________________
सख्यान्वयकारणम्
व्युत्पत्तिवादः ।
( २०३ )
इत्यादिसूत्रेण औजसोंदिस्थाने स्वाद्यादेशस्य वैयर्थ्यात् । चैत्रादिपदोत्तरेकवचनस्य द्वित्वादिलाक्षणिकत्वे तदप्रकृत्यर्थमैत्रादिसाधारणंद्वित्वादिबोधस्योक्तव्युत्पत्तिविरोधेनानुपपत्तेश्च ।
आख्यातार्थसंख्यान्वयबोधे च समानविशेष्यकतदर्थ भावनान्वयबुद्धिसामग्री अपेक्षिता - भावनाया बाधादिग्रहकाले तात्पर्यादिग्रहशून्यकाले चोक्तस्थले द्वित्वान्वयाऽबोधात् भावनाया अविशेष्ये धात्वर्थादौ संख्यान्वयाऽबोधाच्च ताहसामय्याः संख्यान्वयबुद्धित्वावच्छिन्नं प्रति स्वातन्त्र्येण हेतुता । तदकल्पनेपि आख्यातजन्यसंख्योपस्थितियोग्यताज्ञानविशेषादिघटितसामय्या भावनानवगा
>
वचनस्य जस्स्थाने आदेशविधानं कृतमितिज्ञायते - सुविभक्तेर्लक्षणा न भवतीति न ' चैत्रो मैत्रश्च गच्छतः ' इत्यादावपि सुबेकवचनस्य द्वित्वबहुत्वादी लक्षणासंभव इत्यर्थः । दोषान्तरमाहचैत्रादिपदोत्तरेति, अत्र यदि चैत्रपदोत्तरैकवचनस्य द्वित्वादी लक्षणा स्यात्तदा तादृशद्वित्वस्य तदप्रकृत्यर्थे-- चैत्रपदोत्तरैकवचनस्य प्रकृत्यर्थश्चैत्र एव न तु मैत्र इति चैत्रपदोत्तरेकवचनाऽप्रकृत्यर्थमैत्रादावन्वयो न संभवति-- उक्तव्युत्पत्तिविरोधेन " प्रत्ययानां स्वप्रकृत्यर्थान्वितस्वार्थarrera " इति व्युत्पत्तिविरोधात् । किं वा चैत्रपदोत्तरेकवचनार्थद्वित्वस्योद्देश्यतावच्छेदकव्याप्यपर्याप्तिसंबन्धेनैवान्वयः स्यात् चैत्रपदोत्तरैकवचनद्वित्वस्य च चैत्रत्वमेवोद्देश्यतावच्छेदकं संभवति चैत्रत्वव्याप्यपर्याप्तिसंबन्धेन च द्वित्वस्य चैत्रद्वये एवान्वयः संभवतीत्युक्तद्वित्वान्वयव्युत्पतिविरोधाद् न चैत्रमैत्रद्वयेऽन्वयबोध उपपद्यते इत्यर्थः । चैत्रमैत्रादिसकलपदोत्तरैकवचनानां द्विवादी लक्षणायामनेकद्वित्वादिबोधापत्तिरित्यपि विज्ञेयम् ।
आख्यातार्थसंख्यायाः कुत्रान्वयो भवतीति जिज्ञासायामाह - आख्यातार्थेति, आख्यातार्थ संख्याप्रकार कशाब्दबोधं प्रति समानविशेष्यक = आख्यातार्थसंख्याभावनयोर्यो विशेष्यस्तद्विशेष्यकतदर्थ ( आख्यातार्थ ) भावनाप्रकारकशाब्दबोधसामग्री अपेक्षिता भवति सा च सामग्री भावनाप्रकारकतात्पर्यज्ञानयोग्यताज्ञानादिघटिता ज्ञेया तथा च यत्राख्यातार्थ भावनाया अन्ययो भवति तत्रैवाख्यातार्थसंख्याया अन्ययो भवतीति प्राप्तम् । आख्यातार्थसंख्याप्रकार कशाब्दबोधं प्रत्याssपातार्थ भावना प्रकार कशाब्दबोधसामग्र्याः कारणत्वे हेतुमाह- भावनाया इति, यदि आख्यातार्थसंख्याप्रकार कशाब्दबोधं प्रत्याख्यातार्थभावनाप्रकारकान्वयबोधसामग्री कारणं न स्यात्तदा भावनाया बाधग्रहकालेपि तथा भावनाया:=भावनाविषयकतात्पर्यादिग्रहशून्यकालेपि उक्तस्थले= ' चैत्रो मैत्रश्च गच्छतः ' इत्यादिस्थले चैत्रादावाख्यातार्थसंख्याया अन्वयः स्यादेव न चैवं भवति, तथा भावनाया अविशेष्ये धात्वर्यादावप्याख्यातार्थसंख्याया अन्ययो न भवतीत्याऽऽख्यातार्थसंख्याप्रकार शाब्दबोधं प्रति तादृशसामन्या:- आख्यातार्थ भावना प्रकार कशाब्दबोधसामग्र्याः स्वातयेण= पृथगेव हेतुत्वमस्तीत्यर्थः । विपक्षे बाधकमाह - तदकल्पनेपीति, आख्यातार्थसंख्याप्रकारकशाब्दबोधं प्रति भावनाप्रकार कशाब्दबोधसामय्या हेतुत्वाकल्पनेप्याऽऽख्यातजन्यसंख्योपस्थिति -
"Aho Shrutgyanam"