________________
पततिप्रयोगविचारः ] व्युत्पत्तिवादः।
अथाधःसंयोगावच्छिन्नस्पन्दस्य पतधात्वर्थ वाद् धात्वर्थतावच्छेदकीभूतफले आधेयत्वान्वयतात्पर्येण — भूमि पतति ' इति प्रयोगापत्तिः । न च दितीयोपस्थिताधेयत्वप्रकारकफलविशेष्यकान्वयबोधे गम्यादिजन्यफलोपस्थितितत्समभिव्याहारज्ञानघटितसामग्येव प्रयोजिका न तु पतधातुजन्यतदुपस्थितिवटिता सामग्रीति नातिप्रसङ्ग इतिवाच्यम्, पतधातुनैव यत्र संयोगावच्छिन्नगमनं लक्ष. णादिनोपस्थापितं तत्र संयागे द्वितीयार्थाधेयत्वान्वयात् । ____ अत्राहुः- धातुजन्यशुद्धसंयोगावच्छिन्नस्पन्दोपस्थितेः शाब्दबोधकारणता
यामऽवच्छेदकपटकसंयोगविषयतायामऽधिकरणानवच्छिन्नत्वं विशेषणं देयं पचति । इत्याह- द्वितीयासतम्पोरिति । एवकारो भिन्नक्रम इति ‘पृथक् पृथगेव ' इत्यन्वयः । * ग्रामं गच्छति ' इत्यत्र ' ग्रामवृत्तिसंयोगानुकूलव्यापारवान् । इतिबोधः, 'तण्डुलं: पचति । इत्यत्र ' तण्डुलवृत्तिविक्लित्त्यनुकूरव्यारावान् ' इतिबोधः । वृत्तरेव चाधेवत्वम् ।
ननु यद्युक्तरीत्या धात्वर्थतायच्छेद के फले आयत्वान्वयतात्पर्ये द्वितीया भवति तदाऽधासंयोगावच्छिन्नस्पन्द एव पतधात्वर्थोस्तीति तत्राधेयत्वस्य धात्वर्थतावच्छेदकीभूतफरेऽधःसंयोगे तात्पर्येण द्वितीयाप्राप्त्या — भूमि पतति । इत्यरि प्रयोगः स्यात्. न चैतदिष्टमित्याशङ्कतेअथेति । ननु द्वितीयोपस्थितावेयत्वप्रकारकफविशेष्यफशाब्दबोध प्रति गम्यादिधातुजन्यफलो. पस्थितिघटितायास्तथा गम्यादिसमभिव्याहारवटिताया एव सामग्र्या हेतुत्वमस्तीति ' ग्राम गच्छति । इत्यादिप्रयोगो भवति, द्वितीयोपस्थिताधेयत्वप्रकारकमलविशेष्यकशाब्दबोधं प्रति पतधातुजन्यफसोपस्थितिघटितलामय्याः कारणत्वं नास्तीति नातिप्रसङ्गः= 'भूमि पतति । इतिप्रयोगापत्तिास्त्वेत्र अर्थात् - गम्यादिधात्वर्थतावच्छेदकीभूतफले आधेयत्वान्वयतात्पर्य सत्येव द्वितीया भवति पतधात्वर्थतावच्छेदकीभूतकले आधेयत्वान्वयतात्पर्य सत्यपि द्वितीया न भवतीति न ' भूमि पतति ' इति प्रयोगापत्तिरित्याशझ्याह-- न चेति । परिहारमाह- पतधातुनेति, एवं नियमे कृले हि यत्र पतधातोः संयोगावच्छिन्नगमनव्यापारे लक्षणा भवति तत्र लक्षणयोपस्थिते धात्वर्यतावच्छेदकीभूतसंयोगरूपफले द्वितीयाधियत्वान्वयेऽनुपपत्त्यभावात् ' भूमि पतति ' इतिप्रयोग इष्ट एव स च न स्यात्, तदानीं पतधात्वर्थतावच्छेदकीभूतफले एवाधेयरवान्त्रयतात्पर्यस्य सत्त्वादित्यर्थः । ___ समाधत्ते- अत्राहुरित्यादिना । धातुजन्यशुद्धसंयोगावच्छिन्नस्पन्दोपस्थितिनिष्ठायां शाब्दबोधकारणतायाम् अवच्छेदकघटकसंयोगविषयतायाम्-धात्वर्थतावच्छेदकीभूजसंयोगनिष्ठविषयतायामधिकरणानवच्छिन्नत्वं विशेषणं देयम्, अर्थाद् धात्वर्थतावच्छेदकीभूतसंयोगो यत्राधिकरणानेवच्छिन्नो भवति तत्र तादृशसंयोगे आधेयत्वान्वयतात्पर्ये सति द्वितीया भवति यत्र च धात्वर्थतावच्छेदकीभूतसंयोगोऽधिकरणविशेषावच्छिन्नो भवति तत्र द्वितीया न भवति तथा च ग्रामं गच्छति' इत्यत्र धात्वर्थतावच्छेदकीभूतसंयोगः केनाप्यधिकरणेनावच्छिन्नो नास्तीत्ये
"Aho Shrutgyanam"