________________
सादर्श:- [ द्वितीयाकारकप्रथमखण्डे-- - फलस्य द्विधा भानं चेदनुभवविरुद्धं तदा पुनरनायत्या फलव्यापारयोः खण्डशः शक्तिव्यमेव धातोः स्वीकरणीयम्, आख्यातस्याश्रयत्वमेव तत्रार्थः । अधिकमग्रे वक्ष्यते ।। ___ अथ द्वितीयाया आधेयत्वार्थकत्वे व्यापार तदन्वयतात्पर्यण सप्तम्या इव द्वितीयाया आप प्रयोगापत्तिः, ' न हि गृहे पचति ' इत्यादिवत् गृहं पचति' इति कश्चित् प्रयुकते। मैवम्- धात्वर्थतावच्छेदकालांशे आधेयत्वान्वये एव तादृशद्वितीयायाः साकाक्षत्वकल्पनाद् व्यापारे तदुपस्थापिताधेयत्वान्वयाऽसंभवात् । सप्तम्यवीनाधेयत्वोपस्थितिसप्तमीसमभिव्याहारज्ञानवटिताया एव सामग्र्यारतादृशान्वयबोधनियामकत्वात् । द्वितीयासप्तम्योः समानार्थकत्वोपे व्युत्पत्तिभेदज्ञापनायैव पृथक् पृथक सूत्रेणैव तयोविधानात् । "मनु कर्माख्यातस्य फले शक्तिस्वीकारे हि 'ग्रामो गम्यते ' इत्यत्र ' संयोगानुकू टगापारजन्यसंयोगाश्रयो ग्रामः' इति बोधापत्त्या फलस्य द्विधा द्विवारं भानं सादेव न चैकस्मिन् बोधे फलस्य द्विधा भानमनुभवसिद्धमित्याशक्याह-फलस्येति । अनायत्त्या अगत्या ! तत्र कर्मरूपातस्यले । तथा च फलन्यापारयोर्धातोः खण्डशक्तिस्वीकरे फलेस्य व्यापारविशेषगवेनोपस्थित्यभावात्तादृशसंयोगादिरूपफलस्य पृथगुपस्थितस्य ग्रामे विशेषगत्व न काप्यनुपरत्तिारतिभावः । अग्रे चातुप्रकृतिकप्रत्ययार्थनिरूपणस्थले ।
ननु यदि द्वितीयाया आवेयत्वमर्थः स्यात्तदा तादृशाऽऽधेपत्वस्य व्यापारेऽन्वयतात्पर्येण पथा — गृहे पचति ! इतिप्रयोगो भवति तथा — गृहं पचति । इत्यपि प्रयोगः स्यात्- आधेयवार्थकत्येन द्वितीयासप्तम्योः समानार्थकत्वापत्तेः, न चैतदिष्टमित्याशङ्कते- अथेति । गृहे पचति । इत्यत्र गृहनिरूपिताधेयतावान् पाक इति बोधोदयात् सप्तम्यर्थाधे यत्वस्थ व्यारेऽन्वयो ज्ञेयः । परिहर त= मैवमिति, यदा हि धात्वर्थतावच्छेदकफले एवाधेयत्वस्पान्वयो भवति तदैव ताशद्वितीयायाः-आधेयत्वार्थकद्वितीयायाः प्रयोगो भवति यथा ' ग्रामं गच्छति ' . ' तण्डुलं पचति ' इति, तस्माद् द्वितीयोपस्थिताधेयत्वस्य व्यापारेऽन्धयासंभवात् 'गृहं पचति । इतिप्रयोगापत्तिर्नास्त्येवेत्यर्थः । सप्तम्यर्थाधेयत्वस्यैव सप्तम्योपस्थितस्य व्यापारेऽन्वयो भवती ते 'गृहे पचति । इत्येव प्रयोगो भवतीत्याह-सप्तम्यधीनेति । तादृशान्वयबोधनियामकत्वात्= व्यापारविशेष्यकाधेयत्वप्रकारकशाब्दबोधनियामकत्वात् । यद्यपि द्वितीयासप्तम्योरुभयोरप्याधेयस्वमेवार्थस्तथापि व्युत्पत्तिभेदज्ञापनायैव शाब्दबोधविशेषस्वरूपज्ञापनायैव तयोः द्वितीयासप्तम्योः पृथक् पृथक् सूत्रेण:" कर्मणि द्वितीया " " सप्तम्यधिकरणे च" इति सूत्राभ्यां विधानं कृतं तथा च यदाऽऽधेयत्वस्य धात्वर्यतावच्छेदके फलेन्क्यो भवति तदा द्वितीया भवति यथा : ग्रामं गच्छति । 'तण्डुलं पचति' इति, अत्राधेयत्वस्य धात्वर्थतावच्छेदकीभूतसंयोगविक्लिज्यादावन्वयात्, यदा चाधेयत्वस्य व्यापारे एवान्वयो भवति तदा सप्तमी भवति यथा 'गृहे
"Aho Shrutgyanam"