस्य कर्मत्वत्वाऽभिधाने सति गुणशक्तिः गौणक्रियानिरूपितमपि कर्तृत्वं कर्मत्वमऽभिहितवदेव भवतीत्यर्थः, उक्तं च हरिणा
" प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् ।
शक्तिः, गुणाश्रया तत्र प्रधानमनुरुध्यते ॥ उक्तमेवोक्ततां श्राति कचिदुक्तमनुक्तताम् ।
अनुक्तमपि नोक्तं स्यात् कचिदेव पदान्तरैः।" इति । तथा च — पक्कानि भुक्ते चैत्रः' इत्यत्र प्रधानीभूतभोजनक्रियानिरूपितकर्तृत्वस्याभिहितत्वाद् गौणीभूतपाकक्रियानिरूपितकर्तृत्वमप्यभिहितवदेव प्रकाशते इति प्रधानीभूतभोजनक्रियानिरूपितकर्तृत्वानभिधानस्य तृतीयाप्रयोजकस्याभावान्नात्र चैत्रपदात्तृतीयापत्तिः, तथा । ओदनः पक्त्वा भुज्यते । इत्यत्र प्रधानीभूतभोजनक्रियानिरूपितकर्मत्वानभिधानस्य द्वितीयाप्रयोजकस्याभावान्नात्रौदनपदादू द्वितीयापत्तिः । ' भुञ्जानेन चैत्रेण पच्यते । इत्यत्र च प्रधानीभूतपाकक्रियानिरूपितकर्तृत्वानभिधानस्य तृतीयाप्रयोजकस्य सत्त्वान्न चैत्रपदात्ततीयानुपपत्तिः, तथा 'भोक्तव्यमोदनं पंचति' इत्यत्र प्रधानीभूतपाकक्रियानिरूपितकर्मत्वानभिधानस्य द्वितीयाप्रयोजकस्य सत्त्वान्नात्रौदनपदाद् द्वितीयानुपपत्तिरित्याशङ्कयाह-नचेति । परिहरति- तथापीति, शानभेदेपि ज्ञेयपदार्थनिष्ठकर्मत्वरूपविषयताया भदो न भवतीति'चैत्रेण दृश्यमानं घटं मैत्रः पश्यति।
"Aho Shrutgyanam"