________________
उक्तप्राचीननवीनमतयोःसमीक्षा] व्युत्पत्तिवादः ।
(२२९) संसां विभक्तेः संख्यामात्रमर्थः फलावच्छिन्नो व्यापारो धात्वर्थ इत्येवोचितम् । अस्तु च व्युत्पत्तिवैचित्र्येण नामार्थधात्वर्थयोरपि साक्षादन्वयबोधस्तथा सत्यऽतिप्रसङ्गस्य प्रागुपदर्शितप्रकारेण वारणसंभवात् । न चैतत्कल्पे :लाघवानव. काश:- फले स्वतन्त्रशक्त्यकल्पनेन सामग्रीप्रतिबन्धकतायां द्वितीयादिजन्यफलोपस्थितिधातुजन्यव्यापारोपस्थितिरित्युभयोपस्थित्यपेक्षया धातुजन्यविशिष्टविषयकोपस्थितेरेकस्या निवेशेन लाघवात् । यत्वस्य द्वितीयार्थत्यमावश्यकमेव फेन चित्पदेनोस्थिति विना ना तदभावबोधासंभवात् -पदा तु वृत्त्यनियामकस्य जनकत्वादिसंबन्धस्याप्यभावीयप्रतियोगितावच्छेदकत्वं स्वीकृतं सदा तु ' भूमि गच्छति न महीरुहम् ' ' ग्रामं न गच्छति' इत्यादौ महीरुहप्रामादिवृत्तिसंयोगादेर्जनकत्वसंबन्धेन व्यापारे नमाऽमाक्योधनसंभवादाधेयत्वस्य द्वितीयार्थत्वस्वीकारापेक्षा नास्ति संसर्गविधयापि माने दोषाभावात् प्रत्युत तत्र द्वितीयायाः शक्तिकल्पने एवं गौरवादित्यभिप्रायेणाह-वृत्त्यनियामकेति । विभक्तेः संरू पार्यकत्वं तु सर्वावस्थायां सर्वसंमतमेव । ननु पूर्वम् “ क्रियातादृशप्रातिपदिकार्थयोः (१८ पृ.) " इत्यादिना निपातातिरिक्तनामार्थधास्वर्थयोः भेदेन साक्ष दन्ययः प्रतिषिद्धस्तत्राधेवत्वस्य द्वितीपार्थत्वे प्रामस्यायत्ये आधेयत्वस्य च धात्वर्थीभूतसंयोगेऽन्वयो भवतीत्युक्तनियमपरिपालनं संभवति आधेयत्वस्य संसर्गत्वे तु ग्रामस्य नामार्थस्याधेयत्वसंबन्धेन धात्वर्थीभूतसंयोने ( संयोगावछिन्नव्यापारस्य धात्वर्थत्वेन संयोगस्य धात्वर्थत्वात् ) साक्षादेवान्ययः स्यादित्युक्तनियमभङ्गः स्यात् इत्याशक्याह-अस्तु चेति । व्युत्पत्तिवैचित्र्येण ग्रामं गच्छति । इत्यादिवाक्यजन्यबोधवैचित्र्ये ग, किं वा वृत्त्यनियामकसबन्धस्याभावप्रतियोगितावच्छेदकत्वस्वीकारवैचित्र्येण । नतु यदि ‘ग्रामं गच्छति । इत्यत्राधेयतासंबन्धेन धात्वर्थीभूतसंयोगे साक्षादेव ग्रामान्वयः स्यातदा ' ग्रामो गच्छति । इत्यपि प्रयोगः स्यात्--अत्रापि संसर्गविधयाभासमानाधेयतासंबन्धेन ग्रामस्य धात्वर्थीभूतसंयोगेऽन्वयसंभवाद् आधेयत्वस्य संसर्गत्वेन पदेन तदुपस्थित्यपेक्षाभावात्, मन्मते तु आधेयत्वं न संसर्गः किं तु प्रकार एवेति ' ग्रामो गच्छति' इत्यत्राधेयत्वोपस्थापिकाया द्वितीयाया अभावादेव नाधेयत्वसंबन्धेन ग्रामस्य धास्वर्थीभूतसंयोगेऽन्वयः संभवतीति न 'ग्रामो गच्छति । इत्यतिप्रसङ्गस्यापत्तिरित्याशङ्क्याह-तथा सतीति, तथा सति-आधेयत्वसंसर्गेण ग्रामस्य धात्वर्थीभूतसंयोगे साक्षादन्वयस्वीकारे सति, अतिप्रसङ्गस्य= प्रामो गच्छति' इतिप्रयोगापत्तः, प्रागुपदर्शितप्रकारेण-ग्रामकर्मकसंयोगानुकूलव्यापारविषयकशान्दबोधं प्रति किं वा आधेयतासंसर्गेण प्रामादेः धात्वर्थीभूतसंयोगेऽन्वयबोधं प्रति द्वितीयान्तग्रामादिपदसमभिव्याहृतगच्छतीस्यादिपदसमभिव्याहारज्ञानस्य कारणत्वान्न तादृशशाब्दबोधार्थम्-'ग्रामो गच्छति । इत्यादिप्रयोगापत्तिरित्यर्थः । ननु द्वितीयायाः फले शक्तिस्वीकारपक्षापेक्षयाऽस्मिन् मते किं नाम काघवमित्याशक्याह-न चेति । लाधवमाह-फले इति, फले द्वितीयाशक्तिस्वीकारे द्वितीयाज
"Aho Shrutgyanam"