________________
द्वितीयातृतीयाप्रयोजकवि० ] व्युत्पत्तिवादः ।
(२०१) देनविषयताभेदाभावात् चैत्रदर्शनमैत्रदर्शनोभयनिरूपितविषयत्वरूपकर्मतायाः कृताऽभिधानाद् द्वितीयानुपपत्तिः, इति चेत् ?,
न, तत्तत्प्रातिपदिकार्थविशेषणत्वमात्रेण कर्तृत्वकर्मवाद्यविवक्षाया एव तदनभिधानपदार्थत्वात्, तत्तत्प्रातिपदिकार्थविशेष्यतया कर्मत्वकर्तृत्वादिविवक्षायां द्वितीयादिविभक्तेः साधुत्वमित्यर्थे तात्पर्यस्य पर्यवसितत्वात् । शेषमाख्यातार्थविचारावसरे विवेचयिष्यत इत्यलमत्राधिक्येन । . इत्यत्र मैत्रकर्तृकप्रधानीभूतदर्शनक्रियानिरूपितं विषयत्वरूपं कर्मत्वं चत्रकर्तकगु गीभूतदर्शनक्रियानिरूपितं विषयत्वरूपं कर्मत्वं च घटे एकमेव तच 'दृश्यमानम् । इतिकृताऽभिहितमेयेति प्रधानक्रियानिरूपितकर्मत्वस्यात्राभिहितत्वेनाऽनमिहितत्वं द्वितीयाप्रयोजकं नास्तीति घटपदाद् द्वितीया न स्यादेवेतिदोषः । दर्शनमपि दर्शनत्वेन रूपेणैकमेवेति विज्ञेयम् ।
अथेत्यादिनाशङ्कितं परिहरति- नेति, तत्तत्प्रातिपदिकार्थविशेषणत्वेन या कर्तृत्वस्याऽविवक्षा तदेव कर्तृत्वानभिधानम्, तत्तत्प्रातिपदिकार्थविशेषणत्वेन या कर्मत्वस्याविवक्षा तदेव कर्मस्वानभिधानम्, तस्मात् कर्तृत्वस्य तत्तत्प्रातिपदिकार्थस्य विशेषणत्वेनाऽविवक्षायां विशेष्यत्वेन विवक्षायां च कर्तृवाचकपदात् तृतीया भवति तथा च 'चैत्रेण पच्यते' इत्यत्र तृतीयार्थस्य कर्तृत्वस्य चैत्ररूपप्रातिपदिकार्थस्य विशेषणतया विवक्षा नास्ति किं तु विशेष्यतयैव विवक्षास्ति कर्तृत्वस्थ प्रत्ययार्थत्वेन प्रधानत्वात् " प्रकृतिप्रत्ययार्थी सहाथ ब्रूतस्तयोः प्रत्ययार्थस्य प्राधान्यम् " इति न्यायात् चैत्रपदात्तृतीया जाता साध्वी च, एवम् ‘भुञ्जानेन चैत्रेण पच्यते' 'चैत्रेण दृश्यमानम्। इत्यादिश्वपि कर्तृत्वस्य प्रातिपदिकार्थविशेष्यत्वात् तृतीयोपपत्तिईया । एवं कर्मत्वस्य तत्तत्प्रा. तिपदिकार्थस्य विशेषणत्वेनाऽविवक्षायां विशेष्यत्वेन विवक्षायां च कर्मवाचकपदाद् द्वितीया भवति यथा ' तण्डुलं पचति । इत्यत्र द्वितीयार्थस्य कर्मत्वस्य तण्डुलरूपप्रातिपदिकार्थस्य विशेषणतया विवक्षा नास्ति किं तु विशेष्यतयैव विवक्षास्ति कर्मत्वस्य प्रत्ययार्थत्वेन प्रधानत्वादिति तण्डुलपदाद् द्वितीया जाता,एवमेव 'भोक्तव्यमोदनं पचति' 'चैत्रेण दृश्यमानं घटं मैत्रः पश्यति' इत्यादिष्वपि कर्मत्वस्य प्रातिपदिकार्थविशेष्यत्वाद् द्वितीयोपपत्तिज्ञेया । 'चैत्रः पचति' 'पकानि भुङ्क्ते चैत्र, इत्यत्र चैत्रपदोत्तरप्रथमार्थो न कर्तृत्वं येन कर्तृत्वस्य प्राधान्येन विशेष्यत्वं स्यात् किं तु चैत्ररूपप्रा. तिपदिकार्थविशेषणत्वमेवास्ति कृतिमांश्चैत्र इत्याकारकबोधोदयादिति नात्र कर्तृवाचकचैत्रपदात्तृती. यापत्तिः । तथा-- 'तण्डुलः पच्यते' 'ओदनः पक्त्वा भुज्यते' इत्यादौ तण्डुलादिपदोत्तरप्रथमार्थों न कर्मत्वं येन तस्य प्राधान्येन विशेष्यत्वं स्यात् किं तु तण्डुलादिरूपप्रातिपदिकार्थविशेषणत्वमेव विक्लित्त्याश्रयस्तडुल इत्याकारकबोधोदयादिति नात्र कर्मवाचकतण्डुलादिपदाद् द्वितीयापत्तिारैत्यर्थः । उक्तमेव स्पष्टयति- तत्तत्प्रातिपदिकार्थविशेष्यतयेति, 'चत्रेण पच्यते तण्डुलः' इत्यादी 'चैत्रादिवृत्तिकृतिजन्यव्यापारजन्यविक्कित्त्याश्रयस्तडुलः' इत्याद्याकारफबोधोदयाच्चैत्रादिविशेष्यत्वेनैव कर्तृत्वम्-कृतिर्भासते इति चैत्रादिपदात्तृतीया जाता ।' तण्डुलं पचति चैत्रः' इत्यादौ
"Aho Shrutgyanam"