________________
ख्यातस्य संख्यार्थतावि० 1 व्युत्पत्तिवादः ।
( १८३ )
निरूपकत्वम् अपि तु तद्विशेष्य कसंख्याप्रकारकशाब्दबोधाऽननुकूलत्वमेव तथा च कर्त्रादिविशेष्यक संख्यान्वयबोधाजनकलकारादिसमभिव्याहृतकर्त्रादिवाचकपदात् तृतीयादयो भवन्तीत्यत्रैतदनुशासनतात्पर्यम् ।
$
चैत्रेण पच्यते ' तण्डुलः इत्यादी चैत्रादिविशेष्यकसंख्यान्वयबोधकत्वं नाख्यातस्य, आख्यातार्थभावनाया यत्रान्वय स्तद्विशेष्यक संख्यान्वयबोधस्यैवाख्यातेन जननात् तादृशभावनान्वयबोधे विशेष्यश्च प्रथमान्तपदोपस्थाप्य एव ।
कर्तृगतकर्मगतसंख्यानिष्ठवृत्तिनिरूपकत्व पेवास्तीति उक्तरूपाऽनिरूपकत्वरूपसंख्यानभिधानस्याख्यातेऽभावात् कर्तृपदात्तृतीया कर्मपदाद् द्वितीया च न स्यादेव भवति च तृतीया द्वितीयेति तद्गतसंख्यानभिधायकत्वं हि तद्विशेष्यकसंख्याप्रकार कशाब्दबोधाननुकूलत्वमेवेति ( शाब्दबोधाजनकत्वमेव ) उच्यते तथा च इतिसूत्रस्य ' कर्तृविशेष्यकसंख्याप्रकारकबोधाऽजनकलकारेण सह समभिव्याहृत कर्तृवाचकपदात् तृतीया भवति इत्यर्थस्तथा च ' चैत्रेण पच्यतेः' इत्यत्र लकारेण = लकारस्थानीयतिपा कर्तृविशेष्य कसंख्याप्रकारक - बोधो न जन्यते किं तु कर्मविशेष्यकसंख्याप्रकारक एवं बोधो जन्यते इत्येतादृशलकारसममिव्याहृत कर्तृवाचक चैत्रपदात्तृतीया भवति, एवम् " कर्मणि द्वितीया " इतिसूत्रस्य 'कर्मविशेष्यकसंख्याप्रकारकबोधाजनकलकारेण सह समभिव्याहृत कर्मवाचकपदाद् द्वितीया भवति इत्यर्थस्तथा च ' तण्डुलं पचति' इत्यत्र लकारेण = लकारस्थानीयतिपा ' कर्मविशेष्य कसंख्याप्रकारकबोधो न जन्यते किं तु कर्तृविशेष्य कसंख्याप्रकारक एव बोधो जन्यत इत्येतादृशलकारसमभिब्याहृतकर्मवाचकतण्डुलपदाद् द्वितीया भवतीति सर्वे समञ्जसं तस्मादाख्यातैकवचनस्यापि संख्यावाचकत्वं युक्तमेवेत्यर्थः । संख्यानिष्ठवृत्तीति यदुक्तं तत्र वृत्तेर्वाच्यनिष्टत्वं शक्तिवादेऽस्मदीतट्टीकायां वा द्रष्टव्यम् । किं चार्थविशेष्यकशक्तेराश्रयत्वसंबन्धेनार्थनिष्ठत्वं भवतीति तथात्रापि बोध्यम्, पदविशेष्यकशक्तेश्चार्थनिष्ठत्वं शक्तिवादोक्तपरम्परासंबन्धेन बोध्यम् । एतदनुशासनस्य = " कर्तृकरणयोस्तृतीया " कर्मणि द्वितीया " इत्यनुशासनद्वयस्य । 'कर्त्रादिविशेषषकसंख्यान्वयबोधाजन कलकारादिसमभिव्याहृत कर्तृवाचकपदात् तृतीया भवति' इत्यनेनानुशासनतात्पर्येण किं प्राप्तमित्याह- चैत्रेणेति, 'चैत्रेण पच्यते तण्डुलः' इत्यत्राख्यातस्य कर्मभूततण्डुलविशेष्यक संख्याप्रकारकान्वयबोधजनकत्वादेव कर्तृभूतचेत्रविशेष्यकसंख्या प्रकारकावयबोधजनकत्वं नास्तीत्यत्र कर्तृविशेष्यक संख्यान्वयबोधाऽजनकलकारेण सह चैत्रपदं सम• मिव्याहृतमस्तीति चैत्रपदात्तृतीया प्राप्ता । अत्राख्यातस्य चैत्रविशेष्यक संख्शन्वयाऽबोधकत्वे हेतु - माह - आख्यातार्थेति, आख्यातार्थ भावनाया यत्रान्वयो भवति तद्विशेष्यक संख्यान्वयबोध एवाख्यातेन जन्यते " भावनान्वयिनि संख्यान्वयः " इतिनियमात् तादृशभावनान्वयबोधे आख्यातार्थ भावनान्वयबोधे च प्रथमान्तपदोपस्थाप्य एवं विशेष्यो भवति तस्मात् प्रथमान्तपदोपस्थाप्ये
17
::
' कर्तृकरणयोस्तृतीया
"Aho Shrutgyanam"
39