________________
( १८२ )
सादर्श:
[ प्रथमाकारके - कर्मगत संख्याया अनभिधाने "कर्तृकरणयोस्तृतीया" इति " कर्मणि द्वितीया"" इतिसूत्राभ्यां तयोरनुशासनात् । नैयायिकमते लकारस्य कर्तृकर्माऽवाचकतया वंदनभिधानस्य द्वितीया तृतीयानियामकत्वासंभवात् ।
C
न च कर्त्रादिगतसंख्यानभिधानमेव कथं कर्त्रादिवाचकपदोत्तरतृतीयादिनियामकम् ' चैत्रेण पच्यते तण्डुलः ' इत्यादिस्थलोपे लकारस्य चैत्रादिगतसंख्याभिधायकत्वाद् एकत्वत्वादिना एकत्वादिसामान्य स्यैवैकवचनाद्यभिधेयत्वादिति वाच्यम्, यतस्तद्गतसंख्यानभिधायकत्वं प्रकृते न तद्गतसंख्यानिष्ठवृत्त्य - अनभिधाने=आख्यातवास्यसंख्यायाः : कर्मण्यऽनन्वये हि " कर्मणि द्वितीया " इतिसूत्रेण कर्मवाचकपदाद् द्वितीया भवति यथा- तण्डुलं पचति चैत्र: ' इति अत्राख्यातवाच्यसंख्यायाः कर्तृभूत चैत्रे एवान्त्रयो न तु कर्मभूततण्डुपीति तण्डुलपदाद् द्वितीया प्राप्ता. इत्येवं प्राप्ते यदि तिबादेः = भाख्यातैकवचनस्य संख्याभिधायकत्वं न स्यात्तदा ' चैत्रः पचति ' इत्यत्र कर्तृगतसंख्यानमिधानस्य तृतीयाप्रयोजकस्य सत्त्वात् चैत्रपदात्तृतीया प्राप्नुयात् न चात्र चैत्रपदात् तृतीया भवति ' चैत्रः पचति ' इत्यस्यैव साधुत्यात् 4 चैत्रेण पचति' इत्यस्याऽसाधुत्वाच्च, तथा चैत्रेण पच्यते तण्डुलः ' इत्यत्र कर्मगतसंख्यानभिधानस्य द्वितीयाप्रयोजकस्य सत्त्वात् तण्डुलपदाद् द्वितीया प्राप्नुयात् न चात्र तण्डुलपदाद् द्वितीया भवति तण्डुलः पच्यते इत्यस्यासाधुत्वादिति तित्रादेः संख्यावाचकव
इत्यस्यैव साधुत्वात्
५
'तण्डुलं प
L
"
स्वीकार्य तथा च ' चैत्रः पचति ' इत्मत्राख्यातस्य कर्तृगतसंख्यावाचकत्वान्न तृतीया
प्राप्ति:, ' तण्डुलः पच्यते ' इत्यत्र चाख्यातस्य कर्मगतसंख्यावाचकत्वान्न द्वितीयापत्तिरित्यर्थः ।
'
ननु कर्तृगतसंख्यानभिधानमपि न कर्तृवाचकपदात्तृतीयानियामकं तथा कर्मगत संख्यानभिधानं च न कर्मवाचकपदाद् द्वितीयानियामकं संभवति अन्यथा यथा ' चैत्रः पचति ' इत्यन्त्राख्यातस्य कर्तृगतसंख्याभिधायकत्वमस्ति तथा चैत्रेण पच्यते तण्डुलः ' इत्यत्राप्याख्यातस्य कर्तृगतसंख्याभिधायकत्वं स्यादेव - उभयत्राख्यातस्य समानरूपत्वेन विशेषाभावादिति ' चैत्रेण पच्यते ' इत्यत्राख्यातस्य कर्तृगतसंख्याभिधायकत्वे प्राप्ते चैत्रपदात् तृतीया न स्यात् - भवति चात्र कर्तृगतसंख्यानमिचानेऽसत्यपि तृतीयेति न कर्तृगतसंख्यानभिधानं तृतीयाप्रयोजकम्, तथा ' तण्डुलं पचति इत्यत्राख्यातस्य कर्मगतसंख्याभिधायकत्वात् कर्मगतसंख्यानमिधाने असत्यपि द्वितीया भवतीति न कर्मगतसंख्यानभिधानं द्वितीयाप्रयोजक मित्यभिप्रायेणाशङ्कते— न चेति । आख्यातस्य संख्याभिधायकत्वे हेतुमाह-- एकत्वत्वादिनेति, सामान्यरूपेणैकत्वस्यैकववनवाच्यत्वे प्राप्ते सुबे कवचनस्यैकत्ववाचकत्वमस्त्याऽऽख्यातैकवचनस्यैकत्ववाचकत्वं नास्तीत्यत्र नियामकाभावादित्यर्थः । परिहरति- यत इति, प्रकृते = तण्डुलं पचति 'चैत्रेण पच्यते # इत्यादौ तद्गत ( कर्तृकर्मगत ) संख्यानभिधायकत्वं न तद्गतसंख्यानिष्ठवृत्त्यनिरूपकत्वम् = संबम्यविशेषेण कर्तुकर्मगत संख्या निष्ठा या वृत्तिः = शक्तिस्तदऽनिरूपकत्वं यत आख्यातैकवचनस्य
"Aho Shrutgyanam"
·