________________
संख्यासंबन्धोपसंहारः] व्युत्पत्तिवादः।
(२०५ ___ अथ गुणादिवाचकपदोत्तरद्विवचनबहुवचनयोः कथं द्वित्वादिबोधकता ? सख्याया गुणत्वेन गुणादी बाधात् । न च तत्र स्वाश्रयसमवेतत्वादिसंबन्धन द्रव्यगतं द्वित्वादिकमेव भासते इति वाच्यम्, एकव्यक्तावपि तादृशसंबन्धेन द्वित्वादेः परिसमाप्ततया एकमात्रतात्पर्येणापिद्विवचनाद्यापत्तिारेतिचेत ?, मैवम्अपेक्षाबुद्धिविषयत्वमेव तदुत्तरद्विवचनादिना बोध्यते । तच्चैकमात्रवृत्तिधर्मस्थ प्रकृत्यर्थतावच्छेदकत्वस्थले प्रकृत्यर्थतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसंबन्धेन
ननु — रूपरसौ ' इत्यादौ गुणादिवाचकपदोत्तरवर्तमानद्विवचनबहुवचनयोत्विबहुत्वरूपसंख्याबोधकरवं कथं स्यात् संख्याया गुणत्वाद् गुणे गुणानङ्गीकाराचेत्याशङ्कते- अथेति । एक वचनस्य तु साधुत्वाथकत्वसंभवेन नैरर्थक्यमपि संभवति न तु द्विवचनबहुवचनयोः केवल साधुत्वार्थकत्वमित्येकवचनाशकां परित्यज्य द्विवचनबहुवचनविषयकमेवाशङ्कितम् । ननु स्वाश्रयसमवेतत्वसंबन्धेन स्वं द्वित्वादिस्तदाश्रयो घटादिस्तत्र समवेतत्वं गुणादावस्तीत्येतादृशसंबन्धेन द्रव्यगतमेव द्वित्वादिकं तत्र-गुणादौ भासते न तु गुणादौ वास्तवं गुणरूपं द्वित्वादिकं स्वीक्रियते इति न कोपि दोष इत्याशङ्क्याह-न चेति । परिहरति- एकव्यक्तावपीति, पर्याप्त्यादिसंबन्धेन द्वित्वस्यैकव्यक्तावऽसंभवेपि तादृशसंबन्धेनस्वाश्रयसमवेतत्वसंबन्धेन त्वेकरूपादिगुणव्यक्तावपि द्वित्वादेः परिसमाप्ततया-पर्याप्तिसंभवात् पर्याप्तत्वात एकमात्ररूपव्यक्तितात्पर्येणापि 'घटे रूपे' इत्येवं द्विवचनापत्तिः स्यादेवेति दोषः । तथास्मिन् मते 'घटे रूपरसौ । इत्यत्र रूपरसाश्रयीभूतघटे एव द्वित्वं नास्तीति कथं घटगतं द्वित्वं रूपरसयोर्भासतेत्यपिदोषः । न च रूपरसपदोसरद्विवचनार्थद्वित्वस्य घटेन्वयः घटेन्वितं च तदेव द्विरवं पुना रूपरसयोर्भासते इतिवाच्यम्, एकस्मिन् घटे द्वित्वान्वयासंभवादित्यवधेयम् । परिहरति-मैवमिति, 'अयमेको ऽयमेकः' इत्याकारकापेक्षाबुद्धेविषयत्वरूपमेव द्वित्वादिकं गुणादौ तदुत्तरद्विवचनादिना-गुणादिपदोत्तर द्विवचनादिना बोध्यन्न न तु संख्यारूपं द्वित्वादिकं येन द्विवचनाद्यर्थद्वित्वादेर्गुणादावन्वयो न स्यादित्यर्थः । तच्च अपेक्षाबुद्धिविषयत्वरूपं द्वित्वादिकम् एकमात्रवृत्तिधर्मस्य-रूपत्वादेः प्रकृत्यर्थतावच्छेदकत्वस्थले ' घटे रूपे रूपाणि ' इत्यादौ प्रकृत्यर्थतावच्छेदक ( रूपत्वादि) व्याप्यत्वविशिष्टपर्याप्तिसंबन्धेनान्वेतीति नैकरूपतात्पर्येणापि ' रूपे' इत्यादि द्विवचनापत्तिः तादृशसंबन्धेन रूपद्वये एव द्वित्वस्य संभवात् । अन्यत्र यत्रानेकवृत्तिधर्मस्य प्रकृत्यर्थतावच्छेदकत्वं यथा 'रूपरसौ ' इत्यत्राऽनेकवृत्तिरूपत्वरसत्वयोः प्रकृत्यर्थतावच्छेदकत्वमिति तत्र द्वित्वपर्याप्तौ रूपत्वव्याप्यत्वं वा रसत्वव्याप्यत्वं वा नास्त्येव-तादृशद्वित्वपर्याप्ते रूपत्वाभाववति रसे रंसेवाभाववति रूपे च सत्त्वादिति द्वित्वं शुद्धपर्याप्तिसंबन्धेन प्रकृत्यर्थेऽन्वेति, शुद्धपर्याप्तिसंबन्धेनापि द्वित्वस्य रूपरसयोरुभयोरेवान्वयसंभवात् पर्याप्तौ किंचिद्व्याप्यस्वविशेषणापेक्षा नास्ति । एकरूपव्यक्तावपि रूपरसोभयगतद्वित्वस्य शुद्धपर्याप्तिसंबन्धेनान्वयसंभवादेकरूपव्यक्तितात्पर्य
"Aho Shrutgyanam"