________________
कर्माख्यातस्थल विचार: ]
व्युत्पत्तिवादः ।
( २३१ )
यत्तु फले धातोः पृथक् शक्त्युपगमाद् व्युत्पत्तिवैचित्र्येण कर्नाख्यातसम भिव्याहारस्थलें व्यापारविशेषणतया भासमानस्य फलस्य कर्माख्यातस्थले तद्विशेष्यतया भानमिति, तन्न, पृथक् शक्तिस्वीकारे शाब्दसामय्याः प्रतिबन्धकतायां विशिष्टविषयकोपस्थितिस्थले उपस्थितिद्वयनिवेशे गौरवात् । गम्यादेः संपूर्वयुजिप्रभृतिसमानार्थकता भ्रमवतामिव विशेषदर्शिनामपि 'गमनं न स्पन्दः ' इत्यादिवाक्यात् संयोगादौ स्पन्दभेदान्वयबोधापत्तेर्दर्शिताया दुर्वारत्वाच्च संयोगादिविशेष्यकवृत्तिज्ञानजन्यतदुपस्थितिघटितायास्तथाविधान्वयबोधसामय्या
अक्षतत्वात्, तत्तद्धातूपस्थाप्यव्यापारांशे तत्तद्विशेषणकबोधतात्पर्यज्ञानस्य तादृ: शान्वयबोध प्रतिबन्धकताकल्पने गौरवादिति ।
C
गम्यते ' इत्यादौ ग्रामादेर्व्यापारजन्यफकाश्रयत्वरूपकर्मत्वप्रतीत्यनुपपत्तिर्नास्त्येव धातुनैवोपस्थितस्य फलस्य व्यापारविशेष्यतया ग्रामविशेषणतया चात्र मानसंभवादित्याशङ्कते - यत्त्विति । परिहरति- तन्नेति, एवं हि धातुजन्यफलोपस्थितिधातुजन्यव्यापारोपस्थितिद्वयस्य कारणत्वेन प्रतिबन्धकत्वेन च गौरवं स्यादित्याह - पृथगिति । पृथक्शक्तिस्त्रीकारे धातोः फलेपृथक्शक्तिस्वीकारे । विशिष्टविषयकोपस्थितिः = फलावच्छिन्नव्यापारोपस्थितिः । किं च संयोगो न स्पन्दः ' इत्यत्र संयोगपदेनोपस्थितसंयोगे स्पन्दमेदान्वयो भवत्येवेति येषां गम्घातावपि संपूर्वकयुज्धातुसमानार्थकताभ्रमो जातस्तेषां दृष्ट्या गमनं न स्पन्दः ' इत्यत्रापि गमनपदेन विशेष्यतया संयोगोपस्थितेः संभवात् तादृशसंयोगे स्पन्दभेदान्वयानुपपत्त्यभावाद् यथा ' गमनं न स्पन्दः इति प्रयोगः स्यात्तथा विशेषदानाम् उक्तभ्रमरहितानामपि संप्रति धातुना पृथगुपस्थिते संयोगरूपफले स्पन्दभेदान्व संभवात् * गमनं न स्पन्दः इति प्रयोगापत्तिः स्यादेव न चैतदिष्टमिति न धातोः फले पृथक्शक्तिस्वीकारपक्षः सम्यगित्याह- गम्यादेरिति । उक्तविशेषदर्शिनां दृष्ट्या गमनं न स्पन्दः इतिप्रयोगापत्तौ हेतुमाह-संयोगेति, धातोः फळे पृथक् शक्तिस्वीकारे धातुना फलस्य पृथग् विशेष्यतयैवोपस्थितिः स्यादिति ' गमनं न स्पन्दः ' इत्यत्र स्पन्दभेदप्रकारक संयोगविशेष्यकशाब्दबोधकारणीभूतायाः संयोगविशेष्यकशक्तिज्ञानजन्यसंयोगोपस्थितिघटिताया: सामग्र्याः सत्त्वादेव सत्कार्यभूतस्य स्पन्दभेदप्रकार कसंयोगविशेष्यकशाब्दबोधस्य संभवात् ' गमनं न स्पन्दः ' इतिप्रयोगः स्यादेवेत्यर्थः । ननु ' गमनं न स्पन्दः १ इत्यत्र धातूपस्थितव्यापारे तत्तद्विशेषणक = स्पन्दभेदादीनां विशेषणत्वबोधविषयकतात्पर्यज्ञानस्थ धातूपस्थितसंयोगे स्पन्दमेदादीनां विशेषणत्वेनान्वयबोधं प्रति प्रतिबन्धकत्वं कल्पयिष्यामस्तथा चैतादृशप्रतिबन्धकस्य सत्त्वान्नात्र संयोगादौ स्पन्दभेदान्वयो भविष्यति व्यापारे च स्पन्दमेदो बाधित एवेति न गमनं न स्पन्दः ' इतिप्रयोगापत्तिरित्याशङ्क्याह-तत्तद्वातूपस्थाप्येति, एवं हि प्रतिबध्यप्रतिबन्धकभावकल्पने गौरवं स्यादित्यर्थः । तादृशान्वयबोधे = स्पन्द भेदप्रकार कसंयोगविशेष्यकशाब्दबोधे ।
८
,
"Aho Shrutgyanam"