________________
( १८४ )
सादर्श:
[ प्रथमा कारके -
चैत्रः पचति तण्डुलम् इत्यादौ चैत्रादिः साक्षादेव भावनाविशेष्यः । चैत्रेण पच्यते तण्डुलः ' इत्यादौ तु परम्परया, चैत्रादिनिष्ठ भावनाजन्यफलशाली तण्डुल इत्याकारकबोधस्यैव तत्रोदयात् । तस्मात्तिवादेरपि संख्याबोधकत्वमावश्यकमिति ।
6
तन्न विचारसहम् - तथा हि कर्त्रादिनिष्ठसंख्यान्वयबोधान नुकूलत्वं यदि तादृशबोधोपधायकज्ञानविषयत्वाभाववत्त्वं तदा यादृशतिवादिज्ञानेन सहकार्य - न्तरविरहात् तादृशबोधो न जनितस्तयोगे तृतीयाद्यापत्तिः । यादे च तादृशएव भावनायाः संख्यायाश्चान्वयो जायते इति चैत्रेण पच्यते तण्डुलः इत्यत्र प्रथमान्ततण्डुलपोपस्थाप्यतण्डुलस्यैव विशेष्यत्वात् तत्रैव भावनायाः संख्यायाश्चान्वयो जायते इत्याख्यातेनात्र तण्डुलविशेष्यक संख्यान्वयबोधजननात् चैत्रविशेष्यकसंख्यान्वयबोधाऽजननाच्च चैत्रपदात् तृतीया प्राप्तेत्यर्थः । एवम् ' चैत्रः पचति तण्डुलम् ' इत्यत्र प्रथमान्त चैत्रपदोपस्थाप्यस्वात् चैत्रस्यैव विशेष्यत्वमिति तत्रैव भावनायाः संख्यायाश्चान्वय इत्यन्त्राख्यातेन चैत्रविशेष्यकसंख्यान्वयबोधजननात् तण्डुलविशेष्यकसंख्यान्वयबोधाऽजननाच्च तण्डुलपदाद् द्वितीया जीती ननु ' तण्डुलः पच्यते ' इत्यत्र तण्डुलस्य कथं भावनाविशेष्यत्वं येन तत्र संख्यान्वयः स्यादित्याशङ्कयाह - चैत्र इति, 'चैत्रः पचति ' इत्यत्र चैत्रत्य तु साक्षादेव भावनाविशेष्यत्यमस्ति - साक्षादेव भावनाश्रयत्वात्, ' चैत्रेण पच्यते तण्डुलः ' इत्यत्र तण्डुलस्य तु परपरये भावनाविशेष्यत्वम्- भावनायाः साक्षात्संबन्धेन चेतननिष्ठत्वनियमात् । तण्डुलस्य. परम्परया भावना विशेष्यत्वे शाब्दबोधस्वरूपमाह - चैत्रादीति, चैत्रनिष्ठभावनाजन्यफलशालित्वमेवात्र तण्डुलस्य भावनाविशेष्यत्वमस्तीत्यर्थः किं वा तण्डुलस्य स्वजन्यफलश भावनाश्रयत्वाद् भावनाविशेष्यत्वं विज्ञेयम्, स्वं भावना | उपसंहरति-तस्मादिति यस्मात्तिबादेः संख्यानभिधायकत्वे उक्तरीत्या तृतीयाद्वितीययोर्व्यवस्था नोपपद्यते तस्मात् तिबादेः =भाख्यातैकवचनस्यापि संख्याबोधकत्वमवश्यं स्वीकार्यमित्यर्थः ।
L
,
3
इ
•
7
यत्वित्यादिना प्रतिपादितं परिहरति- तन्नेति । कर्त्रादिनिष्ठसंख्यान्वयबोधाननुकूलत्वमितितृतीयाप्रयोजकं कर्तृविशेष्यक संख्या प्रकार कशाब्दबोधाननुकूलत्वं यदुक्तं तत् किं स्वरूपम् ? यदि तादृशबोधोपधायकज्ञानविषयत्वाभाववत्त्वम् = अर्थात् तादृशबोध: कर्तृ विशेष्यकसंख्याप्रकारकबोधः, तादृशबोधोपधायकम् कर्तृविशेष्यकसंख्याप्रकारक बोधरूपफलजनकं यज्ज्ञानं तिब्बि षयकज्ञानं तादृशज्ञानविषयत्वाभाववत्त्वमेव यदि कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वं सदा यथा ' चैत्रेण पच्यते ! इत्यत्र चैत्रविशेष्यकसंख्याप्रकार कत्रोधस्तिज्ञानेन न जन्यते इति चैत्रविशेष्यक संख्याप्रकारकबोधजनकज्ञानविषयत्वाभाववत्त्वं तिपोस्तीति चैत्रपदात् तृतीया भवति तथा यदा तिब्ज्ञानेन ' चैत्रः पचति ' इत्यत्र सहकार्यन्तरविरहात् = ' तिबेकवचनमेकत्वे शक्तम् ' इत्याकारकशक्तिज्ञानादिलक्षणसहकारिविरहात् तादृशबोध: - चैत्रविशेष्यक संख्याप्रकार
"Aho Shrutgyanam"