________________
जुहोतिप्रयोगविचारः] व्युत्पत्तिवादः।
(२३५ वच्छेदकताश्रयफलवत्त्वविरहात्. संयोगनिष्ठाया धात्वर्थतावच्छेदकताया आश्रयेणानिनाऽवच्छिन्नत्वात् ।।
न चाग्निविशेषितसंयोगस्य धात्वर्थतावच्छेदकत्वे - अग्नौ घृतं जुहोति' इत्यत्रानन्वयप्रसङ्गः- उद्देश्यतावच्छेदकविधेययोरैक्यादिति वाच्यम्, तत्र संयोगनिष्ठायामुद्देश्यतायां वढेराधेयतासंसर्गेणावच्छेदकतया सप्तम्यर्थस्याग्निवृत्तित्वस्य च विधेयतया उद्देश्यतावच्छेदकविधेययोरैक्यानवकाशात् । वस्तुतस्तु तत्र वढेरनन्वयेपि न क्षतिः- व्युत्पन्नानां ताशप्रयोगस्याऽप्रामाणिकत्वात् । 'संस्कृते वह्नौ जुहुयात् ' इत्यादिस्थले च विधेयांशेऽधिकावगाहनान्नास्त्येवार्थतावच्छेदकीभूतसंयोगस्याश्रयानवच्छिन्नस्वाभावात्- आश्रयानवच्छिन्ना या संयोगनिष्ठा धात्वर्थतावच्छेदकता तादृशावच्छेदकताश्रयीभूतं यत् फलं संयोगस्तद्वत्त्वविरहादग्नेरित्याह-- अत एवेत्यादिना । संयोगस्यात्राश्रयानवच्छिन्नत्वाभावे हेतुमाह-संयोगनिष्ठाया इति । न चैव जुहोतेः सकर्मकत्वानुपपत्तिरितिशङ्क्यम्- जुहोतिधात्वर्थतावच्छेदकीभूतायाः क्षरणरूपक्रियाया आश्रयविशेषानवच्छिन्नत्वेनैव प्रतीयमानत्वात्, एतादृशक्रियाश्रयत्वेन घृतस्य जुहोतिकर्मत्वमपि नानुपपन्नमितिज्ञेयम्, तस्मात् 'घृतं जुहोति ' इतिप्रयोगो भवति 'अग्निं जुहोति ' इतिप्रयोगस्तु न भवति ।
ननु यद्यग्निविशेषितः अश्यवच्छिन्न एव संयोगो हुधात्वर्थतावच्छेदकस्तदा ‘अमौ घृतं जुहोति' इत्यत्रामिसंयोगस्योद्देश्यत्वादुद्देश्यतावच्छेदकत्वमग्नेरेव प्राप्तम् 'अग्नौ । इति पदेनामेरेव च विधेयत्वमस्ति घृतादीनां प्राप्तत्वादित्युद्देश्यतावच्छेदकस्य विधेयस्य चैक्ये प्राप्ते शाब्दबोधो न जायते इति पूर्वमेव ( ६४ पृ. ) प्रतिपादितमित्याशङ्कते- न चेति । अनन्वये हेतुमाह- उद्देश्येति । परिहरति- तत्रेति । तत्र= अमौ घृतं जुहोति ' इत्यत्र यद्यप्यनिसंयोगस्यैवोद्देश्यत्वादमेरेवाऽऽधेयतासंबन्धेन तादृशसंयोगे वर्तमानस्याऽऽधेयतासंसर्गेणोद्देश्यतावच्छेदकत्वं तथापि विधेयत्वममेर्नास्ति किं तु ' अनौ , इतिसप्तम्यर्थस्य वृत्तित्वस्य=अमिनिरूपिताधेयत्वस्यैव विधेयत्वमस्तीत्युद्देश्यतावच्छेदकस्य विधेयस्य च भेदान्नात्र शाब्दबोधानुपपत्तिरित्यर्थः । स्वमतमाह- वस्तुतस्त्विति, तत्र' अग्नौ घृतं जुहोति । इत्यत्रैकस्य वढेरुद्देश्यतावच्छेदकत्वेन विधयत्वेन चाऽनन्दयेपि क्षतिर्नास्ति- तादृशप्रयोगस्य=' अग्नौ घृतं जुहोति ' इति प्रयोगस्यैवाऽप्रामाणिकत्वादित्यर्थः। मीमांसकमतेन चात्र "अप्सु जुहोति " " पाणौ जुहोति " " पदे जुहोति " इत्येवं होमाधिकरणानां विविधानां प्रतीयमानत्वाद् हुधात्वर्थतावच्छेदकीभूतसंयोगावच्छेदकत्वं वहेर्नास्त्येव- उक्तोदाहरणेषु व्यभिचारादिति अधिकरणसामान्यस्यैव तादृशसंयोगावच्छेदकत्वं स्वीक्रियेते इति नामेरुद्देश्यतावच्छेदकत्वं येन शाब्दबोधानुपपत्तिः स्यादिति ज्ञेयम् । नन्वेवम् ' संस्कृते बहौ जुहुयात् ' इत्यत्राप्युक्तरीत्याऽग्नेरेवोद्देश्यतावच्छेदकत्वाद् विधेयत्वाच शाब्दबोधानुपपत्तिः स्यादित्याशङ्क्याह- संस्कृते इति, यथा. ' घटो नीलघटः । इत्यत्र विधेयांशेऽधिकावगाहि
"Aho Shrutgyanam"