________________
सादर्श:
[ प्रथमाकारकेइत्यादौ सुबेकवचनादेव संख्याबोधसंभवात् 'चैत्रेण दृष्टो घटः' इत्यादिस्थलानुरोधेन तस्य तद्बोधकताया आवश्यकत्वात् । न चैकवचनत्वेनाऽनुगतेनैकत्वशक्तत्वात् तिडेकवचनस्याप्येकत्ववाचकत्वमक्षतमिति वाच्यम्, एकवचनत्वस्यैकत्वशक्ततावच्छेदकतायाः प्रागेव निराकृतत्वात् ।
अस्तु वा तेन रूपेण तिडेकवचनस्याप्येकत्वे शक्तिस्तथापि तज्जन्यैकत्वोपस्थितेः शाब्दबोधोपयोगित्वे मानाभाव:- न हि सामान्यत एकवचनज्ञानजन्योपस्थितित्वेन तच्छाब्दबोधहेतुता संभवति तथा सत्येकत्वेऽगृहीतसुपदवृत्तिकस्य पुंस: सुपदप्रकृतिघटादिपदोपस्थाप्यघटादो पटादिपदोत्तराऽमादिपदोपस्थाप्यैकत्वाद्यन्वयबोधप्रसङ्गात्, किं तु सुपदत्वादिप्रकारकज्ञानजन्यतदुपस्थितित्वादिनैव तथा घटपदोत्तरप्रथमैकवचनस्य वा स्वीकर्तव्यमिति संशये ' चैत्रेण दृष्टो घटः ' इत्यत्राख्यातं तु नास्त्येव यस्य घटविशेषणीभूतैकत्वोपस्थापकत्वं स्यादिति तस्य-सुबेकवचनस्य ( प्रथमैकवचनस्य ) तद्बोधकताया:एकत्वसंख्याबोधकताया आवश्यकत्वात् “घटोस्ति । इत्यत्रापि सुबेकवचनस्यैवैकत्वबोधकत्वं युक्तं न त्वाख्यातैकवचनस्येत्यर्थः । 'चैत्रो मैत्रश्च गच्छतः' इत्यत्र चैत्रमैत्रयोविशेषणीभूतद्वित्वोपस्थापकं सुद्विवचनं तु नास्तीत्यत्राख्यातद्विचनस्यैव द्वित्वोपस्थापकत्वा. त्सार्थक्यमेव तथा 'चैत्रो मैत्रो देवदत्तश्च गच्छन्ति' इत्यत्राख्यातबहुवचनस्यैव बहुत्वोपस्थापकत्वात्सार्थक्यमेवेत्याऽऽख्यातेकवचनस्यैव संख्यार्थकत्वे विवादो न तु द्विवचनबहुवचनयोरितिभावः । ननु वाचकत्वं हि शक्त्यधीनमस्ति शक्तिश्च वाच्यवाचकयोरनुगतरूपाधीनास्ति यथा घटस्य घटत्वरूपेण वाच्यत्वं घटपदस्थ च घटपदत्वेन रूपेण वाचकत्वं तथाऽऽख्यातैकवचनस्याप्यऽनुगतेनैकवचनत्वरूपेणैकत्वे शक्तत्वं संभवतीति कथं नैकत्ववाचकत्वं स्यादित्याशङ्कयाह-न चेति । परिहरति- एकवचनत्वस्येति, एकवचनत्वस्य निरूपयितुमशक्यत्वादेव शक्ततावच्छेदकत्वं प्रागेव= ( पृ० १२३)" एकवचनत्वादेर्वचत्वात् " इत्यादिना निराकृतम्, नथा चाव्यातैकवचनं निरर्थकमेवेत्यर्थः ।। __ अभ्युपगम्याह- अस्तु वेति, तेन रूपेण एकवचनत्वेन रूपेणाख्यातेकवचनस्यैकत्वे शक्तिसत्त्वेपि तजन्यैकत्वोपस्थितेः आख्यातैकवचन ज्ञानजन्येकत्वोपस्थितेरेकत्वप्रकारककादिविशेष्यकशाब्दबोधोपयोगिन्वं न संभवतीत्यन्धयः । उक्तमुपपादयति- न हीति, यदि सामान्यत एकवचनज्ञानजन्यैकत्योपस्थितेस्तच्छाब्दबोधहेतुता एकत्वप्रकारकशाब्दबोधहेतुत्वं स्यात्तदा येन पुरुषेण सुपदस्यैकत्वे शक्तिर्न गृहीता तस्य 'घटोस्ति । 'पटं पश्य , इत्याकारकवाक्यद्वयश्रवणकाले धटपदोपस्थापितघटे पटपदोत्तराऽम्पंदोपस्थाप्यैकत्वस्याप्यन्वयबोधः स्यादेव- एकत्वोपस्थितेरेकवचनज्ञानजन्यत्वात्- अम्पदस्याप्येकवचनत्वात् , न चैवं पटपदोत्तराऽम्पदोपस्थितैकत्वस्य घटेऽन्वयो भवति किं तु · घटोस्ति । इत्यादौ स्वन्तघटपदोपस्थितघटे सुपदत्वादिप्रकारकज्ञानजन्यतदुपस्थितत्वादिनैव नाम सुपदत्वप्रकारकम् सुपदविषयकं यद् एकत्वं सुपदवाच्य
"Aho Shrutgyanam'