________________
(२२८)
सादर्श:- [द्वितीयाकारकप्रथमखण्डेसंयोगादिकमादायातिप्रसङ्गात्, तथा चाभावादिनिरूपिततथाविधाधेयत्वाद्यऽप्रसिद्ध्या तदभावबोधासंभवः । निरूपितत्वसंबन्धस्य च वृत्त्यनियामकतया समवायसंबन्धावच्छिन्नाधेयतायां तत्संबन्धावच्छिन्नप्रतियोगिताकप्रकृत्यर्थाभावबो. धो न संभवत्येवेत्याहुरिति । . अत्रोच्यते- वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वे आधेयत्वं वायसंबन्धावच्छिन्नत्वाभावात् समवायानच्छिन्नाधेयताया द्वितीयार्थत्वाभावाच 'ग्रामं गच्छति । इति प्रयोगापत्तिर्नास्येव, एवं स्थिते ' द्रव्यं गच्छति नाभावम् । इत्यत्राप्यभावपदोत्तरद्वितीयार्थः समवायावच्छिन्नैत्राधेयतेति वक्तव्य तत्र यदि कोपि पदार्थोऽभावे समवायसंबन्धेन स्यात्तदा तस्मि• मभावानुयोगिकप्तमवायस्य सत्त्वेन तन्निष्टा साऽभावनिरूपिताऽऽधेयता समवायसंबन्धावच्छिन्ना स्यादपि न चैवमस्ति- अभावे कस्यापि समवायेन वृत्तित्वाभावादिति अभावनिरूपितस्य तथाविधाधेयत्वस्य समवायसंबन्धाच्छन्नाधेयत्वस्याऽप्रसिद्ध्या तदभावबोधासंभवः अभावनिरूपितस्य समवायावच्छिन्नाधेयत्वस्य नाऽभावबोधासंभवः अप्रसिद्धप्रतियोगिकाभावबोधस्यास्त्री कारादि. त्याह- तथा चेति । ननु · द्रव्यं गच्छति नामावम् ' इत्यत्र नाभावनिरूपितायाः समवायसंब. न्धावच्छिन्नाधेयतायाः फलेऽभाव उच्यते येन तादृश.धेयताया अप्रसिद्धत्वात्तदभावबोधासंभवः स्थात् , किं तु समवायसंबन्धावच्छिन्नाधेयतायाम् ' अभावम् ' इति प्रकृत्यर्थाभावस्य निरूपित. त्वसंबन्धेनाऽभावान्वयबोध उच्यते इति नामावबोधासंभव:-अभावपदोत्तर द्वितीयाांधेयताया अभावनिरूपितत्वेन तस्यां निरूपितत्वसंबन्धेनाभावस्थाऽभावाभावस्य चान्वयेऽनुपपत्त्यभावादित्याशङ्कयाह- निरूपितत्वेति, स्यादेवं यदि नव्यमते वृत्त्यनियामकसंबन्धस्याप्यभावीयप्रतियोगितावच्छेदकत्वं स्यात्, न विमस्ति, तथा च निरूपितत्वसंबन्धस्य वृत्त्यनियामकतया समवायसंबन्धावच्छिन्नाधेयतयां तत्संबन्धावच्छिन्न प्रतियोगिताकस्य निरूपितत्वसंबन्धावच्छिन्न प्रतियोगिताकस्य (निरूपितत्वसंबन्धेनेतियावत् ) प्रकृयर्थाभावस्य अभावाभावस्यान्वयबोधोपि नेवान संभवतीत्यर्थः । यदि तु वृत्त्यनियामकसंबन्धस्याभावीयप्रतियोगितावच्छेदकत्वं स्वीकृतं स्यासदा त्वत्र वृत्त्यनियामकस्यापि निरूपितत्वसंबन्धस्याभावप्रतियोगितावच्छेदकत्वे प्राते अभावनिरूपुतायां समवायसंबन्धावच्छिन्नाधेयतायां तेन निरूपितत्वसंबन्धेनापि प्रकृत्यर्थाभावस्य-अमारापावस्य बोधः स्यादेव तत्र-निरूपितत्वसंबन्धावच्छिन्न प्रतियोगिताकामावाभावविशिष्टाधेयता विशिष्टसंयोगजनकगमनव्यापारवांऔर इति च बोधाकारः, एतादृशसंयोगजनकगमनन्यापारश्चात्र द्रव्यकर्मकगमनव्यापार एव भवतीति ध्येयम् ।। ___ अत्रोच्यते इति, वृत्त्यनियामकसंबन्धास्याभावीयप्रतियोगितानवच्छेदकरवे हि (२२४ पृ.) अथेत्यादिनोक्तरीत्या — भूमि गच्छति न महीरुहम् ' इत्यत्र महीरुहवृत्तिसंयोगस्य जनकतासंबन्धावच्छिन्नप्रतियोगिताकाभावबोधो न संभवति जनकत्वसंबन्धस्य वृत्त्य नियामकता दयाऽऽधेयत्वस्यैवाऽऽश्रयत्वादिसंबन्धावच्छिन्नप्रतियोगिताकफलनिष्ठाभावबोध उपपद्यते तदर्थ चाधे
"Aho Shrutgyanam"