________________
(१८६) सादर्श:
[प्रथमाकारकेदिवाक्यघटकतिबादिविषयिता चैत्रादिविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नज. न्यतानिरूपितजनकतावच्छेदिका- तादृशान्वयबुद्धित्वावच्छिन्नं प्रति चैत्रादिपदसमभिव्याहृततिवादिपदज्ञानस्य हेतुत्वात् । 'चैत्रेण पच्यते तण्डुलः ' इत्यादिवाक्यघटकतादिपदविषयितां च न तादृशी- चैत्रादिपदसमभिव्याहृतताह
शपदज्ञानत्वेन तादृशबुद्धित्वावच्छिन्नं प्रत्यहेतुत्वात् । 'चैत्रः पचति । इत्यत्र कर्तृविशेष्यकसंख्यान्वयबुद्धिः ( शाब्दबोधः ) तिबज्ञानेन जन्यते एतादृशबुद्धौ बुद्धित्वमप्यस्ति जन्यताप्यस्तीत्येतादृशबुद्धित्वावच्छिन्ना या एतादृशबुद्धिनिष्ठा जन्यता तादृशजन्यतानिरूपिता या तिबज्ञाननिष्ठा जनकता तादृशजनकतावच्छेदकं यद्विषयित्वं तिब्ज्ञाने जनकताया विषयित्वस्य च सत्त्वात् जनकताया अवच्छेदकं विषयित्वं जातं तादृशविषयित्वस्य निरूपकत्वं तित्रि वर्तते ज्ञानविषयस्यैव ज्ञानीयवियितानिरूपकत्वादिति अत्र चैतादृशतिज्ञानस्यैव कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधजनकत्वमस्तीति नात्र तृतीयायाः प्राप्तिः, एतादृशविषयित्वानिरूपकत्वं च ' चैत्रेण पच्यते । इत्यत्रात्मनेपदेऽस्त्येवेति तत्र कर्तृवाचकपदात् तृतीया प्राप्तेति न कोपि दोष इत्यर्थः । एतदेव स्वयमप्याह- चैत्र इत्यादिना, चैत्रः पचति । इत्यादिवाक्यवटकं यत् तिप्पदं ताशतिप्पदनिष्ठविषयतानिरूपिता या तिप्पदज्ञाननिष्ठा विषयिता साऽत्र चैत्रविशेष्यकसंख्यान्वयबुद्धि : संख्याप्रकारकबुद्धि ) त्यावच्छिन्नजन्यतानिरूपिता या तिप्पदज्ञाननिष्ठा जनकता तस्या अवच्छेदिकास्ति. एतादृशजनकतावच्छेदकोभूतविषयितायाश्चात्र तिबि निरूपकत्वमेवास्ति नाऽनिरूपकत्वमिति न चैत्रपदात्तृतीयापत्तिरित्यर्थः, उक्ततिबादिविषयिताया उक्तजनकतावच्छेदकत्वे हेतुमाह- तादृशेति, यतः- तादृशान्वयबुद्धित्वावच्छिन्नम् चैत्रविशेष्य-: कसंख्याप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति चैत्रादिपदसमभिव्याततिबादिपदज्ञानस्य हेतुत्वमस्ति. अतः उक्तशाब्दबोधजनकतिबादिविषयकज्ञाननिष्ठ जनकताया तिबादिज्ञाननिष्ठा विपयितात्रावच्छेदिका जातेत्यर्थः । चत्रेणेति- 'चत्रेण पच्यते तण्डुलः' इतिवाक्यघटकं यदात्मनेपदं ते इति पदं तनिष्ठविषयतानिरूपिता या तेपदविषयकज्ञाननिष्ठा विषयिता सा तु तादृशी-चैत्रविशेष्यकसंख्याप्रकारकशाब्दबुद्धित्वावच्छिन्नजन्यतानिरूपिता या तेपदज्ञाननिष्ठा जनकता तादृशजनकताया अवच्छेदिका न- अत्र चैत्रविशेष्यकसंख्याप्रकारकबोधस्याऽजायमानत्वेन तेपदज्ञाने चैत्रविशेष्यक: संख्याप्रकारकबोधजनकतैव नास्ति येन तेपदज्ञाननिष्ठा विषयिता जनकतावच्छेदिका स्यात्. तथा चोक्तजनकतावच्छेदकविषयिताया निरूपकत्वम् 'चैत्रः पचति । इतिवाक्यघटकतिवि वर्तते अनिरूपकत्वं च ' चैत्रेग पच्यते ' इतिवाक्यघटकात्मनेपदे वर्तते इत्यत्र चैत्रपदात्तृतीया प्राप्ता. अत्र तेपदज्ञानस्य कर्मविशेष्यकसंख्याप्रकारकशाब्दबोधजनकत्वादित्यर्थः । न तादृशीत्यत्र हेतुमाह- चैत्रादीति, ' चैत्रेण पच्यते । इत्यत्र चैत्रादिपदसमभिव्याहृततादृशपदज्ञानत्वेनचत्रपदसमभिव्याहृतात्मनेपदज्ञानस्य तादृशबुद्धिवावच्छिन्नम्:-चैत्रविशेष्यकसंख्याप्रकारकशान्दबुद्धित्वावच्छिन्नं प्रत्यऽहेतुत्वात् । यद्यत्र तेपदज्ञानस्य हेतुत्वं • स्यात्तदा तेपदज्ञाननिष्ठविवक्षित
"Aho Shrutgyanam"