________________
ख्यातस्य संख्यार्थतावि ० ] व्युत्पत्तिवादः ।
( १७९ )
अथाऽजहत्स्वार्थ लक्षणया गुणादिसाधारणधर्मावच्छिन्न एव प्रकृत्यर्थं इति चेत्, तर्हि बहुत्वेन भासमानेषु गुणादिष्वपि पदार्थान्तरान्वयः स्यात् तथा च 'आपो द्रव्याणि ' ' द्वारा अत्र गृहे सन्ति' इत्यादिवाक्यानामप्रमाणतापत्तिः- गुणादिषु द्रव्याभेदगृहवृत्तितादेर्बाधात् मुख्यार्थमात्रपरताहशशब्दानां बहुवचनान्ततानुपपत्तिश्चेति न किंचिदेतत् । अवादिपदार्थे एकत्वद्वित्वान्वय योग्यतासत्त्वेऽप्यसाधुत्वादेव तदुत्तरमेकवचनं न प्रयुज्यते इतिध्येयम् ।
6
6
आख्यातैकवचनस्य संख्यार्थकत्वे विवदन्ते निष्कर्षानुसारिणः- ' वटोस्ति' न्वये न काचिदनुपपत्तिरिति न प्रथमाबहुवचनं निरर्थकमित्याशङ्कते - अथेति । परिहरतितति, एवं हि ' अनेकवृत्तिसंख्याया यावत्स्वन्वयो भवति तावत्स्यैव पदार्थान्तरस्यान्वयो भवति यथा अत्र वटौ स्तः' इत्यत्र द्वित्वाधिकरणघटद्वये एवैतदेशवृत्तित्वस्यान्वयो भवति इति पूर्वोक्त १५८ ) नियमेनात्रापि आशे द्रव्याणि इत्यत्र बहुत्वेन भासमानेषु बहुत्याधिकरणत्वेन भासमानेषु जलीयगुणेष्वपि द्रव्याभेदरूपपदार्थान्तरस्यान्वयः स्याद् न च द्रव्यगुणयोरभेदः संभवतीति जलगुणेषु द्रव्याभेदस्य बाधात् = बाधितत्वात् बाधितार्थप्रतिपादकत्वात् ' आपो द्रव्याणि इत्यस्याप्रामाण्यं स्यात् एवम्- दारा अत्र गृहे सन्तिं ' इत्यत्रापि बहुत्वाधिकरणत्वेन भासमानेषु दारगुणेष्वप्येतद्गृहवृत्तित्वरूपपदार्थान्तरस्यान्वयः स्यात् न च दारगुणेष्वेतद्गृहवृत्तित्वमस्तीति गृहवृत्तितादेर्बाधाद् बाधितार्थप्रतिपादकत्वात् ' दारा अत्र गृहे सन्ति ' इतिवाक्यस्याऽप्रामाण्यं स्याद् न च ' आपो द्रव्याणि दारा अत्र गृहे सन्ति इत्यादिवाक्यानामप्रामाण्यमिष्टमिति नात्र गुणादिसाधारणधर्माबल्छिन्नः प्रकृत्यर्थः किं तु जलत्वावच्छिन्नो दारत्वावच्छिन्नश्चेत्येकजलव्यक्तौ बहुत्वान्वयासंभवात् 'आपः ' इत्यत्र बहुवचनं निरर्थकमेवेत्यर्थः । एवम् ' दारा: ' इत्यत्रापि बोध्यम् । दोषान्तरमाह - मुख्यार्थेति, यदि 'आप' इत्यत्र बहुवचनार्थबहुत्वस्य गुणादिसाधारण्येनैवान्वयः स्यात्तदा गुणादिसहितजलबोधनतात्पर्ये सति बहुवचनोपपत्तावपि केवलजलमात्रप्रतिपादनतात्पर्ये सति मुख्यार्थपराणाम् = जलादिमात्रार्थप्रतिपादकानां तादृशशब्दानाम् = अबादिशब्दानां बहुवचनान्तत्वं नोपपद्येत - बहुत्वाश्रयीभूतजलीयगुणेषु तदानीं तात्पर्याभावादिति नेदं मतं शोभन मित्यर्थः । सिद्धान्तमाह- अबादीति, एकजलव्यक्तावेकत्वस्य जलव्यक्तिद्वये द्वित्वस्य चान्वययोग्यतायाः सत्त्वेनाऽबादिशब्दोत्तरमेकवचन द्विवचनयोः प्रयोगे यद्यप्यनुपपत्तिर्नास्ति तथापि असाधुत्वात् तदुत्तरम् - अबादिशब्दोत्तरमेकवचनं द्विवचनं च न प्रयुज्यते किं तु बहुवचनमेत्र, एवं दारपदेपि बोध्यम् । तथा चानुशासनम् - "आपः स्त्री भूम्नि" इति "भूम्नि दाराः" इति च ।
最
"
आख्यातेति निष्कर्ष:- सिद्धान्तः । घटोस्ति ' इत्यत्रैकत्वविशिष्टघटस्य बोधो भवतीति घ एकान्यार्थमेकत्वोपस्थितेरपेक्षास्तीत्येकत्वसंख्यार्थ कत्वमाख्यातैकवचनस्य वा स्वीकर्तव्यं
"Aho Shrutgyanam"