________________
आख्यातस्य संख्यार्थताचित्रादः ] व्युत्पत्तिवादः ।
( १८९ )
न्वयबोधजनकताया आख्यातस्याञ्युत्पन्नतया तादृशवाक्यादुभय विशेष्यकान्वयबोधाsसंभवात् ।
न चाकाङ्क्षायोग्यतादिसत्त्वात् कथं न तादृशान्वयबोध इतिवाच्यम्, अमत्यैकविधान्वयबोधेऽन्यविधान्वयबोधसामग्र्यास्तघटकतात्पर्यज्ञानस्य वा प्रतिब
न्धकत्वोपगमात्
।
८
न च ' चैत्रेण तण्डुलः पक्ष्यते ' चैत्रस्तण्डुलं पक्ष्यते ' इत्यादिवाक्यद्वय - विषयकसमूहालम्बनदशायामप्युभयविधान्वयबोधानुपपत्तिरिति वाच्यम्, ताह
शेकविधान्वयबोधे
तादृशान्यविधान्वयबोधपरत्वेनाऽगृह्यमाणतथाविधाख्यातध
स्वयमपि हेतुमाह-- कर्तरीति, कर्तरि साक्षात् समवायसंबन्धेन भावनाविशेषणकान्वयबोधं कर्मणि च दर्शितपरम्परया चैत्रनिष्टभावनाप्रयोज्यव्यापारजन्यफलशायिपरम्परया भावनाविशेषणकान्वयबोधं युगपत्= एककाले जनयितुमाख्यातस्य सामर्थ्यमेव नास्ति - एककाले एकमात्र विशेष्यकभावनाप्रकारकसंख्याप्रकार कत्रोधजननसमर्थत्वादित्येक का सादृशवाक्यात् = 'चैत्रः पक्ष्यते . तण्डुलः' इतिवाक्यात् कर्तृकर्मो भय विशेष्य कशाब्दबोधसंभवादित्यर्थः । तथा च कर्तृविशेष्यकशादबोधस्येष्टत्वे 'चैत्रः पक्ष्यते तण्डुलम् इत्येव स्यात् कर्मविशेष्यकशाब्दबोधस्येष्टत्वे च 'चैत्रेण पक्ष्यते तण्डुलः' इत्येव स्यादिति ।
ननु " यत्पदेन विना यस्याऽननुभावकता भवेत् आकाङ्क्षा " इति कर्तृविशेष्यकस्य कर्मविशेष्यकस्य च बोवस्य ' पक्ष्यते । इतिपदमाकाङ्क्षा सापि ' चैत्रः पक्ष्यते तण्डुलः इत्यत्रास्ति तथा कर्तृकर्मणोर्विशेष्यत्वस्य योग्यताप्यत्रास्त्येवेति कथं न तादृशान्वयबोध: - चैत्र"डुलोमयविशेष्यकभावनाप्रकारकसंख्या प्रकार कशाब्दबोधः स्यात् आकाङ्क्षायोग्यता दिज्ञानयैव शाब्दबोधकारणत्वात् कारणे सति कार्यावश्यभावादित्याशङ्कते न चेति । परिहरतिअगत्येति, एकेन वाक्येनैकविशेष्यकबोध एव जायते इति सिद्धस्य गतिश्चिन्तनीया " इतियानागत्या एकविधान्वयबोधे- एक विशेष्यकशाब्दबोधं प्रत्यऽन्यविशेष्यकशाब्दबोधसामग्र्या वा तादृशसामग्रीघटक तात्पर्यज्ञानस्य वा प्रतिबन्धकत्वं करूप्यते तथा च कर्मविशेष्यकसंख्यान्वयतात्पर्ये सति कर्तृविशेष्य कसंख्याप्रकार कशाब्दबोधस्यापत्तिर्नास्ति कर्तृविशेष्यकसंख्यान्वयत्तापर्ये च सति कर्मविशेष्यक संख्या प्रकार कशाब्दबोधस्थापत्तिर्नास्तीति नैककाले एकस्माद् वाक्यादुभय विशेष्यकशाब्दबोधापत्तिरित्यर्थः ।
<6
' चैत्र
ननु यद्युक्तरीत्या एकविशेष्यकशाब्दबोधं प्रत्यपर विशेष्यकशाब्दबोधस्य प्रतिबन्धकत्वादेककाले एकविशेष्यक एव शाब्दबोधो जायते नोमयविशेष्यकस्तदा ' चैत्रेण तण्डुलः पक्ष्यते ' स्तण्डुले पक्ष्यते ' इतिवाक्यद्वयेनापि समूहालम्बनात्मक चैत्र तण्डुलोमयविशेष्यकः शाब्दबोधो न स्यादेव इष्टश्चात्रोभयविशेष्यकः शाब्दबोध इत्याशङ्कते - न चेति । परिहरति- तादृशैक्रेति, तादृशेकविधान्वयबोधे= कर्तृकर्मणोर्मध्ये एकविशेष्यकाख्यातार्थप्रकारकशाब्दबोधं
प्रति ता
"Aho Shrutgyanam"