________________
आख्यातस्य संख्यार्थतावि० ] व्युत्पत्तिवादः । सति घटादिपदोत्तरसुपदत्वादिरूपानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानघटितायां घटादावेकत्वान्वयबोधस्य सामग्र्यां सुपदत्वादिप्रकारकधीजन्योपस्थितरेवान्तर्भावात तादृशापत्तेरनवकाशात् । एवं च तिबादिपदत्वमकारकज्ञानजन्योपस्थितित्वेन तच्छाब्दबोधहेतुत्वे मानाभाव इति । ___ यत्तु तिवादेः संख्यानभिधायकत्वे 'चैत्रः पचति तण्डुलम् ' ' चैत्रेण
पच्यते तण्डुलः ' इत्यादौ कर्तृकर्मवाचकपदात् तृतीयाद्वितीययोरापत्तिः- कर्तृमित्याकारकं शक्तिज्ञानं तादृशशक्तिज्ञानजन्या या एकत्वोपस्थितिस्तादशोपस्थितित्वेनैव रूपेणैकत्योपस्थितेरेकत्वप्रकारकशाब्दबोधं प्रति हेतुता संभवति अर्थात् स्वन्तघटपदोपस्थितघटविशेष्यकैकत्वप्रकारकबोधं प्रति सुपदज्ञानजन्यैकत्वोपस्थितेरेव हेतुतास्ति स्वन्तघटपदोपस्थितघटे सुपदोपस्थितस्यैवैकत्वस्यान्वयस्वीकारात्, तथा सति तथा च घटादौ-स्वन्तघटपदोपस्थितघटे एकत्वान्वयबोधस्य या घटादिपदोत्तरसुपदत्वादिरूपानुपूर्वी विशेषरूपाकाङ्क्षाज्ञानवटिता सामग्री शाब्दबोधसामग्री तस्या सुपदत्वादिप्रकारकधीजन्यैकत्वोपस्थितेरैवान्तर्भावात्= स्वन्तघटपदोपस्थितघटविशेष्यकैकत्वप्रकारकशाब्दबोधं प्रति सुपदज्ञानजन्यकल्लोपस्थितेः कारणत्वमित्येवं कार्यकारणभावस्वीकारात् स्वन्तघटपदोपस्थितघटे सुपदोपस्थितैकत्वस्यैवान्वयो भविष्यति न त्वऽम्पदोपस्थितैकत्वस्यापीति न तादृशापत्तेः सुपदप्रकृतिघटादिपदोपस्थाप्यघटादौ पटादिपदोत्तराऽमादिपदोपस्थाप्यकत्वाद्यन्वयबोधापत्तेरवकाश इत्यर्थः । एवमिति- यदा हि स्वन्तघटपदोपस्थितघटे सुपदोपस्थितैकत्वस्यैवान्चयो भवतीति नियम; स्वीकृतस्तदा यथा स्वन्तधटपदोपस्थित. घटे अम्पदोपस्थितकत्वस्यान्वयो न भवत्येवमाऽऽख्यातैकवचनोपस्थितैकत्वस्याप्यन्चयो न भवतीति तिबादि ( आख्यात ) पदत्वप्रकारकज्ञान ( शक्तिज्ञान) जन्योपस्थितित्वेन रूपेणैक-स्वोपस्थितेस्तच्छाब्दबोधहेतुत्वे एकत्वप्रकारकशाब्दबोधहेतुत्वे प्रमाण नास्त्येव, तथा चाख्यातेकवचनस्यैकवचनत्वेन रूपेणकत्वे शक्तिस्वीकारेप्याख्यातेकवचनोपस्थितेकत्वस्थ घटादावन्वयो न भवतीत्याख्यातेकवचनस्य निरर्थकत्वमेव प्राप्तम्- आख्यातेकवचनोपस्थितैकत्वस्योपयोगाभावादित्यर्थः ।
यत्त्विति- आख्यातेकवचनस्य यद्येकत्वसंख्याभिधायकत्वं ( वाचकत्वम् ) न स्यात्तदा नैयायिकमते लकारस्य कर्तृकर्मवाचकत्वमपि नास्ति येन तदनभिधानस्य कऽनभिधानस्य कर्तृबाचकपदात् तृतीयानियामकत्वं स्याद् यथा-" चैत्रेण पच्यते । इत्यत्र तथा कर्मानभिधानस्य कर्मवाचकपदाद् द्वितीयानियामकत्वं स्याद् यथा-' तण्डुलं पचति । इत्यत्र, किं तु नैयायिकमते कर्तृकर्मगतसंख्यानभिधानस्यैव तृतीयाद्वितीयानियामकत्वमस्तीति कर्तृगतसंख्याया अनभिधान-आख्यातवाच्यसंख्यायाः कर्तरि अनन्वये हि " कर्तृकरणयोस्तृतीया " इतिसूत्रेण कर्तृवाचकपदात्तृतीया भवति यथा- 'चैत्रेण पच्यते तण्डुलः ' इति अत्राख्यातवाच्यसंख्यायाः कर्मभूततण्डुले एवान्वयो न तु कर्तृभूतचैत्रेपीति चैत्रपदात्तृतीया प्राप्ता, एवं कर्मगतसंख्याया
"Aho Shrutgyanam"