________________
उक्तप्राचीननवीनमतयोःसमीक्षा ] व्युत्पत्तिवादः ।
( २२७) न गुणं गच्छति' इत्यादिवाक्यस्योभयमत एवाप्रमाणत्वात् । अस्तु वा तत्राभावस्य द्विधाभानोपगमेन गुणाभाववतुफलानुकूलस्पन्दाश्रयत्वाभाववान् गुण इत्याकारक एवान्वयबोधः।
परे तु वृत्त्यनियामकसंबन्धस्याऽभावप्रतियोगितानवच्छेदकत्वे तु नव्यमतेपि द्रव्यं गच्छति नाभावम् ' इत्यादी गतिविरहः, तथा हि- समवायसंबन्धावच्छिनाधेयतैव द्वितीयार्थों वाच्यः, अन्यथा कालिकादिसंबन्धावच्छिन्नग्रामादिवृत्ति
दिसंबन्धेन गुणे गुणवृत्तित्वविरोधाभावादनाधेयतासंबन्धेन संयोगे गुणाभावो नानुपपन्नः, पूर्वत्र तु द्वितीयार्थसंयोगस्य गुणे समवायेनैव वृत्तित्वं वक्तव्यं तत्तु न संभवतीति "गुणादिनिष्ठस्य संयोगादिरूपफलस्याप्रसिद्धया" इत्यनेन शाब्दबोधानुपपत्तिः प्रदर्शितेतिभावः । ननु 'द्रव्यं गच्छति न गुणम् । इत्यत्राधेयत्वसंबन्धावच्छिन्नप्रतियोगिताकगुणाभाववत्संयोगजनकगमनव्यापारस्य चत्रे संभवेन शाब्दबोधे उपपन्नेपि प्राचीनमते 'गुणो न गुणं गच्छति । इत्यत्र तु शाब्दबोधानुपपत्तिरस्त्येव यतोत्रोक्तरीत्या 'आधेयत्वसंबन्धावच्छिन्नप्रतियोगिताकगुणाभाववत्संयोगजनकगमनव्यापारवान् गुणः' इत्येव शाब्दबोधो वक्तव्यः स च न संभवति गुणे व्यापाराऽसंभवात् "गुणादिनिर्गुणक्रियः " इतिसिद्धान्तादित्याशङ्क्याह- 'गुणो न गुणं गच्छति । इत्यादिवाक्यस्येति, एतद्वाक्यार्थस्य बाधितत्वादेतद्वाक्यस्याऽप्रामाण्यमेव- नवीनमतेनाप्यत्रान्वयबोधोपपत्तरसंभवादित्यर्थः । पक्षान्तरमाह-- अस्तु चेति, तत्र='गुणो न गुणं गच्छति ' इत्यत्र नत्रर्थाभावस्य द्विधा=द्विवारं मानोपगमेन ' आधेयत्वसंबन्धेन गुणाभाववद्यत्संयोगरूपं फलं तदनुकूलव्यापाराश्रयत्वाभाववान् गुणः ' इत्याकारकशाब्दबोधसंभवात् , गुणे व्यापाराश्रयत्वाभाषस्याऽबाधादित्यर्थः । एकस्यैव च नोत्र गुणाभावबोधकत्वं स्पन्दाश्रयत्वाभावबोधकत्वं चेति नज
मावस्य द्विधा भानं जातम् ।। - नवीनमते दोषमाह- परे विति, वृत्त्यनियामकस्य जनकत्वादिसंबन्धस्याभावीयप्रतियोगितावच्छेदकत्वास्वीकारे तु नव्यमतेपि 'द्रव्यं गच्छति नाभावम् ' इत्यत्रान्वयबोधानुपपत्तिरेव । गतिविरहमुपपादयति-तथा हीति, नव्यमतेप्याधेयता समवायसंबन्धावच्छिन्नेव द्वितीयार्थ इति स्वीकार्य यथा ' ग्रामं गच्छति' इत्यत्र संयोगस्य समवायेन ग्रामवृत्तित्वात्ताशसंयोगे ग्रामनिरूपिताऽऽधेयताप्यस्ति प्रामानुयोगिकः समवायोप्यस्त्येवेति संयोगरूपफलनिष्ठाऽऽधेयता समवायसंबन्धावच्छिन्नास्ति । विपक्षे बाधकमाह- श्रन्यथेति, यदि समवायातिरिक्तकालिकादिसंबन्धावच्छिनाप्याधेयता द्वितीयार्थः स्यात्तदा ग्रामं त्यजत्यपि चैत्रे ग्रामत्यागकाले समवायेन चत्रसंयोगस्य ग्रामाऽवृत्तित्वेपि कालिकसंबन्धेन ग्रामे संभवादेव तादृशं कालिकसंबन्धावच्छिन्नग्रामवृत्तिसंयोगमादाय 'मामं गच्छति चैत्रः । इतिप्रयोगापत्तिरूपोतिप्रसङ्गः स्यादेव तन्निवारणार्थ समवायसंबन्धावच्छिन्नाऽऽधेयता द्वितीयार्थ इतिवक्तव्यं तथा च ग्रामत्यागकाले समवायेन चैत्रसंयोगस्य ग्रामेऽसंभवात् कालिकसंबन्धावच्छिन्नप्रामवृत्तिसंयोगवृत्त्याधेयतायाः कालिकसंबन्धावच्छिन्नत्वेन सम
"Aho Shrutgyanam"