________________
(२०४)
सादर्श:
[ प्रथमाकारकेहिसंख्यान्वयबोधस्य कदाप्यजननात्, संख्यान्वयबोधसाधारणभावनान्वयबोधत्वावच्छिन्नहेतनामपि तादृशसामग्रीघटकत्वेनापत्त्यभावात् ।
न च ताशकारणानां भावनान्वयबुद्धित्वं संख्यान्वयबुद्धित्वं वा जन्यतावच्छेदकमुपेयत इत्यत्र विनिगमनाविरहः- संख्यामविषयीकृत्यापि भावनान्वयबोधस्यानुभवसिद्धत्वात्, द्वितीयस्य जन्यतावच्छेदकत्वाऽसंभवादितिदिक् ।
योग्यताज्ञानादिघटितया आख्यातार्थसंख्याप्रकारकशाब्दबोधसामथ्या भावनानवगाही ( भावनामविषयीकृत्य ) संख्याप्रकारकशाब्दबोधः कदापि न जन्यते इति विवशमाऽऽख्यातार्थसंख्या. प्रकारकशाब्दबोधं प्रति भावनाप्रकारकशाब्दबोधसामग्र्या हेतुत्वं कल्प्यते. एवं च भावनाप्रकारकशाब्दबोधसामग्र्या एव भावनाप्रकारकशाब्दबोधप्रत्याख्यातार्थसंख्याप्रकारकशाब्दबोधं प्रति च कारणत्वाल्लाघवमपि भवतीत्यर्थः । ननु यदि भावनाप्रकारकशाब्दबोधसामन्या आख्यातार्थसंख्याप्रकारकशाब्दबोध प्रति स्वातन्त्र्येण हेतुत्वमस्ति तदा तादृशसामग्र्या भावनामविषयीकत्यापि भावनानवगाह्याख्यातार्थसंख्याप्रकारकशाब्दबोधः कथं न स्यादित्याशझ्याह- संख्यान्वयबोधेति, संख्याप्रकारकशाब्दबोधसामयां भावनाप्रकारकशाब्दबोधहेतूनामपि भावनाविषयकतात्पर्यज्ञानयोग्यताज्ञानादीनां घटकत्वेनसत्त्वेन आपत्त्यऽभावात् तादृशसामग्र्या भावनामविषयीकृत्य भावनानवगाहिकेवलसंख्याप्रकारकशाब्दबोधस्यापत्तिास्तीत्यर्थः । किं या "कदाप्यजननात् " इत्युके हेतुमाह-संख्यान्वयेति । अर्थस्तु स एव विज्ञेयः ।।
ननु तादृशकारणानाम् संख्यान्वयबोधसाधारणभावनान्वयबोधसामग्रीघटककारणानां भावनान्वयबुद्धिरेव जन्या न संख्यान्वयबुद्धिर्जन्येत्यत्र विनिगमनाविरहः अर्थाद् यद्येकव सामग्री संख्याप्रकारकबोधस्य भावनाप्रकारकबोधस्य च कारणं किं वा यदि भावनामविषयीकृत्य संख्याप्रकारकशाब्दबोधो न जायते तदाऽऽख्यातार्थसंख्याप्रकारकशाब्दबोधं प्रति भावनाप्रकारकशाब्दबोधसामग्रीकारणं न तु भावनाप्रकारकशाब्दबोधं प्रत्याख्यातार्थसंख्याप्रकारकशाब्दबोधसामग्रीकारणमित्यत्र विनिगमनाविरहः तथा च भावनाप्रकारकशाब्दबोधं प्रत्येवाख्यातार्थसंख्याप्रकारकशाब्दबोधसामग्री किं न कारणं स्थात् इत्याशङ्कयाह- न चेति । परिहारहेतुत्वेन विनिगमनामाहसंख्यामिति, भावनामविषयीकृत्य संख्याप्रकारकशाब्दबो यः कदापि न जायते संख्यामविषयीकृत्य तु 'चैत्रमैत्राभ्यां भूयते' इत्यादौ भावाख्यातेन भावनाप्रकारकबोधो जायते भावनाप्रकारकबोधस्य व्यापकत्वेन तत्सामग्र्या एव संख्याप्रकारकशाब्दबोधं प्रति हेतुत्वमुख्यते युक्तं चेत्यर्थः,न तु द्वितीयस्य संख्याप्रकारकशाब्दबोधत्वस्य जन्यतावच्छेदकत्वम् तादृशसामग्रीजन्यतावच्छेदकत्वं युक्तमित्याह- द्वितीयस्येति, संख्याप्रकारकशाब्दबोधसामग्र्यास्तु भावनाप्रकारकशाब्दबोधं प्रति कारणत्वं न युक्तमित्यर्थः । संख्यामविषयी कृत्यापि भावनाप्रकारकशाब्दबोधस्य जायमानत्वेन संख्याप्रकारकशाब्दबोधत्वस्य न्यूनवृत्तित्वाजन्यतानवच्छेदकत्वं विज्ञेयम् ।
"Aho Shrutgyanam"