________________
आख्यातस्य संख्यार्थताविवादः ] व्युत्पत्तिवादः ।
(१८७ )
L न च चैत्रः पचत ' इत्यादी चैत्रविशेष्यकाख्यातार्थ संख्यान्वयबोधोत्पत्त्या चैत्रादिपदसमभिव्याहततादिपदज्ञानत्वेन तादृशान्वयबुद्धित्वावच्छिन्नegasadaति 'चैत्रेण पच्यते ' इत्यादिवाक्यघटकीभूततादिपदविषयितापि तादृश्येवेति वाच्यम्, 'चैत्रेण पवेत ' चैत्रः पच्यते ' इत्यादिवाक्याच्चैत्रादिविशेष्यकस्य भावनायाः संख्यायाश्चान्वयबोधस्यानुदयात् । तद्विशेष्यकतदुभयान्वयबोधे प्रथमान्त चैत्रादिपदसमभिव्याहृतशबादिविकरणोत्तरतत्तदाख्यातपदज्ञानत्वेन हेतुत्वात् ' चैत्रेण पच्यते तण्डुलः ' इत्यादिवाक्यघटकतादीनां जनकतायास्तेपदज्ञाननिष्ठा विषयिता अवच्छेदिका स्यादपि तथाच तादृशजनकतावच्छेदकीभूतविषयिताया निरूपकत्वमात्मनेपदे प्राप्नुयादित्यत्र तृतीयानुपपत्तिः स्यादपि न चैत्रमस्तीत्यर्थः ।
,
ननु ' चैत्रः पचते ' इत्यत्रात्मनेपदज्ञानेनापि चैत्र विशेष्यकाख्यातार्थ भूतसंख्याप्रकारकशादबोधो जायत एवेति चैत्रादिपदसमभिव्याहृततादिपद ( आत्मनेपद ) ज्ञानस्य तादृशान्वयबुद्धित्वावच्छिन्नहेतुता-चैत्रविशेष्य कसंख्या प्रकार कशाब्दबोधहेतुताऽस्त्येवेति 'चैत्रेण पच्यते ' इत्यादि -- वाक्यघटकीभूततादिपदविषयिता = इत्यादिवाक्यघटकात्मनेपद निष्ठविषयतानिरूपिता याऽऽत्मनेपदज्ञाननिष्ठा विषयिता सापि तादृश्येव - चैत्रविशेष्यकसंख्याप्रकार कशाब्दबुद्धित्वावच्छिन्न जन्यतानिरूपितजनकतावच्छेदिकैवेति तादृशजनकतावच्छेदकीभूतविषयिताया निरूपकत्वमेवात्रात्मनेपदे प्राप्तं नाऽनिरूपकत्वम्-उक्तशाब्दबोध जनकात्मनेपदज्ञाननिष्ठ विषयितायास्तद्विषयीभूतात्मनेपदनिरूपितत्वादेवेति ' चैत्रेण पच्यते ' इत्यत्र तृतीया न स्यादेवेत्याशङ्कते - न चेति । परिहरतिचैत्रेणेति । यदि चैत्रादिपदसमभिव्याहृतात्मनेपदज्ञानस्य चैत्रविशेष्यक संख्याप्रकारकशाब्दबोध 'वजनः कत्वं स्यात्तदा 'चैत्रेण पचते' 'चैत्रः पच्यते' इत्यादिवाक्यादपि चैत्रविशेष्यको भावनाप्रकारकःसंख्याप्रकारकश्च शाब्दबोधः स्यादेव - अत्रापि चैत्रपदसमभिव्याहृतात्मनेपदज्ञानस्य सत्त्वात्, न चैत्रं भवति तस्मान्न चैत्रविशेष्यकाख्यातार्थसंख्यामकारकशाब्दबोधं प्रति चैत्रपदसमभिव्याहृतात्मनेपदमात्रज्ञानस्य हेतुत्वं किं तु प्रथमान्तचैत्रपदसमभिव्याहृतं शबादिविकरणोत्तरं च यत् तत्तदाख्यातपदम् = आत्मनेपदं वा परस्मैपदं वा तज्ज्ञानस्य हेतुत्वमस्ति तथा च ' चैत्रः पचति ' ' चैत्रः पचते ' इत्यादावाख्यातस्य शत्रादिविकरणोत्तरत्वात् तादृशाख्यातज्ञानेन चैत्रविशेष्यकसंख्या प्रकार कशाब्दबोधो जायते, 'चैत्रेण पच्यते' इत्यत्र चात्मनेपदस्य यगुत्तरत्वेन शचादिविकरयोत्तरत्वाभावान्नैतादृशात्मनेपदज्ञानेन चैत्रविशेष्य कसंख्याप्रकारकशाब्दबोधो जायते इति नोकतादिपदविषयिता=आत्मनेपदज्ञाननिष्ठविषयितापि तादृशी चैत्र विशेष्य कसंख्याप्रकारकशाब्दबुद्वित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदिका येनात्र तृतीयानुपपत्तिः स्यादित्यर्थः, तद्विशेष्यकतदुभयान्वयबोधे = चैत्रादिकर्तृविशेष्यकभावनाप्रकारकसंख्या प्रकारक बोधे । स्वयमपि व्यतिरेकमाह - चैत्रेणेति । तादीनाम् = आत्मनेपदस्य । तादृशसमभिव्याहारादिशून्यतया = शबा दिविकरणसमभिव्याहारशून्यतया । तद्विषयिताया: ' चैत्रेण पच्यते इत्यत्रात्मनेपदज्ञाननिष्ठविषयि
"Aho Shrutgyanam"