________________
( २०२ )
सादर्श:
[ प्रथमाकारके -
आख्यातद्विवचनबहुवचनयोस्तु संख्याबोधकत्वमावश्यकम् - ' चैत्रो मैत्रश्वः गच्छतः ' 'चैत्रो मैत्रो देवदत्तश्च गच्छन्ति' इत्यादी
"चन्द्रे. कलकः सुजने दरिद्रता विकाशलक्ष्मीः कमलेषु चञ्चला । मुखप्रसादः सवनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम् ॥” इत्यादौ च द्वित्वबहुत्वबोधकसुपोऽभावात् ।
न च तत्र सुबेकवचनस्यैव द्वित्वबहुत्वादी लक्षणास्त्विति वाच्यम्, आनुशासनिकातिरिक्तार्थे सुब्विभक्तेर्लक्षणाया अनभ्युपगमात्, अन्यथा 'चैत्रो मैत्रश्च गच्छतः ' इत्यादाविव च्छन्दसि लक्षणयैव स्वादिना द्वित्वादिबोधनसंभवाद् औजसादिरूपादेशि स्मृतिद्वारा द्वित्वादिबोधनिर्वाहाय छन्दसि " सुपां सुलुक् 'तण्डुलादिवृत्तिविक्लित्त्यनुकूलव्यापारानुकूलकृतिमांश्चैत्रः' इत्याद्याकारक बोधोदयात् तण्डुलादिविशेष्यत्वेनैवं विक्तित्तिर्मासते विक्लित्तिरेव चात्र कर्मत्वमिति तण्डुलादिपदाद्वितीया प्राप्नोतीत्यनुसन्धेयम् । फलस्य कर्मत्वं चाये धातुप्रकृतिकप्रत्ययार्थविचारस्थले “कर्मत्वं च धात्वर्थतावच्छेदकीभूतसंयोगविभागादिरेव" इत्यादिना वक्ष्यति ।
आख्यातैकवचनस्य संख्याबोधकत्वाभावेव्याख्यातद्विवचनस्य द्वित्वसंख्याबोधकत्वमाख्यातवहुवचनस्य च बहुत्वसंख्याबोधकत्वमावश्यकमेव - 'चैत्रो मैत्रश्च गच्छतः' इत्यत्र सुब्विभक्तिद्विवचनस्याभावादाख्यातद्विवचनादेव द्वित्वबोधस्वीकारावश्यंभावात् एवम् 'चैत्रो मैत्रो देवदत्तश्व गच्छन्ति' "चन्द्रे कलङ्कः" इत्यादिवाक्यघटकाख्यातबहुवचनस्यापि बहुत्वसंख्याबोधकत्वमावश्यकम् - शाब्दबोधविषयीभूतबहुत्वस्य सुपा बोधासंभवात् सुब्बिभक्तिबहुवचनस्याभावादित्याहआख्यातेति । आख्यातद्विवचनबहुवचनार्थद्वित्ववत्वयोश्च प्रातिपदिकार्थचैत्रादावन्वयो भवति क्रियायां द्विश्वसंख्यान्वयासंभवात्, चैत्रमैत्रपदोत्तर सुवेकवचनं चात्र साधुत्वमात्रार्थकत्वा चिरर्थकमेक चैत्रमै सुवचनार्थैकत्वस्य बाधितत्वेनाऽन्वयासंभवादित्यनुसंधेयम् ।
ननु तत्र = ' चैत्रो मैत्रश्च गच्छतः ' इत्यादौ सुबेकवचनस्यैव द्वित्वे बहुत्वे वा लक्षणास्त्वित्याऽख्यातैकवचनत्रदाख्यातद्विवचनबहुवचनयोरपि निरर्थकत्वमेव युक्तमित्याशङ्कते - न चेति । परिहरति- आनुशासनिकेति, व्याकरणे सुबेकवचनस्य द्वित्वार्थकत्वं बहुत्वार्थकत्वं च नोक्तमिति न द्वित्वबहुत्वयोर्लक्षणा स्वीकर्तुं शक्यते, शक्यार्थैकत्वेन सह द्वित्वबहुत्वयोः संबन्धासंभवादपि न तत्र लक्षणा संभवति - लक्षणाया: शक्यसंबन्धरूपत्वात् । विपक्षे बाधकमाह- अन्य - थेति, यदि सुविभक्तेरपि कचिदर्थे लक्षणा व्याकरणकर्तुरभीष्टा स्यात्तदा ऋजवः सन्तु पन्थाः " इत्यत्राऽऽदेशिभूतजस्स्मरणद्वाराऽऽदेशरूपसुबेकवचनाद् बहुत्वबोधनिर्वाहाय ' पन्थानः ' इत्यत्रत्यजतः स्थाने ' पन्थाः इत्यत्रत्यसुइत्येकवचनस्यादेशविधानं व्यर्थमेव स्यात्- 'चैत्रो मैत्रश्च गच्छतः ' इत्यादाविव ' ऋजवः सन्तु पन्थाः ' इत्यत्रापि सुबेकवचनस्य बहुत्वे लक्षणया बहुत्वार्थबोधकत्वसंभवात् व्याकरणकर्त्रा चात्र सुपां सु " इत्यादिसूत्रेण ' पन्थाः ' इत्येक
66
<<
-
"Aho Shrutgyanam"
17