________________
(१८८)
सादर्शः
[प्रथमाकारकेतादृशसमभिव्याहारादिशून्यतया तद्विषयिताया अतादृशत्वात् । _ 'चैत्रः पक्ष्यते ' इत्यादितः तण्डुलः पक्ष्यते' इत्यादितश्च चैत्रतण्डुलादिविशेष्यकसंख्यान्वयबोधोत्पत्त्या 'चैत्रः पक्ष्यते तण्डुलः' इत्यत्रोभयविशेष्यकसंख्यान्वयबोधीपयिकतादृशसमभिव्याहारज्ञान विषयितायाः पक्ष्यते' इत्यादौ सत्त्वेन कर्तृकर्मणोस्तृतीयाद्वितीययोरप्रसक्तावपि न तादृशवाक्यं व्युत्पन्नाः प्रयुञ्जते- कर्तरि साक्षात् कर्मणि च दर्शितपरम्परया युगपद्भावनाविशेषणकातायाः । अताशत्वात् चैत्रादिविशेष्यकसंख्याप्रकारकबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकताऽनवच्छेदकत्वात् । तथा च 'चैत्रेण पच्यते । इत्यत्रोक्तजनकतावच्छेदकीभूतविषयिताया आत्मनेपदेऽनिरूपकत्वमेवोक्तरीत्यास्तीति न तृतीयानुपपत्ति:-शबादिविकरणोत्तराख्याते एवो. क्तविषयितानिरूपकत्वस्य संभवादित्यर्थः ।। ___ प्रसङ्गेनाह-चैत्र इति, 'चैत्रः पक्ष्यते ' इति कर्तरि लूटः प्रयोगः, अत्र प्रथमान्तचैत्रपदसममिव्याहृतं स्यविकरणोत्तरात्मनेपदाख्यातमस्तीति चैत्रविशेष्यकसंख्याप्रकारकबोधो जायते,
तण्डुलः पक्ष्यते । इति कर्मणि लुटः प्रयोग इतियविकरणोत्तराख्यातज्ञानेन कर्मविशेष्यकसंख्याप्रकारकबोधो जायते अत्र च प्रथमान्ततण्डुलपदसमभिव्याहृतं यविकरणोत्तरात्मनेपदाख्यातमस्तीति तण्डुलविशेष्यकसंख्याप्रकारकबोधो जायते तथा च पक्ष्यते ' इत्याकारकपदसमभिव्याहारे चैत्रविशेष्यकसंख्याप्रकारकबोधस्य तथा तण्डुलविशेष्यकसंख्याप्रकारकबोधस्य च योग्यतास्त्येवेत्युभयविशेष्यकसंख्याप्रकारकशाब्दबोधार्थम् — चैत्र पक्ष्यते तण्डुलः । इतिप्रयोगः स्थादेव-उभयविशेष्यकसंख्यान्वयबोधौपयिकं यत्समभिव्याहारज्ञानम् प्रथमान्तचैत्रतण्डुलपदसममिव्याहतपक्ष्यतेपदसमभिव्याहारज्ञानं तादृशसमभिन्याहारज्ञाननिष्ठाविषयिता निरूपकत्वसंबन्धेन तेइत्यात्मनेपदेऽत्र वर्तते एव विषयस्य ज्ञाननिष्ठविषयितानिरूपकत्वेन ज्ञाननिष्ठविषयिताया निरूपकत्वसंबन्धेन विषये सत्त्वादत्रोक्तसमभिव्याहारज्ञानं तेइत्यात्मनेपदविषयकमेवेति उक्तसमभिव्याहारज्ञाननिष्ठाविषयिता तेइत्यात्मनेपदे वर्तते तथा चात्राख्याते चैत्रविशेष्यकसंख्याप्रकारकशाब्दबोधजनकज्ञाननिष्ठजनकतावच्छेदिकीभूतविषयिताया निरूपकत्वमेवास्ति न तु तृतीयाप्रयोजकमनिरूपकत्वमिति न चैत्रपदादत्र तृतीयाप्रसक्तिः, तथा प्रथमान्ततण्डुलपदसमभिव्याहूतपक्ष्यतेपदज्ञानस्य तण्डुलविशेष्यकसंख्याप्रकारकशाब्दबोधजनकत्वादत्राख्याते तण्डुलविशेष्यकसंख्याप्रकारकशाब्दबोधजनकोक्तज्ञाननिष्ठ जनकतावच्छेदकीभूतविषयिताया अपि निरूपकत्वमेवास्ति न तु द्वितीयाप्रयोजकमनिरूपकत्वमिति न तण्डुलपदादत्र द्वितीयाप्रसक्तिः. इत्येवंरीत्योभयविशेष्यकसंख्यान्वयबोधार्थम् ' चैत्रः पक्ष्यते तण्डुलः । इतिप्रयोगस्य साधुत्वेपि प्राप्ते नैता. दृशवाक्यं व्युत्पन्नाः प्रयुञ्जते--- पक्ष्यते । इत्यस्य कर्तरि लूटः प्रयोगत्वे तण्डुलपदाद् द्वितीया स्यादेवेति प्रथमान्ततण्डुलपदस्यात्राऽसाधुत्वात. कर्मणि लुटः प्रयोगत्वे च चैत्रपदात्तृतीया स्यादेवेति प्रथमान्तचैत्रपदस्याऽसाधुत्वादित्यर्थः । 'चैत्रः पक्ष्यते तण्डुलः' इतिवाक्यस्याऽप्रयोगे
"Aho Shrutgyanam"