________________
(२३०)
सादर्श:- [द्वितीयाकारकप्रथमखण्डेवस्तुतस्तु शाब्दबुद्धरधिकविषयकत्वे 'राज्ञः पुरुषः' इत्यादौ स्वत्वादे संसर्गतानिराकरणावसरे सामग्रीप्रतिबन्धकतायां लाघवस्य दर्शितत्वाद् द्वितीबादेराधेयत्वमर्थः फलावच्छिन्नव्यापारश्च धातोरित्येव युक्तम् ।
कर्माख्यातस्य फलमर्थः, अन्यथा 'ग्रामो गम्यते ' इत्यादौ ग्रामादेापार• अन्यफलाश्रयत्वरूपकर्मत्वप्रतीत्यनुपपत्तेः, यादृशविशेष्यविशेषणभावापन्नयोः पदशक्यता साहशविशेष्यविशेषणभावापन्नयोरेव शाब्दबोधे भानसंभवात्. न तु विपरीतविशेष्यविशेषणभावापन्नयोः । न्यफलोपस्थितेः धातुजन्यव्यापारोपस्थितेश्च कारणत्वं प्रतिबन्धकत्वं च स्यादिति गौरवम्, फलविशिष्टव्यापारे धातुशक्तिस्वीकारे चोपस्थितिद्वयस्थाने धातुजन्यफलविशिष्टव्यापारोपस्थितेरे. कस्या एव कारणत्वं प्रतिबन्धकत्वं चेत्यस्मिन्मते लाघवमित्यर्थः ।
विभिन्न विषयकप्रत्यक्षं प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वात् तादृशप्रतिबन्धकतायां लाघवप्राप्त्यर्थं पक्षान्तरमाह-वस्तुतस्त्विति । शाब्दबुद्धरधिकविषयकत्वे प्रत्यक्षस्य तदपेक्षया विभिन्न विषयकत्वमल्पमेव स्यादितिप्रतिबन्धकत्वमप्यऽल्पं स्यादिति लाघवम् । शाब्दबुद्धरधिकविषयकत्वसंपादनार्थ चाधेयत्वस्य द्वितीयार्थत्वं मन्तव्यं शेषं पूर्ववदेवेत्यर्थः ।। - संप्रति कर्मवाचकाख्यातप्रत्ययस्यार्थमाह-कर्मेति, 'ग्रामो गम्यते' इत्यत्रारख्यातस्य संयोगादिरूपं फलमाश्रयत्वं चार्थः धातोश्च पूर्ववदेव संयोगादिरूपफलावच्छिन्नव्यापार एवार्थ इति फलस्य द्वधा भानं भवति–संयोगानुकूलव्यापारजन्यसंयोगाश्रयो ग्राम इतिबोधात् । विपक्ष बाधकमाह-अन्यथेति, यदि कर्माख्यातस्य फलमर्थो न स्यात्तदा 'ग्रामो गम्यते ' इत्यत्र ग्रामे अत्संयोगरूपफलाश्रयत्वं प्रतीयते तन्न प्रतीयेत धातूपस्थितफलस्य व्यापारे विशेषणत्वेन ग्रामविशेषणत्वासंभवात् " एकत्र विशेषणत्वेनान्वितस्यान्यत्रविशेषणत्वेनान्वयाभावात् ". इतिन्यायादिति प्रामविशेषणीभूतसंयोगादिरूपफलोपस्थापकमाख्यातमेवेत्यर्थः । स्वाभिप्रायं प्रकटयतिमादृशेति, ग्रामवृत्तिसंयोगो ह्यत्र व्यापारविशेष्यतयैव भासते धातूपस्थितसंयोगश्च व्यापारविशेपणतया भासते इति व्यापारविशेषणत्वेन धातुपदशक्यस्य संयोगादिरूपफलस्य शाब्दबोधेपि न्यापारविशेषणत्वेनैव मानं संमवति न तु व्यापारविशेष्यत्वेनेति व्यापारविशेष्यभूतसंयोगस्याख्यातेनोपस्थितिः स्वीकार्येत्यर्थः । संयोगानुकूलव्यापारजन्यसंयोगाश्रयो ग्राम इत्यत्र पूर्वपूर्वस्य विशेषणत्वादुत्तरोत्तरस्य विशेष्यत्वादितिभावः । ___ ननु व्युत्पत्तिवैचित्र्येणैकत्र विशेषणतया भासमानस्याप्यन्यत्र विशेष्यतयां भानं संभवत्येव तथा च धातोः फले व्यापारे च खण्डशः शक्तिं स्वीकरिष्याम इति धातोः फले पृथक् शक्तिः स्वीकारात् 'ग्रामं गच्छति' इत्यादौ काख्यातसमभिव्याहारस्थले व्यापारविशेषणतया भासमानस्य संयोगादिरूपफलस्य कर्माख्यातस्थले तद्विशेष्यतया व्यापारविशेष्यतया भानं व्युत्पत्तिपैचित्र्यात्-बोधवैचित्र्यानानुपपन्नमिति फलस्व कर्माख्यातार्थत्वाभावेपि — प्रामो
"Aho Shrutgyanam"