________________
आख्यातस्य संख्यार्थताविवादः] व्युत्पत्तिवादः ।
( १८५) बोधस्वरूपयोग्यज्ञानविषयत्वाभावस्तदा यगादिसमभिव्याहतात्मनेपदादिज्ञानस्यापि तादृशबोधस्वरूपयोग्यत्वात् । तत्स्वरूपयोग्यज्ञानाविषयतिबाख्यातस्यैवाऽप्रसिद्ध।
अथ कादिविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविषयित्वानिरूपकत्वमेव तादृशबोधाननुकूलत्वम् ' चैत्रः पचति ' इत्याकबोधो न जनितस्तदा तद्योगे एतादृशतिब्योगे • चैत्र: पचति । इत्यत्र चैत्रपदाद् तृतीयापत्तिः स्यादेव- यतोत्र तिज्ञानेन चैत्रविशेष्यकसंख्याप्रकारकबोधो न जनित इति तिपश्चैत्रवि. शेष्यकसंख्याप्रकारकबोधाजनकज्ञानविषयत्वात् चैत्रविशेष्यकसंख्याप्रकारकबोधोपधायकज्ञानविषयत्वाभाववत्त्वमस्त्येव, शक्तिज्ञान विना बोधो न जायते इति तस्य सहकारित्वं तदुक्तम्-“शक्तिधीः सहकारिणी" इति । संख्याप्रकारकज्ञानं तिप्पदज्ञानेन जन्यते इति तिप्पदबामविषयत्वं विध तदुक्तम्- " पदज्ञानं तु करणम्" इति, 'चैत्रः पचति ' इत्यत्र उक्तसहकारिसत्त्वे तु चैत्रविशेष्यकसंख्याप्रकारकबोधस्तिज्ञानेन जन्यते इति तिपश्चैत्रविशेष्यकसंख्याप्रकारकबोधोपधायक
बोधरूपफलजनक ) ज्ञानविषयत्वं विज्ञेयम् । द्वितीयकरुपमाह- यदि चेति, तादृशबोधस्वरूपयोग्यज्ञानविषयत्वाभावः = कर्तृ विशेष्यकसंख्याप्रकारकबोधजननविषयकस्वरूपयोग्यताविशिष्टज्ञानविषयत्वाभाववत्त्वमेव यदि कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वं तदा यक्समभिव्याहतात्मनेपद ( ते ) ज्ञानस्यापि तादृशबोधस्वरूपयोग्यत्वात् कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधजननानुकूलस्वरूपयोग्यतालक्षणकारणताविशिष्टत्वाद् यक्सममिव्याहृतात्मनेपदस्य चैतादृशज्ञानविषयत्वादेवाऽत्मनेपदे तादृशबोधस्वरूपयोग्यज्ञानविषयत्वाभाववत्त्वस्य तृतीयाप्रयोजकस्याऽभानाद 'चैत्रेण पच्यते' इत्यत्रापि चैत्रपदात् तृतीया. न स्यादेपेत्यर्थः । संख्यामकारकशाब्दबोधजनकतावच्छेदकं हि एकवचनत्वं वा तित्वं वा वाच्यं तत्तु यक्समभिव्याहृतात्मनेपदेप्यस्त्येवेति तद्विषयकज्ञाने संख्याप्रकारकशाब्दबोधजननानुकूलस्वरूपयोग्यता त्वस्त्येव यमादिसमभिव्याहाररूपप्रतिबन्धकवशात् शाब्दबोधरूपं फलं न जन्यते इतिभावः । उक्ते हेतुमाह-- तत्स्वरूपेति,कादिविशेष्यकसंख्याप्रकारकशाब्दबोधजननानुकूलस्वरूपयोग्यता विशिष्टज्ञानाविषयस्तिबाख्यातमेव प्र. सिद्ध नास्ति येन तादृशबोधस्वरूपयोग्यज्ञानाविषयत्वं तृतीयाप्रयोजकं स्यादित्याक्षेपः । " ताहशबोधस्वरूपयोग्यत्वात् " इत्यस्याने ' चैत्रेण पच्यते इत्यादावपि तृतीया न स्यात् तण्डुलं पचवस्यादावपि द्वितीया न स्यात् ' इतिपाठशेषः । __ अथेति- ननु कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वं न उक्ततादृशबोधोपधायकज्ञानविषयत्वाभाववत्त्वं वा उक्ततादृशबोधस्वरूपयोग्यज्ञानविषयत्वाभाववत्त्वं वा येनोक्तरीत्या 'चैत्र: पचति । इत्यत्र तृतीयापत्तिः स्यात्तथा ' चैत्रेण पच्यते' इत्यत्र तृतीयानुपपत्तिः स्यात, किंतु तादृशबोधाननुकूलत्वम् कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वं हि कादिविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविषयित्वानिरूपकत्वमित्युच्यते. यथा
"Aho Shrutgyanam"