________________
(२३४)
सादर्श:- [द्वितीयाकारकप्रथमखण्डे- : तथा च तादृशविषयताशालिसंयोगोपस्थित्यादिघटितसामग्र्या एव संयोगविशेष्यकद्वितीयोपस्थाप्याधेयत्वान्वयबोधप्रयोजकत्वोपगमान्नातिप्रसङ्गः।
न चैवमपि फलावच्छिन्नव्यापारबोधकतया पतेः सकर्मकत्वव्यवहारापत्तिqारैवेति वाच्यम्, आश्रयानवच्छिन्नफलावच्छिन्नव्यापारबोधकत्वस्यैव ताहशव्यवहारनियामकत्वात् । उत्तरदेशानवच्छिन्नमेव संयोगः फलं गम्यर्थतावच्छेदकमिति नानुपपत्तिः, अत एवाग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारस्य जुहोत्यर्थतया धात्वर्थतावच्छेदकसंयोगाश्रयस्थाप्यग्नेर्न तत्कर्मता- आश्रयानवच्छिन्ना. तादृशसंयोगे आधेयत्वान्चयतात्पर्येण द्वितीया जाता, पतधात्वर्थस्तु अधःसंयोगावच्छिन्न एव स्पन्द इति तत्र धात्वर्थतावच्छेदकीभूतसंयोगस्याऽधोदेशरूपाधिकरणेनावच्छिन्नत्वात् तत्र द्वितीया न भवतीति न 'भूमि पतति' इतिप्रयोगापत्तिरित्यर्थः । संयोगस्यावच्छिन्नत्वे संयोगनिष्ठशाब्दबोधविषयताया अप्यवच्छिन्नत्वं भवति- शाब्दबोधविषयताया अधोदेशावच्छिन्नत्वस्य च संयोग सत्त्वेन तयोः सामानाधिकरण्यादवच्छेद्यावच्छेदकभावस्य संभवात् , संयोगस्यानवच्छिन्नत्वे संयोगनिष्ठविषयत्ताया अप्यनवच्छिन्नत्वं ज्ञेयम् । तादृशविषयताशालिअधिकरणानवच्छिन्नविषयताशालिसंयोगस्य योपस्थितिस्तद्घटितसामग्र्या एवं द्वितीयाधियत्वप्रकारकसंयोगविशेष्यका शाब्दबोधकारणत्वमस्तीति नातिप्रसङ्गः= 'भर्मि पतति' इति प्रयोगापत्तिर्नास्त्येव, पतधात्वर्थता बच्छेदकीभूतसंयोगनिष्ठविषयताया अधोदेशावच्छिन्नत्वादित्याह- तथा चेति ।। __ नन्वेवमपि फलावच्छिन्नव्यापारबोधकत्वमेव सकर्मकत्वमित्युक्तमिति पतधातोरप्यऽधःसंयोगावच्छिन्नन्यापारबोधकत्वात्सकर्मकत्वं स्यादेव तथा च पतधात्वर्थनिरूपितकर्मत्वाश्रयबोधकपदाद् द्वितीया स्यादेवेति — भूमि पतति । इति. प्रयोगापत्तिस्तदवस्थैवेत्याशङ्कयाह- न चेति । परिहारमाह- आश्रयानवच्छिन्नेति, आश्रयविशेषानवच्छिन्नं यत् फलं तादृशफलावच्छिन्नव्यापारबोधकत्वमेव तादृशव्यवहारस्य सकर्मकस्वव्यवहारस्य नियामकमस्तीति गम्यादिधात्वर्थतावच्छेदकफलस्य संयोगस्याधिकरणविशेषेणाऽनवच्छिन्नत्वात्तादृशाधिकरणानवच्छिन्नकलावच्छिन्नयापारबोधकत्वाद् गम्यादेः सकर्मकत्वमस्ति, पतधात्वर्थतावच्छदकीभूतसंयोगरूपफलस्याऽधोदेशा. पच्छिन्नत्वेनाश्रयावच्छिन्नफलावच्छिन्नव्यापारबोधकत्वात् पतधातोः सकर्मकत्वापत्तिर्नास्तीत्यर्थः । ननु ' ग्राम गच्छति । इत्यादौ गम्धात्वर्थतावच्छेदकीभूतफलरूपसंयोगोप्युत्तरदेशावच्छिन्न एवास्ति- उत्तरदेशसंयोगानुकूलव्यापारस्यैव गम्धात्वर्थत्वादित्याशक्याह- उत्तरदेशेति, गम्धात्वघेतावच्छेदकीभूतः संयोगः शुद्धसंयोग एव नोत्तरदेशावच्छिन्नसंयोग इति न गम्यादेः सकर्मकत्वानुपपत्तिरित्यर्थः । अत एव आश्रयानवच्छिन्नफलावच्छिन्नव्यापारबोधकस्यैव धातोः सकमकत्वाद् आश्रयानवच्छिन्नफलाश्रयस्यैव कर्मत्वव्यपदेशाच, अमिरूपाश्रयेणावच्छिन्नो यः संयोगो धृतामिसंयोगस्तादृशसंयोगावच्छिन्ना तादृशसंयोगानुकूला या घृतनिष्ठा क्षरणरूपा क्रिया ताहशक्रियानुकूलो यो हवनकर्तृनिष्ठो घृतत्यागरूपो व्यापार स एव हुधात्वर्थ इति हुधात्वर्थतावच्छेदकसंयोगाश्रयत्वं यद्यप्यमेरस्ति तथाप्यनेन तस्कर्मता-जुहोतिकर्मता- अश्याश्रितस्य धात्व
"Aho Shrutgyanam"